Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 21

Prakāśa 21: मोक्षश्रृङ्गारप्रकाशः

प्रकाशः 21 • मोक्षश्रृङ्गारप्रकाशः

Prakāśa 21 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 468 Verses • Citations: SP 21.1–468 • 4 Lexicon Terms • Page 6 of 16 (Verses 30 shown)
इदानीमस्माकं पटुतरविवेकाञ्जनजुषां समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते॥ ३१॥
५. मलप्रमोषः शौचम् ; यथा—(कुसं. ६.५)
आप्लुतास्तीरमन्दारकुसुमोत्करवीचिषु ।
आकाशगङ्गास्रोतस्सु दिङ्नागमदगन्धिषु॥ ३२॥
६. अमायावित्वमार्जवम् ; यथा—
अन्यद् वाचि मनस्यन्यत् कर्मण्यन्यद् दुरात्मनाम्।
महात्मनां तु यद् वाचि तन्मनःकर्मणोरपि॥ ३३॥
७. विचारपरता वैशारद्यम् ; यथा—
उच्छ्‌वासावधयः प्राणाः स चोच्छ्‌वासः समीरणः।
समीरणाच्‍चलं नास्ति यज्जीवति तदद्भ‍ुतम्॥ ३४॥
८. भोगेष्वनीप्सा वैराग्यम्; यथा—(वैराग्यशतके ९३)
मातर्लक्ष्मि! भजस्व कञ्चिदपरं मत्काङ्क्षिणी मा स्म भू— र्भोगेभ्यः स्पृहयालवस्तव वशे, का निःस्पृहाणामसि ?।
सद्यःस्यूतपलाशपत्रपुटिकापात्रे पवित्रीकृतै— र्भिक्षासक्‍तुभिरेव सम्प्रति वयं वृत्तिं समीहामहे॥ ३५॥
सोऽयमस्य स्वाभाविको निरतिशय आन्तरो नित्यश्चालङ्कारः, यत्प्रभावात् तदनुरूपा एव रत्यादयो जायन्ते। ते चास्य धीरोदात्तवत् सर्व एवावगन्तव्याः।
तदेतन्मोक्षशृङ्गारस्वरूपमुपवर्णितम्।
निःश्रेयसपरत्वेन तत्त्वज्ञानाभिमानिनाम्॥ ३६॥
इह प्रवृत्तिरावन्त्या, सात्त्वती वृत्तिरिष्यते।
लाटीया रीतिरात्मीया कान्ता, शान्तश्च नायकः॥ ३७॥
वृत्ते धीरप्रशान्तस्य मोक्षशृङ्गारगोचरे।
चरेयुः केऽपि तत्त्वज्ञाः सर्वज्ञस्याभ्यनुज्ञया॥ ३८॥
सोऽयं धर्मशृङ्गाराद्यधिकारभेदान्नायकप्रभेदश्चतुर्धा—
धीरोदात्तः, धीरोद्धतः, धीरललितः, धीरप्रशान्तश्चेति।
अथैष प्रत्येकमपि चतुर्धा भिद्यते—
नायकः, उपनायकः, अनुनायकः, प्रतिनायक इति।
तत् त्रिधा (तत्र कथा ?)शरीरव्यापी यथोक्तगुणयुक्तो नायकः। स—
इक्ष्वाकुवंशतिलकः प्रथितः पृथिव्यामव्याहतप्रसरपौरुषदुर्निवारः।
← Previous (Ch. 20) Full Table of Contents Next (Ch. 22) →