Skip to main content
Search
AS
Abhijñānaśākuntalam • Chapter 05

Canto 5

पञ्चमोऽङ्कः

Canto 5 of Abhijñānaśākuntalam.

Total: 165 Verses • Citations: AS 5.1–165 • 1 Lexicon Terms • Page 1 of 6 (Verses 30 shown)
(ततः प्रविशत्यासनस्हो राजा विदूषकश्च)
व्याख्या / Traditional Commentary & Notes
sp: विदु
(कर्णं दत्त्वा) भो वयस्य संगीतशालान्तरेऽवधानं देहि ।
कलविशुद्धाया गीतेः स्वरसंयोगः श्रूयते । जाने तत्रभवती हंसपदिका वर्णपरिचयं करोतीति ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
तूष्णीं भव । यावदाकर्णयामि । (आकाशे गीयते)
अभिनवमधुलोलुपस्त्वं तथा परिचुम्ब्य चूतमञ्जरीम् । कमलवसतिमात्रनिर्वृतो मधुकर विस्मृतोऽस्येनां कथम् ॥
व्याख्या / Traditional Commentary & Notes
sp: राजा
अहो रागपरिवाहिणी गीतिः ।
व्याख्या / Traditional Commentary & Notes
sp: विदु
किं तावद्गीत्या अवगतोऽक्षरार्थः ।
व्याख्या / Traditional Commentary & Notes
sp: रा
(स्मितं कृत्वा) सकृत्कृतप्रणयोऽयं जनः । तदस्या देवीं वसुमतीमन्तरेण महदुपालम्भनं गतोऽस्मि । सखे माधव्य मद्वचनादुच्यतां हंसपदिका । निपुणमुपालब्धाः स्म इति ।
व्याख्या / Traditional Commentary & Notes
sp: विदु
यद्भवानाज्ञापयति । (उत्थाय भो वयस्य गृहीतस्य तया परकीयैर्हस्तैः शिखण्डके ताड्यमानस्याप्सरसा वीतरागस्येव नास्तीदानीं मे मोक्षः ।
व्याख्या / Traditional Commentary & Notes
sp: रा
गच्छ । नागरिकवृत्त्या संज्ञापयैनाम् ।
व्याख्या / Traditional Commentary & Notes
sp: विदु
का गतिः । (इति निष्क्रान्ताः)
व्याख्या / Traditional Commentary & Notes
sp: रा
(आत्मगतम्) किं नु खलु गीतमेवं विधार्थमाकर्ण्येष्टजनविरहाद् ऋतेऽपि बलवदुत्कण्ठितोऽस्मि ।अथवा ।
AS 5.13 वसन्ततिलका
रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान्पर्युत्सुको भवति यत्सुखितोऽपि जन्तुः । तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि ॥
(इति पर्याकुलस्तिष्ठति)
(ततः प्रविशति कञ्चुकी)
व्याख्या / Traditional Commentary & Notes
sp: कञ्चुकी
अहो नु खल्वीदृशीमवस्थां प्रतिपन्नोऽस्मि ।
AS 5.17 वसन्ततिलका
आचार इत्यवहितेन मया गृहीता या वेत्रयष्टिरवरोधगृहेषु राज्ञः । काले गते बहुतिथे मम सैव जाता प्रस्थानविक्लवगतेरवलम्बनार्था ॥
भो कामं धर्मकार्यमनतिपात्यं देवस्य । तथापीदानीमेव धर्मासनादुत्थिताय पुनरुपरोधकारि कण्वशिष्यागमनमस्मै नोत्सहे निवेदयितुम् ।अथवाविश्रमोऽयं लोकतन्त्राधिकारः । कुतः ।
AS 5.19 इन्द्रवज्रा
भानुः सकृद्युक्ततुरङ्ग एव रात्रिं दिवं गन्धवहः प्रयाति । शेषः सदा एवाहितभूमिभारः षष्ठांशवृत्तेरपि धर्म एषः ॥
यावन्नियोगमनुतिष्ठामि । (परिक्रम्यावलोक्य च)एष देवः
AS 5.21 उपजातिः
प्रजाः प्रजाः स्वा इव तन्त्रयित्वा निषेवते श्रान्तमना विविक्तम् । यूथानि संचार्य रविप्रतप्तः शीतं दिवा स्थानमिव द्विपेन्द्रः ॥
(उपगम्य) जयतु जयतु देवः ।एते खलु हिमगिरेरुपत्यकारण्यवासिनः काश्यपसंदेशमादाय सस्त्रीकास्तपस्विनः संप्राप्ताः । श्रुत्वा देवः प्रमाणम् ।
व्याख्या / Traditional Commentary & Notes
sp: रा
(सादरम्) किं काश्यपसंदेशहारिणः ।
व्याख्या / Traditional Commentary & Notes
sp: कञ्चुकी
अथ किम् ।
व्याख्या / Traditional Commentary & Notes
sp: रा
तेन हि मद्वचनाद्विज्ञाप्यतामुपाध्याह सोमरातः ।अमूनाश्रमवासिनः श्रौतेन विधिना सत्कृत्य स्वयमेव प्रवेशयितुमर्हसीति ।अहमप्यत्र तपस्विदर्शनोचिते प्रदेशे स्थितः प्रतिपालयामि ।
व्याख्या / Traditional Commentary & Notes
sp: कञ्चुकी
यदाज्ञापयति देवः (इति निष्क्रान्तः)
व्याख्या / Traditional Commentary & Notes
sp: रा
(उत्थाय) वेत्रवति अग्निशरणमार्गमादेशय ।
व्याख्या / Traditional Commentary & Notes
sp: प्रतिहारी
इत इतो देवः ।
व्याख्या / Traditional Commentary & Notes
sp: रा
(परिक्रामति ।अधिकारखेदं निरूप्य) सर्वः प्रार्थितमर्थमधिगम्य सुखी संपद्यते जन्तुः । राज्ञां तु चरितार्थता दुःखोत्तरैव ।
AS 5.30 वसन्ततिलका
औत्सुक्यमात्रमवसाययति प्रतिष्ठा क्लिश्नाति लब्धपरिपालनवृत्तिरेव । नातिश्रमापनयनाय यथा श्रमाय राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥
व्याख्या / Traditional Commentary & Notes
sp: वैतालिकौ
← Previous (Ch. 4) Full Table of Contents Next (Ch. 6) →