नास्ति संदेहः । महाप्रभावो राजर्षिः ।
आर्य कति दिवसान्यावयोर्मित्रावसुना राष्ट्रियेण भट्टिनीपादमूलं प्रेषितयोः ।अत्र च नौ प्रमदवनस्य पालनकर्म समर्पितम् । तदागन्तुकतयाश्रुतपूर्व आवाभ्यामेष वृत्तान्तः ।
भवतु । न पुनरेवं प्रवर्तितव्यम् ।
आर्य कौतूहलं नौ । यद्यनेन जनेन श्रोतव्यं कथयत्वार्यः किं निमित्तं भर्त्रा वसन्तोत्सवः प्रतिषिद्धः ।
उत्सवप्रियाः खलु मनुष्याः । गुरुणा कारणेन भवितव्यम् ।
बहुलीभूतमेतत्किं न कथ्यते । किमत्रभवत्यो कर्णपथं नायातं शकुन्तलाप्रत्यादेशकौलीनम् ।
श्रुतं राष्ट्रियमुखाद्यावदङ्गुलीयकदर्शनम् ।
तेन ह्यल्पं कथयितव्यम् ।
यदैव खलु स्वाङ्गुलीयकदर्शनादनुस्मृतं देवेन सत्यमूढपूर्वा मे तत्रभवती रहसि शकुन्तला मोहात्प्रत्यादिष्टेति तदाप्रभृत्येव पश्चात्तापमुपगतो देवः । तथा हि
रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते शय्याप्रान्तविवर्तनैर्विगमयत्युन्निद्र एव क्षपाः । दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा गोत्रेषु स्खलितस्तदा भवति च व्रीडाविलक्षश्चिरम् ॥
प्रियं मे ।
अस्मात्प्रभवतो वैमनस्यादुत्सवः प्रत्याख्यातः ।
युज्यते । (नेपथ्ये)
एतु एतु भवान् ।
(कर्णं दत्त्वा)अये ।इत एवाभिवर्तते देवः । स्वकर्मानुष्ठीयताम् ।
तथा ।
(ततः प्रविशति पश्चात्तापसदृशवेषो राजा विदूषकः प्रतीहारी च ।
(राजानमवलोक्य)अहो सर्वास्ववस्थासु रमणीयत्वमाकृतिविशेषाणाम् ।एवमुत्सुकोऽपि प्रियदर्शने देवः । तथा हि
प्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठार्पितम् बिभ्रत्काञ्चनमेकमेव वलयं श्वासोपरक्ताधरः । चिन्ताजागरणप्रतान्तनयनस्तेजोगुणादात्मनः संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते ॥
(राजानं दृष्ट्वा) स्थाने खलु प्रत्यादेशविमानिता अप्यस्य कृते शकुन्तला क्लाम्यति ।
(ध्यानमन्दं परिक्रम्य)
प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानमपि सुप्तम् ।अनुशयदुःखाय इदं हतहृदयं संप्रति विबुद्धम् ॥
नन्वीदेशानि तपस्विन्या भागधेयानि ।
(अपवार्य) लङ्घित एष भूयोऽपि शकुन्तलाव्याधिना । न जाने कथं चिकित्सितव्यो भविष्यतीति ।
(उपगम्य) जयतु जयतु देवः । महाराज प्रत्यवेक्षिताः प्रमदवनभूमयः यथाकाममध्यास्तां विनोदस्थानानि महाराजः ।
वेत्रवति मद्वचनादमात्यमार्यपिशुनं ब्रूहि । चिरप्रबोधान्न संभावितमस्माभिरद्य धर्मासनमध्यासितुम् । यत्प्रत्यवेक्षितं पौरकार्यमार्येण तत्पत्रमारोप्य दीयतामिति ।
यद्देव आज्ञापयति । (इति निष्क्रान्ता)
वातायन त्वमपि स्वं नियोगमशून्यं कुरु ।
यदाज्ञापयति देवः । (इति निष्क्रान्तः)
कृतं भवता निर्मक्षिकम् । सांप्रतं शिशिरातपछेदरमणीयेऽस्मिन्प्रमदवनोद्देश आत्मानं रमयिष्यसि ।