एष तावदुन्मत्तः ।अहमप्येतस्य सङ्गेनेदृशवर्ण इव संवृत्तः । (प्रकाशम्)
भोः चित्रं खल्वेतत् ।
कथं चित्रम् ।
अहमपीदानीमवगतार्था । किं पुनर्यथालिखितानुभाव्येषः ।
वयस्य किमिदमनुष्ठितं पौरोभाग्यम् ।
दर्शनसुखमनुभवतः साक्षादिव तन्मयेन हृदयेन । स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता ॥
(इति बाष्पं विहरति)
पूर्वापरविरोध्यपूर्व एष विरहमार्गः ।
वयस्य कथमेवमविश्रान्तदुःखमनुभवामि ।
प्रजागरात्खिलीभूतस्तस्याः स्वप्ने समागमः । बाष्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि ॥
सर्वथा प्रमार्जितं त्वया प्रत्यादेशदुःखं शकुन्तलायाः । (प्रविश्य)
जयतु भर्ता । वर्तिकाकरण्डकं गृहीत्वेतोमुखं प्रस्थितास्मि ।
किं च ।
स मे हस्तादन्तरा तरलिकाद्वितीयया देव्या वसुमत्याहमेवार्यपुत्रस्योपनेष्यामीति सबलात्कारं गृहीतः ।
दिष्ट्या त्वं मुक्ता ।
यावद्देव्या विटपलग्नमुत्तरीयं तरलिका मोचयति तावन्मया निर्वाहित आत्मा ।
वयस्य उपस्थिता देवी बहुमानगर्विता च । भवानिमां प्रतिकृतिं रक्षतु ।
आत्मानमिति भण । (चित्रफलकमादायोत्थाय च) यदि भवानन्तःपुरकूटवागुरातो मोक्ष्यते तदा मां मेघप्रतिछन्दे प्रासादे शब्दायय । (इति द्रुतपदं निष्क्रान्तः)
अन्यसंक्रान्तहृदयोऽपि प्रथमसंभावनामपेक्षते ।अतिशिथिलसौहार्द इदानीमेषः ।
(प्रविश्य पत्रहस्ता)
जयतु जयतु देवः ।
वेत्रवति न खल्वन्तरा दृष्टा त्वया देवी ।
अथकिम् । पत्रहस्तां मां प्रेक्ष्य प्रतिनिवृत्ता ।
कार्यज्ञा कार्योपरोधं मे परिहरति ।
देव अमात्यो विज्ञापयति ।अर्थजातस्य गणनाबहुलतयैकमेव पौरकार्यमवेक्षितं तद्देवः पत्रारूढं प्रत्यक्षीकरोत्विति ।
इतः पत्रं दर्शय । (प्रतिहार्युपनयति)
(अनुवाच्य) कथम् । समुद्रव्यवहारी सार्थवाहो धनमित्रो नाम नौव्यसने विपन्नः ।अनपत्यश्च किल तपस्वी ।
राजगामी तस्यार्थसंचय इत्येतदमात्येन लिखितम् । कष्टं खल्वनपत्यता ।
वेत्रवति बहुधनत्वाद्बहुपत्नीकेन तत्रभवता भवितव्यम् ।
विचार्यतां यदि काचिदापन्नसत्त्वा तस्य भार्यासु स्यात् ।
देव इदानीमेव साकेतकस्य श्रेष्ठिनो दुहिता निर्वृत्तपुंसवना जायास्य श्रूयते ।
ननु गर्भः पित्र्यं रिक्थमर्हति । गच्छ ।एवममात्यं ब्रूहि ।