Skip to main content
Search
AS
Abhijñānaśākuntalam • Chapter 06

Canto 6

षष्ठोऽङ्कः

Canto 6 of Abhijñānaśākuntalam.

Total: 275 Verses • Citations: AS 6.1–275 • 1 Lexicon Terms • Page 4 of 10 (Verses 30 shown)
वयस्य यदुच्यते रन्ध्रोपनिपातिनोऽनर्था इति तद्व्यभिचारि वचः । कुतः
AS 6.92 द्रुतविलम्बितम्
मुनिसुताप्रणयस्मृतिरोधिना मम च मुक्तमिदं तमसा मनः । मनसिजेन सखे प्रहरिष्यता धनुषि चूतशरश्च निवेशितः ॥
व्याख्या / Traditional Commentary & Notes
sp: विदूषक
तिष्ठ तावत् ।अनेन दण्डककाष्ठेन कन्दर्पबाणं नाशयिष्यामि । (इति दण्डकाष्ठमुद्यम्य चूताङ्कुरं पातयितुमिच्छति)
व्याख्या / Traditional Commentary & Notes
sp: राजा
(सस्मितम्) भवतु । दृष्टं ब्रह्मवर्चसम् । सखे क्वोपविष्टः प्रियायाः किंचिदनुकारिणीषु लतासु दृष्टिं विलोभयामि ।
व्याख्या / Traditional Commentary & Notes
sp: विषूषक
नन्वासन्नपरिचारिका चतुरिका भवता संदिष्टा । माधवीमण्डप इमां वेलामतिवाहयिष्ये ।
तत्र मे चित्रफलकगतां स्वहस्तलिखितां तत्रभवत्याः शकुन्तलायाः प्रतिकृतिमानय इति ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
ईदृशं हृदयविनोदनस्थानम् । तत्तमेव मार्गमादेशय ।
व्याख्या / Traditional Commentary & Notes
sp: विदूषक
इत इतो भवान् । (उभौ परिक्रमतः । सानुमत्यनुगच्छति)
व्याख्या / Traditional Commentary & Notes
sp: विदूषक
एष मणिशिलापट्टकसनाथो माधवीमण्डप उपहाररमणीयतया निःसंशयं स्वागतेनेव नौ प्रतीच्छति । तत्प्रविश्य निषीदतु भवान् । (उभौ प्रवेशं कृत्वोपविष्टौ)
व्याख्या / Traditional Commentary & Notes
sp: सानुमती
लतासंश्रिता द्रक्ष्यामि तावत्सख्याः प्रतिकृतम् । ततस्तस्यै भर्तुर्बहुमुखमनुरागं निवेदयिष्यामि । (इति तथा कृत्वा स्थिता)
व्याख्या / Traditional Commentary & Notes
sp: राजा
सखे सर्वमिदानीं स्मरामि शकुन्तलायाः प्रथमवृत्तान्तम् । कथितवानस्मि भवते च ।
स भवान्प्रत्यादेशवेलायां मत्समीपगतो नासीत् ।
पूर्वमपि न त्वया कदाचित्संकीर्तितं तत्रभवत्या नाम । कच्चिदहमिव विस्मृतवानसि त्वम् ।
व्याख्या / Traditional Commentary & Notes
sp: विदूषक
न विस्मरामि । किं तु सर्वं कथयित्वावसाने पुनस्त्वया परिहासविजल्प एष न भूतार्थ इत्याख्यातम् ।
मया अपि मृत्पिण्डबुद्धिना तथैव गृहीतम् ।अथवा भवितव्यता खलु बलवती ।
व्याख्या / Traditional Commentary & Notes
sp: सानुमती
एवं न्विदम् ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
(ध्यात्वा) सखे त्रायस्व माम् ।
व्याख्या / Traditional Commentary & Notes
sp: विदूषक
भोः किमेतत् ।अनुपपन्नं खल्वीदृशं त्वयि । कदा अपि सत्पुरुषाः शोकवास्तव्या न भवन्ति । ननु प्रवातेऽपि निष्कम्पा गिरयः ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
वयस्य निराकरणविक्लवायाः प्रियायाः समवस्थामनुस्मृत्य बलवदशरणोऽस्मि । सा हि
AS 6.110 शिखरिणी
इतः प्रत्यादेशात्स्वजनमनुगन्तुं व्यवसिता स्थिता तिष्ठ इत्युच्चैर्वदति गुरुशिष्ये गुरुसमे । पुनर्दृष्टिं बाष्पप्रसरकलुषामर्पितवती मयि क्रूरे यत्तत्सविषमिव शल्यं दहति माम् ॥
व्याख्या / Traditional Commentary & Notes
sp: सानुमती
अहो ।ईदृशी स्वकार्यपरता ।अस्य संतापेनाहं रमे ।
व्याख्या / Traditional Commentary & Notes
sp: विदूषक
भोः अस्ति मे तर्कः केनापि तत्रभवत्याकाशचारिणी नीतेति ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
कः पतिदेवतामन्यः परामर्ष्टुमुत्सहेत । मेनका किल सख्यास्ते जन्मप्रतिष्ठेति श्रुतवानस्मि । तत्सहचारिणीभिः सखी ते हृतेति मे हृदयमाशङ्कते ।
व्याख्या / Traditional Commentary & Notes
sp: सानुमती
संमोहः खलु विस्मयनीयो न प्रतिबोधः ।
व्याख्या / Traditional Commentary & Notes
sp: विदूषक
यद्येवमस्ति खलु समागमः कालेन तत्रभवत्या ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
कथमिव ।
व्याख्या / Traditional Commentary & Notes
sp: विदूषक
न खलु मातापितरौ भर्तृवियोगदुःखितां दुहितरं चिरं द्रष्टुं पारयतः ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
AS 6.119 उपजातिः
स्वप्नो नु माया नु मतिभ्रमो नु क्लिष्टं नु तावत्फलमेव पुण्यम् ।असंनिवृत्त्यै तदतीतमेते मनोरथा नाम तटप्रपाताः ॥
व्याख्या / Traditional Commentary & Notes
sp: विदूषक
मैवम् । नन्वङ्गुलीयकमेव निदर्शनमवश्यं भाव्यचिन्तनीयः समागमो भवतीति ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
← Previous (Ch. 5) Full Table of Contents Next (Ch. 7) →