कतमात्र तत्रभवती शकुन्तला ।
अनभिज्ञः खल्वीदृशस्य रूपस्य मोघदृष्टिरयं जनः ।
त्वं तावत्कतमां तर्कयसि ।
तर्कयामि यैषा शिथिलबन्धनोद्वान्तकुसुमेन केशान्तेनोद्भिन्नस्वेदबिन्दुना वदनेन विशेषतोऽपसृताभ्यां बाहुभ्यामवसेकस्निग्धतरुणपल्लवस्य चूतपादपस्य पार्श्व ईषत्परिश्रान्तेवालक्षिता सा शकुन्तला ।इतरे सख्याविति ।
निपुणो भवान् ।अस्त्यत्र मे भावचिह्नम् ।
स्विन्नाङ्गुलिविनिवेशो रेखाप्रान्तेषु दृश्यते मलिनः ।अश्रु च कपोलपतितं दृश्यमिदं वर्णिकोच्छ्वासात् ॥
चतुरिके अर्धलिखितमेतद्विनोदस्थानम् । गच्छ । वर्तिकां तावदानय ।
आर्य माधव्य अवलम्बस्व चित्रफलकं यावदागच्छामि ।
(निःश्वस्य)
साक्षात्प्रियामुपगतामपहाय पूर्वं चित्रार्पितां पुनरिमां बहु मन्यमानः । स्रोतोवहां पथि निकामजलामतीत्य जातः सखे प्रणयवान्मृगतृष्णिकायाम् ॥
(आत्मगतम्)एषोऽत्रभवान्नदीमतिक्रम्य मृगतृष्णिकां संक्रान्तः । (प्रकाशम्) भोः अपरं किमत्र लेखितव्यम् ।
श्रूयताम्
कार्या सैकतलीनहंसमिथुना स्रोतोवहा मालिनी पातास्तामभितो निषण्णहरिणा गौरीगुरोः पावनाः । शाखालम्बितवल्कलस्य च तरोर्निर्मातुमिच्छाम्यधः शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् ॥
(आत्मगतम्) यथाहं पश्यामि पूरितव्यमनेन चित्रफलकं लम्बकूर्चानां तापसानां कदम्बैः ।
राजा वयस्य अन्यच्च । शकुन्तलायाः प्रसाधनमभिप्रेतमत्र विस्मृतमस्माभिः ।
किमिव ।
वनवासस्य सौक्मार्यस्य विनयस्य च यत्सदृशं भविष्यति ।
राजा
कृतं न कर्णार्पितबन्धनं सखे शिरीषमागण्डविलम्बिकेसरम् । न वा शरच्चन्द्रमरीचिकोमलं मृणालसूत्रं रचितं स्तनान्तरे ॥
भोः किं नु तत्रभवती रक्तकुवलयपल्लवशोभिनाग्रहस्तेन मुखमवार्य चकितचकितेव स्थिता । (सावधानं निरूप्य दृष्ट्वा)
आः एष दास्याः पुत्रः कुसुमरसपाटच्चरस्तत्रभवत्या वदनकमलमभिलङ्घते मधुकरः ।
ननु वार्यतामेष धृष्टः ।
भवानेवाविनीतानां शासितास्य वारणे प्रभविष्यति ।
युज्यते ।अयि भोः कुसुमलताप्रियातिथे किमत्र परिपतनखेदमनुभवसि ।
एषा कुसुमनिषण्णा तृषिता अपि सती भवन्तमनुरक्ता । प्रतिपालयति मधुकरी न खलु मधु विना त्वया पिबति ॥
अद्याभिजातं खल्वेष वारितः ।
प्रतिषिद्धा अपि वामैषा जातिः ।
एवं भो न मे शासने तिष्ठसि । श्रूयतां तर्हि संप्रति ।
अक्लिष्टबालतरुपल्लवलोभनीयम् पीतं मया सदयमेव रतोत्सवेषु । बिम्बाधरं स्पृशसि चेद्भ्रमर प्रियायास् त्वां कारयामि कमलोदरबन्धनस्थम् ॥
एवं तीक्ष्णदण्डस्य किं न भेष्यति । (प्रहस्य ।आत्मगतम्)