Skip to main content
Search
AS
Abhijñānaśākuntalam • Chapter 06

Canto 6

षष्ठोऽङ्कः

Canto 6 of Abhijñānaśākuntalam.

Total: 275 Verses • Citations: AS 6.1–275 • 1 Lexicon Terms • Page 2 of 10 (Verses 30 shown)
एष नामानुग्रहो यच्छूलादवतार्य हस्तिस्कन्धे प्रतिष्ठापितः ।
व्याख्या / Traditional Commentary & Notes
sp: जानुक
आवुत्त्पारितोषिकं कथयति तेनाङ्गुलीयकेन भर्तुः संमतेन भवितव्यमिति ।
व्याख्या / Traditional Commentary & Notes
sp: श्यालः
न तस्मिन्महाअर्हं रत्नं भर्तुर्बहुमतमिति तर्कयामि ।
तस्य दर्शनेन भर्त्राभिमतो जनः स्मृतः । मुहूर्तं प्रकृतिगम्भीरोऽपि पर्यश्रुनयन आसीत् ।
व्याख्या / Traditional Commentary & Notes
sp: सूचकः
सेवितं नामावुत्तेन ।
व्याख्या / Traditional Commentary & Notes
sp: जानुक
ननु भण ।अस्य कृते मात्स्यिकभर्तुरिति । (इति पुरुषमसूयया पश्यति)
व्याख्या / Traditional Commentary & Notes
sp: पुरुषः
भट्टारक इतोऽर्धं युष्माकं सुमनोमूल्यं भवतु ।
व्याख्या / Traditional Commentary & Notes
sp: जानुक
एतावद्युज्यते ।
व्याख्या / Traditional Commentary & Notes
sp: श्यालः
धीवर महत्तरस्त्वं प्रियवयस्यक इदानीं मे संवृत्तः । कादम्बरीसाक्षिकमस्माकं प्रथमसौहृदमिष्यते । तत्शौण्डिकापणमेव गच्छामः ।
प्रवेशकः । (ततः प्रविशत्याकाशयानेन सानुमती नामाप्सराः)
व्याख्या / Traditional Commentary & Notes
sp: सानुमती
निर्वर्तितं मया पर्यायनिर्वर्तनीयमप्सरस्तीर्थसांनिध्यं यावत्साहुजनस्याभिषेककाल इति सांप्रतमस्य राजर्षेरुदन्तं प्रत्यक्षीकरिष्यामि ।
२ मेनकासंबन्धेन शरीरभूता मे शकुन्तला । तया च दुहितृनिमित्तमादिष्टपूर्वास्मि ।
(समन्तादवलोक्य) किं नु खलु ऋतूत्सवेऽपि निरुत्सवारम्भमिव राजकुलं दृश्यते ।
४अस्ति मे विभवः प्रणिधानेन सर्वं परिज्ञातुम् ।
किं तु सख्या आदरो मया मानैयितव्यः ।
भवतु ।अनयोरेवोद्यानपालिकयोस्तिरस्करिणीप्रतिच्छन्ना पार्श्ववर्तिनी भूत्वोपलप्स्ये । (इति नाट्येनावतीर्य स्थिता) (ततः प्रविशति चूताङ्कुरमवलोकयन्ती चेटी ।अपराच पृष्ठतस्तस्याः)
AS 6.46 गीति
आतांरहरितपाण्डुर जीवितसर्वं वसन्तमासस्य (योः) । दृष्टोऽसि चूतकोरक ऋतुमङ्गल त्वां प्रसादयामि ॥
व्याख्या / Traditional Commentary & Notes
sp: द्वितीया
परभृतिके किमेकाकिनी मन्त्रयसे ।
व्याख्या / Traditional Commentary & Notes
sp: प्रथमा
मधुकरिके चूतकलिकां दृष्ट्वोन्मत्ता परभृतिका भवति ।
व्याख्या / Traditional Commentary & Notes
sp: द्वितीया
(सहर्षं त्वरयोपगम्य) कथमुपस्थितो मधुमासः ।
व्याख्या / Traditional Commentary & Notes
sp: प्रथमा
मधुकरिके तवेदानीं काल एष मदविभ्रमगीतानाम् ।
व्याख्या / Traditional Commentary & Notes
sp: द्वितीया
सखि अवलम्बस्व मां यावदग्रपादस्थिता भूत्वा चूतकलिकां गृहीत्वा कामदेवार्चनं करोमि ।
व्याख्या / Traditional Commentary & Notes
sp: प्रथमा
यदि मम अपि खल्वर्धमर्चनफलस्य ।
व्याख्या / Traditional Commentary & Notes
sp: द्वितीया
अकथितेऽप्येतत्संपद्यते यत एकमेव नौ जीवीतं द्विधास्थितं शरीरम् । (सखीमवलम्ब्य स्थिता चूताङ्कुरं गृह्णाति)
अये अप्रतिबुद्धोऽपि चूतप्रसवोऽत्र बन्धनभङ्गसुरभिर्भवति (इति कपोतहस्तकं कृत्वा)
AS 6.55 उपगीति
त्वमसि मया चूताङ्कुर दत्तः कामाय गृहीतधनुषे । पथिकजनयुवतिलक्ष्यः पञ्चाभ्यधिकः शरो भव ॥
(इति चूताङ्कुरं क्षिपति) (प्रविश्य पटीक्षेपेण कुपितः) ।
व्याख्या / Traditional Commentary & Notes
sp: कञ्चुकी
मा तावदनात्मज्ञे । देवेन प्रतिषिद्धे वसन्तोत्सवे त्वमांरकलिकाभङ्गं किमारभसे ।
उभे (भीते) प्रसीदत्वार्यः ।अगृहीतार्थे आवाम् ।
व्याख्या / Traditional Commentary & Notes
sp: कञ्चुकी
न किल श्रुतं युवाभ्यां यद्वासन्तिकैस्तरुभिरपि देवस्य शासनं प्रमाणीकृतं तदाश्रयिभिः पत्रिभिश्च । तथा हि
AS 6.60 शार्दूलविक्रीडितम्
चूतानां चिरनिर्गता अपि कलिका बध्नाति न स्वं रजः संनद्धं यदपि स्थितं कुरबकं तत्कोरकावस्थया । कण्ठेषु स्खलितं गतेऽपि शिशिरे पुंस्कोकिलानां रुतम् शङ्के संहरति स्मरोऽपि चकितस्तूणार्धकृष्टं शरम् ॥
व्याख्या / Traditional Commentary & Notes
sp: सनुमती
← Previous (Ch. 5) Full Table of Contents Next (Ch. 7) →