एतेनैतद्व्यतिरेकोऽपि व्याख्यातः। यथा—(सेब. ९.१)
अह पेच्छंति पवंगा सअल—जअक्कमण—व़ड्ढिअमहासिहरं।
णिट्ठविअ—दक्खिण—दिसं सेसदिसा—मुह—पहाविअं व सुवेलं ॥ ११६ ॥
इत्यत आरभ्य—(सेब. ९.९५)
तुङ्ग—अडोज्झर-मुहले जस्स अ कसणमणिगंड—सेलद्धंते।
सेवंतीण ण पत्तो तिअस—वहूण सिढिलत्तणं अणुराओ ॥ ११७ ॥
(अथ प्रेक्षन्ते — — — — अनुरागः ॥)
इत्याश्वासकपरिसमाप्तिर्यावदिति।
ननु वर्णसमूहः पदं, पदसमूहो वाक्यं, वाक्यसमूहः प्रकरणमित्याचक्षते।
तत्कथमुच्यते एकवाक्यं प्रकरणमवान्तरवाक्यं प्रकरणमिति ?
उच्यते, त एव प्रष्टव्याः उच्चरितप्रध्वंसिनामनर्थकानां च वर्णानां समूहस्य पदत्वमर्थवत्तया वर्णयन्तः। वयं त्वेकार्थपरः पदसमूहो वाक्यमित्येव प्रतिजानीमहे। तत्र पदैरपि वाक्यमारभ्यते, वाक्यैरपि च प्रकरणमारभ्यते, वाक्यैः पदैरपि च प्रकरणैः प्रबन्ध आरभ्यते। ततश्च
वाक्येष्वपि वाक्यानि भवन्ति। यथा— (मवीच. १.३०)
कन्यारत्नमयोनिजन्म भवतामास्ते वयं चार्थिनो रत्नं यत्क्वचिदस्ति तत्परिणमत्यस्मासु शक्रादपि।
कन्यायाश्च परार्थतैव हि मता तस्याः प्रदानादहं बन्धुर्वो भविता पुलस्त्यपुलहप्रष्ठाश्च संबन्धिनः ॥ ११८ ॥
प्रकरणेष्वपि प्रकरणानि यथा— इन्दुमतीस्वयंवरे मगधेश्वरादिराजवर्णनादीनि।
प्रबन्धेष्वपि प्रबन्धा यथा— उत्तरचरितादौ गर्भनाटकादीनि।
यदि वाक्यमेव पदसमूहः, कथमाह महावाक्यो(काव्यो)पनिषदाचार्यो दण्डी—
तैश्शरीरं च काव्यानामलङ्काराश्च दर्शिताः।
शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली ॥ ११९ ॥
इति। (काआ. १.१०)
(१२. प्रबन्धः)
विधिनिषेधावगतिहेतुर्महावाक्यं प्रबन्धः।
तत्त्रिधा — १. पद्यं, २. गद्यं (च), ३. मिश्रं च।
(१. पद्यम्)
तेषु च्छन्दोगतं पद्यम्। छन्दस्तु त्रिधा— अक्षरच्छन्दो, मात्राच्छन्दो, गणच्छन्दश्चेति। तान्यपि प्रत्येकं त्रिधा समार्धसमविषमभेदात्। तत्र —
अक्षरच्छन्दस्समं यथा—(ऋवे. १०.१०३.१)
आशुश्शिशानो वृषभो न युध्मो घनाघनः क्षोभणश्चर्षणीनाम्।
संक्रन्दनोऽनिमिष एकवीरश्शतँ सेना अजयत्साकमिन्द्रः ॥ १२० ॥
अर्धसमं यथा—(ऋवे. १०.८५.१९)
नवो नवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रे।