युगपन्ननु संवित्तिर्विशेषणविशेष्ययोः।
प्रत्यक्षेऽपि न दृष्टैव न च युष्माभिरिष्यते॥ ३४॥
कार्यकारणभावो हि तद्धियो भवतां मते।
तस्माद् विशेषणे जातौ पूर्वमिन्द्रियजा मतिः॥ ३५॥
पदादपि तदायत्तसम्बन्धज्ञप्त्यपेक्षिणः।
तत्रैव बुद्धिरित्येवं न व्यक्तेरपि वाच्यता॥ ३६॥
(न्यायमं.)
उच्यते, प्रत्यक्षे तावद्द्वयोरपि विशेषणविशेष्ययोः इन्द्रियविषयतासामान्ये संयुक्तसमवायादिन्द्रियं प्रवर्तमानं विशेषणवद्विशेष्यमपि विषयीकरोति। न च सामान्यं प्रत्यक्षं विशेषोऽनुमेय इति व्यवहारः। एवं हि गुणमात्रग्राहिणीन्द्रिये गुणिनोऽनुमेयत्वं स्यात्। न चैवमस्ति। तस्माद् विशेष्यपर्यन्तं प्रत्यक्षं, तथा पदमपि तत्तुल्यविषयं न सामान्यमात्रनिष्ठमिति युक्तम्। यत्त 'सामान्यांशादपोद्धत्य पदं सर्वं प्रवर्तते॥ ३७॥ (न्यायमं.) इति केवलव्यक्त्यभिधाने सत्यानन्त्यव्यभिचारभयादुच्यते। तद्वदभिधाने तु न तदुभयमस्तीति न शुद्धजात्यभिधेयतया शब्दव्यापारः सङ्कोचनीयः।
ननु सर्वात्मना प्रत्यक्षतुल्यविषयश्चेच्छब्दः प्रतिपत्तिसाम्यं प्रसजेत ? न च शब्दादिन्द्रियाच्च तुल्ये प्रतिपत्ती भवतः। तदुक्तम्— (वाप. २.४.१९, न्यायमं.)
अन्यथैवाभि(ग्नि)संबन्धाद् दाहं दग्धो हि मन्यते।
अन्यथा दाहशब्देन दाहार्थस्संप्रतीयते॥ ३८॥
उच्यते — परिहृतमेतत् सकलविशेषग्रहणाग्रहणाभ्यां प्रतिपत्तिविशेषसिद्धेः। नैतावता सामान्यमात्रनिष्ठः शब्दो भवति। अपि च निष्कृष्टसामान्यांशवचनत्वे गोशब्दाद् गोत्वशब्दाच्च तपल्ये प्रतिपत्ती स्याताम्। गौः शुक्ल इतिवच्च गोत्वं शुक्लमिति बुद्धिः स्यात्। चातुर्वर्ण्यादिवच्च स्वार्थ एव गोशब्दाद् भावप्रत्ययस्त्वतलादिः स्यात्।
अथ मन्येथाः आक्षिप्तव्यक्तिकां जातिं गोशब्दो वक्ति, भावप्रत्ययान्तस्तु निष्कृष्टामिति, तदनुपपन्नम्; अनाक्षिप्तव्यक्तिकायाः क्वचिदपि जातेरदर्शनात्। अथ गोशब्दश्रवणवेलायां न व्यक्तिसंस्पर्शशून्या जातिरवगम्यते। भावप्रत्ययान्ते तु गोशब्दे श्रुते तच्छून्या शुद्धासौ प्रतीयत इति।
यद्येवमागतोऽसि मदीयं पन्थानम्, आश्रयवती चेज्जातिरुच्यते जात्याश्रय उक्त एव भवति; नान्यथा हि साश्रयवत्युक्ता स्यात्। तदाश्रयपरिहारेणाश्रयिसामान्य— मात्रविवक्षायां त्वतलादयः प्रयुज्यन्ते। तथा चाहुः 'यस्य गुणस्य हि भावाद्द्रव्ये शब्द— निवेशस्तदभिधाने त्वतलौ' (मभा. ५.१.११९) इति। गुणस्य भावाद्द्रव्ये शब्दनिवेश इत्यस्मत्पक्षसाक्षीण्यक्षराणि। सामानाधिकरण्यं च तत्रैवोपपद्यत इत्युक्तमेव। तस्मात्
यथा विध्यन्तपर्यन्तो वाक्यव्यापार इष्यते।
तथैव व्यक्तिपर्यन्तः पदव्यापार इष्यताम्॥ ३९॥
(न्यायमं.)
अनुपरतव्यापार एव शब्दे तदवगमात्—(न्यायमं.)
येनान्विताभिधानं च पदानामभ्युपेयते।
सुतरां तेन वक्तव्या व्यक्त्यन्तं तावतो मतिः॥ ४०॥
न हि व्यक्त्यनपेक्षाणां जातीनामितरेतरम्।
अन्वयोऽनन्वितानां च नाभिधानमिति स्थितिः॥ ४१॥
गङ्गायां घोष इत्यादौ यथा सामीप्यलक्षणा।
नैवं गौश्शुक्ल इत्यादौ विद्यते व्यक्तिलक्षणा॥ ४२॥
प्रयोगप्रतिपत्तिभ्यां वृद्धेभ्योऽध्यवसीयते।
तस्माद् गवादिशब्दानां तद्वानर्थ इति स्थितम्॥ ४३॥
सर्वेषु च प्रयोगेषु गां दोग्धीत्येवमादिषु।
तद्वतोऽर्थक्रियायोगात् तस्यैवाहुः पदार्थताम्॥ ४४॥
पदं तद्वन्तमेवार्थमाञ्जस्येनाभिजल्पति।
न च व्यवहिता बुद्धिर्न च भारस्य गौरवम्॥ ४५॥