Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 21

Prakāśa 21: मोक्षश्रृङ्गारप्रकाशः

प्रकाशः 21 • मोक्षश्रृङ्गारप्रकाशः

Prakāśa 21 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 468 Verses • Citations: SP 21.1–468 • 4 Lexicon Terms • Page 10 of 16 (Verses 30 shown)
मार्गं मनुष्येश्वरधर्मपत्‍नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत्॥ ६३॥
उपनायिकासु उदात्ता यथा—(रत्‍ना. २.२०)
भ्रूभङ्गे सहसोद्गतेऽपि वदनं नीतं परां नम्रता— मीषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम्।
अन्तर्बाष्पजडीकृतं प्रभुतया चक्षुर्न विस्फारितं कोपश्च प्रकटीकृतो दयितया, मुक्तश्च न प्रश्रयः॥६४॥
शर्मिष्ठाया समालोक्य पत्युस्तत् प्रेमगौरवम्।
देवयानी भृशं क्रुद्धा जगाम पितुरन्तिकम्॥ ६५॥
तो तस्स मअलंछणस्स करफंससमुग्गएण सेएण।
ससिमणिघडिआ वाबुल्लिअ व्व वारीमई जाआ॥ ६६॥
(ततस्तस्य मृगलाञ्छनस्य करस्पर्शसमुद्गतेन स्वेदेन।
शशिमणिघटिता पुत्तलिकेव/पुत्रिकेव वारीमयी जाता॥)
नवे च वयसि प्राप्‍तवैराग्याभ्यासवासना।
व्यालोकि कन्यका तेन धृतपाशुपतव्रता॥ ६७॥
अनुनायिकासु उदात्ता यथा—(मवीच. १.२०)
लाङ्गलोल्लिख्यमानाया यज्ञभूमेः समुद्गता।
सीतेयमूर्मिलेयं तद्‍द्वितीया जनकात्मजा॥ ६८॥
तस्याभिषेकसम्भारं कल्पितं क्रूरनिश्चया।
दूषयामास कैकेयी शोकोष्णैर्नयनाम्बुभिः॥ ६९॥
तन्मे मनः क्षिपति यत् सरसप्रहारमालोक्य मामगणितस्खलदुत्तरीया।
त्रस्तैकहायनकुरङ्गविलोलदृष्टिराश्लिष्टवत्यमृतसंवलितैरिवाङ्गैः ॥ ७०॥
सा हि प्रणयवत्यासीत् सपत्‍न्योरुभयोरपि।
भ्रमरी वारणस्येव मदनिष्यन्दरेखयोः॥ ७१॥
← Previous (Ch. 20) Full Table of Contents Next (Ch. 22) →