कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात् परं साथ वयः प्रपेदे ॥ ९० ॥
इत्यत आरभ्य—(कुसं. १.४९)
सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेशं विनिवेशितेन।
सा निर्मिता विश्वसृजा प्रयत्नादेकस्थसौन्दर्यदिदृक्षयेव ॥ ९१ ॥
इति यावत्। अत्र हि—(कुसं. १.३२)
उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर्भिन्नमिवारविन्दम्।
बभूव तस्याश्चतुरश्रशोभि वपुर्विभक्तं नवयौवनेन ॥ ९२ ॥
इत्यादेः प्रकरणार्थस्य पार्वतीरूपयौवनलावण्यवर्णनाद्यवगम्यते।
(२) कल्पितं द्विधा— साभासं निराभासं च। तयोः
साभासं यथा— (माघ. १.४२)
अभूदभूमिः प्रतिपक्षजन्मनां भियां तनूजस्तपनद्युतिर्दितेः।
यमिन्द्रशब्दार्थनिषूदनं हरेर्हिरण्यपूर्वं कशिपुं प्रचक्षते ॥ ९३ ॥
इत्यत आरभ्य—(माघ. १. ६९)
यथोपपत्तिच्छलनापरोऽपरामवाप्य शैलूष इवैष भूमिकाम्।
तिरोहितात्मा शिशुपालसंज्ञया प्रतीयते संप्रति सोऽप्यसः परैः ॥ ९४ ॥
इति यावत्। अत्र हि—(माघ. १.४८)
विनोदमिच्छन्नथ दर्पजन्मनो रणेन कण्ड्वास्त्रिदशैस्समं पुनः।
स रावणो नाम निकामभीषणं बभूव रक्षः क्षतरक्षणं दिवः ॥ ९५ ॥
इत्यादिः प्रकरणार्थः कल्पितोऽपि पुराणेषूपलम्भासंभवाच्च तथात्वेनावभासते।
निराभासं यथा—(किराता. १६.१)
ततः किराताधिपतेरलघ्वीमाजिक्रियां वीक्ष्य विवृद्धमन्युः।
स तर्कयामास विविक्ततर्कश्चिरं विचिन्वन्निव कारणानि ॥ ९६ ॥
इत्यत आरभ्य—(किराता. १६.१७)
इयं च दुर्वारमहारथानामाक्षिप्य कीर्ति महतां बलानाम्।
शक्तिर्ममावस्यति हीनयुद्धे सौरीव तारापतिधाम्नि दीप्तिः ॥ ९७ ॥
इति यावत्। अत्र हि—(किराता. १६.२)
मदस्त्रुस्त्रतिश्यामितगण्डलेखाः क्रामन्ति विक्रान्तनराधिरूढाः।
सिहष्णवो नेह युधामभिज्ञा नागा नगोच्छ्रायमिवोत्क्षिपन्तः ॥ ९८ ॥
इत्यादिः प्रकरणार्थः तापसकिरातयुद्धवर्णनायामनाभासमानः काव्यकुशलेन कविनोहापोहद्वारेणोपकल्प्य कथ्यते।
(३) आकस्मिकं द्विधा सबीजं निर्बीजं च। तयोः