Skip to main content
Search
Ch. 6 SP 6.308
Full Chapter
SP • Chapter 6: Prakāśa 6: विभक्त्यर्थादिचतुष्टयप्रकाशः

SP 6.308

Canonical Ref: SP 6.308
Sanskrit (Devanāgarī)
उच्यते, प्रत्यक्षे तावद्‍द्वयोरपि विशेषणविशेष्ययोः इन्द्रियविषयतासामान्ये संयुक्तसमवायादिन्द्रियं प्रवर्तमानं विशेषणवद्‍‌विशेष्यमपि विषयीकरोति। न च सामान्यं प्रत्यक्षं विशेषोऽनुमेय इति व्यवहारः। एवं हि गुणमात्रग्राहिणीन्द्रिये गुणिनोऽनुमेयत्वं स्यात्। न चैवमस्ति। तस्माद् विशेष्यपर्यन्तं प्रत्यक्षं, तथा पदमपि तत्तुल्यविषयं न सामान्यमात्रनिष्ठमिति युक्तम्। यत्त 'सामान्यांशादपोद्धत्य पदं सर्वं प्रवर्तते॥ ३७॥ (न्यायमं.) इति केवलव्यक्‍त्यभिधाने सत्यानन्त्यव्यभिचारभयादुच्यते। तद्‍वदभिधाने तु न तदुभयमस्तीति न शुद्धजात्यभिधेयतया शब्दव्यापारः सङ्कोचनीयः।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 6.308. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 6.307) All Verses in Chapter 6 Next Verse (SP 6.309) →