यद्देव आज्ञापयति । (इति प्रस्थिता)
एहि तावत् ।
इयमस्मि ।
किमनेन संततिरस्ति नास्तीति ।
येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना । स स पापाद् ऋते तासां दुष्यन्त इति घुष्यताम् ॥
एवं नाम घोषयितव्यम् ।
(निष्क्रम्य । पुनः प्रविष्य) काले प्रविष्टमिवाभिनन्दितं देवस्य शासनम् ।
(दीर्घमुष्णं च निःश्वस्य)एवं भोः संततिछेदनिरवलम्बानां कुलानां मूलपुरुषावसाने संपदः परमुपतिष्ठन्ते । मम अप्यन्ते पुरुवंशश्रिय एष एव वृत्तान्तः ।
प्रतिहतममङ्गलम् ।
धिन्मामुपस्थितश्रेयोऽवमानिनम् ।
असंशयं सखीमेव हृदये कृत्वा निन्दितोऽनेनात्मा ।
राजा
संरोपितेऽप्यात्मनि धर्मपत्नी त्यक्ता मया नाम कुलप्रतिष्ठा । कल्पिष्यमाणा महते फलाय वसुंधरा काल इवोप्तबीजा ॥
अपरिछिन्नेदानीं ते संततिर्भविष्यति ।
(जनान्तिकम्)अये अनेन सार्ववाहवृत्तान्तेन द्विगुणोद्वेगो भर्ता ।एनमाश्वासयितुं मेघप्रतिछन्दादार्यं माधव्यं गृहीत्वागच्छ ।
सुष्ठु भणसि । (इति निष्क्रान्ता)
अहो दुष्यन्तस्य संशयमारूढाः पिण्डभाजः । कुतः ।
अस्मात्परं बत यथाश्रुति संभृतानि को नः कुले निवपनानि नियच्छतीति । नूनं प्रसूतिविकलेन मया प्रसिक्तम् दौताश्रुशेषमुदकं पितरः पिबन्ति ॥
(इति मोहमुपगतः)
(ससंभ्रममवलोक्य) समाश्वसितु समाश्वसितु भर्ता ।
हा धिग्घा धिक् । सति खलु दीपे व्यवधानदोषेणैषोऽन्धकारदोषमनुभवति ।
अहमिदानीमेव निर्वृतं करोमि ।
अथवा श्रुतं मया शकुन्तलां समाश्वासयन्त्या महाइन्द्रजनन्या मुखाद्यज्ञभागोत्सुका देवा एव तथानुष्ठास्यन्ति यथाचिरेण धर्मपत्नीं भर्ताभिनन्दिष्यतीति ।
तद्युक्तमेतं कालं प्रतिपालयितुम् । यावदनेन वृत्तान्तेन प्रियसखीं समाश्वासयामि ।
(नेपथ्ये)अब्रह्मण्यम् ।
(प्रत्यागतः । कर्णं दत्त्वा)अये माधव्यस्य इवार्तस्वरः । कः को त्र भोः । (प्रविश्य)
(ससंभ्रमम्) परित्रायतां देवः संशयगतं वयस्यम् ।
केनात्तगन्धो माणवकः ।
अदृष्टरूपेण केनापि सत्त्वेनातिक्रम्य मेघप्रतिच्छन्दस्य प्रासादस्याग्रभूमिमारोफितः ।
(उत्थाय) मा तावत् । मम अपि सत्त्वैरभिभूयन्ते गृहाः ।अथ वा ।
अहन्यहन्यात्मन एव तावज्ज्ञातुं प्रमादस्खलितं न शक्यम् । प्रजासु कः के पथा प्रयाति इत्यशेषतो वेदितुमस्ति शक्तिः ॥
(नेपथ्ये) भो वयस्य अविहा अविहा ।