(ततः प्रविशति नागरिकः श्यालः पश्चाद्बद्धं पुरुषमादाय रक्षिणौ च)
(पुरुषं ताडैत्वा)अरे कुम्भीरक कथय कुत्र त्वयैतन्मणिबन्धनोत्कीर्णनामधेयं राजकीयमङ्गुलीयकं समासादितम् ।
(भीतिनाटितकेन) प्रसीदन्तु भावमिश्राः । नाहमीदृशकर्मकारी ।
किं शोभनो ब्राह्मण इति कृत्वा (कलयित्वा) राज्ञा प्रतिग्रहो दत्तः ।
शृणुतेदानीम् ।अहं शक्रावताराभ्यन्तरवासी धीवरः ।
पाटच्चर किमस्माभिर्जातिः पृष्टा ।
सूचक कथयतु सर्वमनुक्रमेण । मैनमन्तरा प्रतिबध्नीतम् ।
यदावुत्त आज्ञापयति । कथय ।
अहं जालोद्गालादिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरणं करोमि ।
(विरहस्य) विशुद्ध इदानीमाजीवः ।
भर्तः मैवं भण ।
सहजं किल यद्विनिन्दितं न खलु तत्कर्म विवर्जनीयम् । पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रोत्रियः ॥
ततस्ततः ।
एकस्मिन्दिवसे खण्डशो रोहितमत्स्यो मया कल्पितः ।
यावत्तस्योदराभ्यन्तरे प्रेक्षे तावदिदं रत्नभासुरमङ्गुलीयकं दृष्टम् ।
पश्चादहमस्य विक्रयाय दर्शयन्गृहीतो भावमिश्रैः ।
५ मारयत वा मुञ्चत वा ।अयमस्यागमवृत्तान्तः ।
जानुक विस्रगन्धी गोधादी मत्स्यबन्ध एव निःसंशयम् ।
अङ्गुलीयकदर्शनमस्य विमर्शयितव्यम् । राजकुलमेव गच्छामः ।
तथा । गच्छ अरे ग्रन्थिभेदक । (सर्वे परिक्रामन्ति)
सूचक इमं गोपुरद्वारेऽप्रमत्तौ प्रतिपालयतं यावदिदमङ्गुलीयकं यथागमनं भर्त्रे निवेद्य ततः शासनं प्रतीष्य निष्क्रामामि ।
प्रविशत्वावुत्तः स्वामिप्रसादाय । (इति निष्क्रान्तः श्यालः)
जानुक चिरायते खल्वावुत्तः ।
नन्ववसरोपसर्पणीया राजानः ।
जानुक स्फुरतो मम हस्तावस्य वधस्य सुमनसः पिनद्धुम् । (इति पुरुषं निर्दिशति)
नार्हति भावोऽकारणमारणो भवितुम् ।
(विलोक्य)एष नौ स्वामी पत्रहस्तो राजशासनं प्रतीष्येतो मुखो दृश्यते । गृध्रबलिर्भविष्यसि शुनो मुखं वा द्रक्ष्यसि । (प्रविश्य)
सूचक मुच्यतामेष जालोपजीवी ।उपपन्न खल्वस्याङ्गुलीयकस्यागमः ।
यथावुत्तो भणति ।एष यमसदनं प्रविश्य प्रतिनिवृत्तः । (इति पुरुषं परिमुक्तबन्धनं करोति)
(श्यालं प्रणम्य) भर्तः अथ कीदृशो म आजीवः ।
एष भर्त्राङ्गुलीयकमूल्यसंमितः प्रसादोऽपि दापितः । (इति पुरुषाय स्वं प्रयच्छति)
(सप्रणामं प्रतिगृह्य) भर्तः अनुगृहीतोऽस्मि ।