विजयतां देवः ।
प्रथमः स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः प्रतिदिनमथवा ते वृत्तिरेवं विधैव ।अनुभवति हि मूर्ध्ना पदप तीव्रमुष्णम् शमयति परितापं छायया संश्रितानाम् ॥
द्वितीयः
नियमयसि विमार्गप्रस्थितानात्तदण्डः प्रशमयसि विवादं कल्पसे रक्षणाय ।अतनुषु विभवेषु ज्ञातयः सन्तु नाम त्वयि तु परिसमाप्तं बन्धुकृत्य प्रजानाम् ॥
एते क्लान्तमनसः पुनर्नवीकृताः स्मः । (इति परिक्रामति)
एष अभिनवसंमार्जनसश्रीकः संनिहितहोमधेनुरग्निशरणालिन्दः ।आरोहतु देवः ।
(आरुह्य परिजनांसावलम्बी तिष्ठति) वेत्रवति किमुद्दिश्य भगवता काश्यपेन मत्सकाशम् ऋषयः प्रेषिताः स्युः ।
किं तावद्व्रतिनामुपोढतपसां विघ्नैस्तपो दूषितम् धर्मारण्यचरेषु केनचिदुत प्राणिष्वसच्चेष्टितम् ।आहोस्वित्प्रसवो ममापचरितैर्विष्टम्भितो वीरुधाम् इत्यारूढबहुप्रतर्कमपरिच्छेदाकुलं मे मनः ॥
सुचरितनन्दिन ऋषयो देवं सभाजयितुमागता इति तर्कयामि ।
(ततः प्रविशन्ति गौतमी सहिताः शकुन्तलां पुरस्कृत्य मुनयः । पुरश्चैषां कञ्चुकी पुरोहितश्च)
इत इतो भवन्तः ।
शारद्वत ।
महाभागः कामं नरपतिरभिन्नस्थितिरसौ न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते । तथापीदं शश्वत्परिचितविविक्तेन मनसा जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव ॥
स्थाने भवान्पुरप्रवेशादित्थं भूतः संवृत्तः ।अहमपि
अभ्यक्तमपि स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तम् । बद्धमिव स्वैरगतिर्जनमिह सुखसङ्गिनमवैमि ॥
(निमित्तं सूचयित्वा)अहो किं मे वामेतरन्नयनं विस्फुरति ।
जाते प्रतिहतममङ्गलम् ।सुखानि ते भर्तृकुलदेवता वितरन्तु (इति परिक्रामति)
(राजानं निर्दिश्य भो भोस्तपस्विनः असावत्रभवान्वर्णाश्रमाणां रक्षिता प्रागेव मुक्तासनो वः प्रतिपालयति । पश्यत एनम् ।
भो महाब्राह्मण काममेतदभिनन्दनीयं तथापि वयमत्र मध्यस्थाः । कुतः
भवन्ति नंरास्तरवः फलागमैर्नवाम्बुभिर्दूरविलम्बिनो घनाः ।अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥
देव प्रसन्नमुखवर्णा दृश्यन्ते । जानामि विश्रब्धकार्या ऋषयः ।
(शकुन्तलां दृष्ट्वा)अथात्र भवती
का स्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या । मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम् ॥
देव कुतूहलगर्भः प्रहितो न मे तर्कः प्रसरति । ननु दर्शनीया पुनरस्या आकृतिर्लक्ष्यते ।
भवतु ।अनिर्वर्णनीयं परकलत्रम् ।
(हस्तमुरसि कृत्वा ।आत्मगतम्) हृदय किमेवं वेपसे ।आर्यपुत्रस्य भावमवधार्य धीरं तावद्भव ।
(पुरो गत्वा)एते विधिवदर्चितास्तपस्विनः । कश्चिदेषामुपाध्यायसंदेशः । तं देवः श्रोतुमर्हति ।
अवहितोऽस्मि ।
(हस्तानुद्यम्य) विजयस्व राजन् ।
सर्वानभिवादये ।