Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 03

Prakāśa 3: प्रकृत्यादिशब्दप्रकाशः

प्रकाशः 3 • प्रकृत्यादिशब्दप्रकाशः

Prakāśa 3 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 689 Verses • Citations: SP 3.1–689 • 4 Lexicon Terms • Page 10 of 23 (Verses 30 shown)
कार्यस्य कारणं प्रति प्रयोजकत्वं तादर्थ्यम्; विशिष्टः कार्यकारणभाव इति यावत्। यद्धि यदर्थं तन्नियोगतस्तस्य कारणं यथा अङ्गुलीयाय कनकमिति।
कथं तर्हि हेतोर्न भिद्यते ?
यतः कारणस्य कार्यप्रसवयोग्यता हेतुत्वम्; कार्यस्य कारणं प्रति प्रयोजकत्वं तादर्थ्यमिति। अयं च विशेषः कार्यवाचिन एव तादर्थ्ये चतुर्थी कार्यवाचिनो निमित्तवाचिनश्‍च हेतोस्तु तृतीयेति।
यद्येवं हेतुलक्षणयोर्हेतुलक्षणा तृतीया कनकात् प्राप्‍नोति।
न च तादर्थ्यचतुर्थ्या बाध्यते, विषयभेदात्; कार्यवाचिनो हि तृतीया, चतुर्थी कारणवाचिन इति।
कथं च संबन्धे विधीयमाना चतुर्थी कार्यशब्दादेव, न कारणशब्दात्।
अपि च भिन्नाधिकरणत्वात् संबन्धस्य, यथा राज्ञः पुरुष इति द्विष्ठमपि संबन्धं राजशब्दादुत्पद्यमाना षष्ठी उपाधत्ते। तथा कार्योपजनित— व्यतिरेकादुत्पद्यमाना चतुर्थ्युभयमपि संबन्धमुपाधास्यते इति।
नैवम्; तस्मै तदर्थमिति सर्वनाम्‍ना योऽर्थः प्रतिपद्यते स एव स्वकारणापेक्षया प्रापितव्यतिरेकश्‍चतुर्थ्या संबध्यते। यथा— यदर्थमस्य मन्त्रः तदनेनाधिगतमिति सर्वनामार्थ एव कार्ययोगी, तथेहापि तच्छब्दोपात्त एवार्थः प्रयोजनतया विपरिणतः; तदर्थं शब्दो नाभिधीयते।
भावप्रत्ययान्तोऽप्यसौ कार्यगतमेव रूपं विशेषेणाचष्टे, कार्यस्य कारणं प्रति प्रयोजकत्वं तादर्थ्यमिति। तत्कथं कारकस्य तादर्थ्यविभक्तिराशङ्क्येत ? कार्यस्थयाऽपि चतुर्थ्योभयगतस्यापि संबन्धस्यावगतत्वात् अव्यतिरिक्तप्रतिपदिकार्थाभिन्नः कारणशब्दाद् भवति, न तु व्यतिरेकलक्षणा तृतीयेति। अयं च हेतुतादर्थ्ययोर्विशेषः।
प्रातिलोम्यानुलोम्याभ्यां हेतुरर्थस्य साधकः।
तादर्थ्यमानुलोम्येन हेतुत्वानुगतं तु तत् ॥ ५१ ॥
वासेनाधीते, अध्ययनेन वसतीति, या च यूपाय दारु, अध्ययनाय वसतीति। यस्तु मन्यते तदर्थता तदर्थता तद्विषयस्य पारर्थ्यरूपा, कार्यप्रसवयोग्यता हेतुः, अनन्यार्थस्य तादर्थ्यम्, तस्य तद्विषयस्येति अनन्यार्थस्येति विशेषणद्वयमपार्थम्, उभयत्राविशेषात्। यदि तावदर्थस्यानन्यार्थता तादर्थ्यम् तदसत्। कनकस्य वलयादावपि सामर्थ्यं, सङ्घातात्। अथोक्तिधर्मेण, तद्धेतावपि समानम्। न हि विद्याया यशोहेतुतां मुक्‍त्वा कार्यान्तरयोग्यतां ब्रुते। पारार्थ्यरूपेत्यपि न वचनीयं, कार्यप्रसवयोग्यतेत्यनेनैव गतार्थत्वात्। ननु च नटस्य श्रृणोतीत्यादै कार्यप्रसवयोग्यस्यापि नटादेः पारार्थ्येन विवक्षायां मा भुद्धेतुत्वमिति विशेषणं क्रियते। नैवम्; यथा उपाध्यायादधीत इति उपाध्यायादेः परार्थत्वेन कारकत्वं, प्रयोजकत्वमेव च तादर्थ्यमिति।
अथ लक्षणस्य का वार्ता ? लक्षणमपि तादर्थ्यवद्धेतुविशेष एव। सिद्धो हि हेतुः कारको ज्ञापकश्‍च। तत्र कारकस्य स्वव्यापारानाश्रयणे हेतुरित्याख्या, ज्ञापकस्य लक्षणमिति; पदार्थान्तरपरिच्छेदहेतुता हि लक्षणार्थः। तदुक्तम्—
अनाश्रिते तु व्यापारे निमित्तं हेतुरिष्यते।
आश्रयावधिभावं तु लक्षणे लक्षणं विदुः ॥ ५२ ॥
क्‍वचित्तु हेतुरपि लक्षणं भवति; यथा 'शाकल्यस्य संहितामनु प्रावर्षत्, अनडुद्‌यज्ञमन्वसिञ्चत्, प्रजाः पर्जन्य इति। एतेन वृक्षं प्रति विद्योतते (विद्युद्) इति द्रव्यलक्षणम्, जटाभिस्तापस इति इत्थंभूतलक्षणम्, अक्ष्णा काण इति विकारलक्षणं, वाताय कपिला विद्युदित्युत्पातलक्षणं, गोषु दुह्यमानासु गत इति भावलक्षणं, पचन्नास्त इति क्रियालक्षणं च व्याख्यातमिति।
एकार्थपरः पदसमूहो वाक्‍यम्। तत् त्रिधा—
संस्कृतं श्रौतम्, आर्षं, लौकिकं च। तेषु —
श्रौतं द्विधा मन्त्रब्राह्मणभेदात्। तत्र —
तदेवाग्‍निस्तद् वायुस्तत् सूर्यस्तदु चन्द्रमाः।
तदेव शुक्रममृतं तदापस्स प्रजापतिः ॥ ५३ ॥ तद् ब्रह्म।
ब्राह्मणं यथा— (बृउ. ४.३.३३)
← Previous (Ch. 2) Full Table of Contents Next (Ch. 4) →