Skip to main content
Search
AS
Abhijñānaśākuntalam • Chapter 05

Canto 5

पञ्चमोऽङ्कः

Canto 5 of Abhijñānaśākuntalam.

Total: 165 Verses • Citations: AS 5.1–165 • 1 Lexicon Terms • Page 4 of 6 (Verses 30 shown)
भोस्तपोधनाः चिन्तयन्नपि न खलु स्वीकरणमत्रभवत्याः स्मरामि । तत्कथमिमामभिव्यक्तसत्त्वलक्षणां प्रत्यात्मानं क्षेत्रिणमशङ्कमानः प्रतिपत्स्ये ।
व्याख्या / Traditional Commentary & Notes
sp: शकुन्तला
(अपवार्य)आर्यस्य परिणय एव संदेहः । कुत इदानीं मे दूराधिरोहिण्याशा ।
व्याख्या / Traditional Commentary & Notes
sp: शार्
AS 5.94 उपजातिः
कृताभिमर्शामनुमन्यमानः सुतां त्वया नाम मुनिर्विमान्यः । मुष्टं प्रतिग्राहयता स्वमर्थं पात्रीकृतो दस्युरिवासि येन ॥
व्याख्या / Traditional Commentary & Notes
sp: शारद्वत
शार्ङ्गरव विमर त्वमिदानीम् । शकुन्तले वक्तव्यमुक्तमस्माभिः । सोऽयमत्रभवानेवमाह । दीयतामस्मै प्रत्ययप्रतिवचनम् ।
व्याख्या / Traditional Commentary & Notes
sp: शकु
(अपवार्य)इदमवस्थ्हान्तरं गते तादृशेऽनुरागे किं वा स्मारितेन ।आत्मेदानीं मे शोचनीय इति व्यवसितमेतत् । (प्रकाशम्)
पौरव युक्तं नाम ते तथा पुराश्रमपदे स्वभावोत्तानहृदयमिमं जनं समयपूर्वं प्रतार्य सांप्रतमीदृशैरक्षरैः प्रत्याख्यातुम् ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
(कर्णौ विधाय) शान्तं पापम् ।
AS 5.99 उद्गीति
व्यपदेशमाविलयितुं किमीहसे जनमिमम पातयितुम् । कूलं कषा इव सिन्धुः प्रसन्नमम्भस्तटतरुं च ॥
व्याख्या / Traditional Commentary & Notes
sp: शकु
भवतु । यदि परमार्थतः परपरिग्रहशङ्किना त्वयैवं प्रवृत्तं तदभिज्ञानेनानेन तवाशङ्कामपनेष्यामि ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
उदारः कल्पः ।
व्याख्या / Traditional Commentary & Notes
sp: शकु
(मुद्रास्थानं परामृश्य) हा धिग्घा धिक् ।अङ्गुलीयकशून्या मेऽङ्गुलिः । (इति सविषादं गौतमीमवेक्षते)
व्याख्या / Traditional Commentary & Notes
sp: गौतमी
नूनं ते शक्रावताराभ्यन्तरे शचीतीर्थसलिलं वन्दमानायाः प्रभ्रष्टमङ्गुलीयकम् ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
(सस्मितम्)इदं तत्प्रत्युत्पन्नमति स्त्रैणमिति यदुच्यते ।
व्याख्या / Traditional Commentary & Notes
sp: शकु
अत्र तावद्विधिना दर्शितं प्रभुत्वम् ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
श्रोतव्यमिदानीं संवृत्तम् ।
व्याख्या / Traditional Commentary & Notes
sp: शकु
नन्वेकस्मिन्दिवसे नवमालिकामण्डपे नलिनीपत्रभाजनगतमुदकं तव हस्ते संनिहितमासीत् ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
शृणुमस्तावत् ।
व्याख्या / Traditional Commentary & Notes
sp: शकु
तत्क्षणे स मे पुत्रकृतको दीर्घापाङ्गो नाम मृगपोतक उपस्थितः ।
त्वयायं तावत्प्रथमं पिबत्वित्यनुकम्पिनोपच्छन्दित उदकेन । न पुनस्तेऽपरिचयाद्हस्ताभ्यासमुपगतः । पश्चात्तस्मिन्नेव मया गृहीते सलिलेऽनेन कृतः प्रणयः । तदा त्वमित्थं प्रहसितोऽसि । सर्वः सगन्धेषु विश्वसिति । द्वावप्यत्रारण्यकाविति ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
एवमादिभिरात्मकार्यनिर्वर्तिनीनामनृतमयवान्मधुभिराकृष्यते विषयिणः ।
व्याख्या / Traditional Commentary & Notes
sp: गौतमी
महाभाग नार्हस्येवं मन्त्रयितुम् । तपोवनसंवर्धितोऽनभिज्ञोऽयं जनः कैतवस्य ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
AS 5.114 वसन्ततिलका
स्त्रीणामशिक्षितपटुत्वममानुषीषु संदृश्यते किमुत याः प्रतिबोधवत्यः । प्रागन्तरिक्षगमनास्त्वमपत्यजातम् अन्यैर्द्विजैः परभृताः खलु पोषयन्ति ॥
व्याख्या / Traditional Commentary & Notes
sp: शकु
(सरोषमनार्य आत्मनो हृदयानुमानेन प्रेक्षसे । क इदानीमन्यो धर्मकञ्चुकप्रवेशिनस्तृणछन्नकूपोपमस्य तवानुकृतिं प्रतिपत्स्यते ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
(आत्मगतम्) संदिग्धबुद्धिमां कुर्वन्नकैतव इवास्याः कोपो लक्ष्यते । तथा ह्यनया
AS 5.117 वसन्ततिलका
मय्येव विस्मरणदारुणचित्तवृत्तौ वृत्तं रहः प्रणयमप्रतिपद्यमाने । भेदाद्भ्रुवोः कुटिलयोरतिलोहिताक्ष्या भग्नं शरासनमिवातिरुषा स्मरस्य ॥
(प्रकाशम्) भद्रे प्रथितं दुष्यन्तस्य चरितम् । तथापीदं न दृश्यते ।
व्याख्या / Traditional Commentary & Notes
sp: शकु
सुष्ठु तावदत्र स्वच्छन्दचारिणी कृतास्मि याहमस्य पुरुवंशप्रत्ययेन मुखमधोर्हृदयविषस्य हस्ताभ्यासमुपगता ।
व्याख्या / Traditional Commentary & Notes
sp: शार्ङ्गरव
इत्थमात्मकृतं चापलं दहति ।
← Previous (Ch. 4) Full Table of Contents Next (Ch. 6) →