Skip to main content
Search
RV
Raghuvaṁśam • Chapter 13

Canto 13

त्रयोदशः सर्गः (दण्डकाप्रत्यागमनम्)

Canto 13 of Raghuvaṁśam.

Total: 79 Verses • Citations: RV 13.1–79 • 1 Lexicon Terms • Page 1 of 3 (Verses 30 shown)
RV 13.1 उपजातिः
अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः । रत्नाकरं वीक्ष्य मिथः स जायां रामाभिधानो हरिरित्युवाच ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ प्रस्थानानन्तरम्। जानातीति ज्ञः। `इगुपध-` (पा.3।1।135) इत्यादिना कप्रत्ययः। गुणानां ज्ञो गुणज्ञः। रत्नाकरादिवर्ण्यैश्वर्यगुणाभिज्ञ इत्यर्थः। स रामाभिधानो हरिर्विष्णुः शब्दो गुणो यस्य तच्छब्दगुणमात्मनः स्वस्य पदं विष्णुपदम्। आकाशमित्यर्थः। `वियद्विष्णुपदम्` इत्यमरः (अ.को.1|2|2)। `शब्दगुणमाकाशम्`इति तार्किकाः। विमानेन पुष्पकेण विगाहमानः सन् रत्नाकरं वीक्ष्य मिथो रहसि। `मिथोऽन्योन्यं रहस्यपि` इत्यमरः (अ.को.3|3|271)। जायां पत्नीं सीतामिति वक्षअयमाणप्रकारेणोवाच। रामस्य `हरि`रित्यभिधानं निरङ्कुशमहिमद्योतनार्थम्। `मिथो` ग्रहणं गोष्ठीविश्रम्भसूचनार्थम् ॥
RV 13.2 इन्द्रवज्रा
वैदेहि! पश्याऽऽमलयाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिम् । छायापथेनेव शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वैदेहीति॥ हे वैदेहि सीते! आ मलयान्मलयपर्यन्तम्। `पञ्चम्यपाङ्परिभिः` (पा.2।3।10) इति पञ्चमी। पदद्वयं चैतत्। मत्सेतुना विभक्तं द्विधा कृतम्। अत्यायतसेतुनेत्यर्थः। हर्षाधिक्याञ्च मद्ग्रहणम्। फेनिलं फेनवन्तम्। `फेनादिलञअच` (पा.5।2।99)इतीलच्प्रत्ययः। क्षिप्रकारी चायमिति भावः। अम्बुराशिम्। छायापथेन विभक्तं शरत्प्रसन्नमाविष्कृतचारुतारमाकाशमिव। पश्य। मम महानयं प्रयासस्त्वदर्थं इति हृदयम्। छायापथो नाम ज्योतिश्चक्रमध्यवर्ती कश्चित्तिरश्चीनोऽवकाशः ॥
RV 13.3 उपजातिः
गुरोर्यियक्षोः कपिलेन मेध्ये रसातलं संक्रमिते तुरंगे । तदर्थमुर्वीमवदारयद्भिः पूर्वैः किलायं परिवर्धितो नः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): गुरोरिति॥ यियक्षोर्यष्टुमिच्छोः। यजेः सन्नन्तादुप्रत्ययः। गुरोः सगरस्य मेध्येऽश्वमेधार्हे तुरंगे ह्रये कपिलेन मुनिना रसातलं पातालं संक्रमित्ते सति। तदर्थमुर्वीमवदारयद्भिः खनद्भिर्नोऽस्माकं पूर्वैर्वृद्धैः सगरसुतैरयं समुद्रः परिवर्धितः किल। `किल`इत्यैतिह्ये। अतो न पूज्य इति भावः। यद्यपि तुरंगहारी शतक्रतुस्तथापि तस्य कपिलसमीपे दर्शनात्स एवेति भ्रान्तिः तन्मत्वैव कविना कपिलेनेति निर्दिष्टम् ॥
RV 13.4 उपजातिः
गर्भं दधत्यर्कमरीचयोऽस्माद्विवृद्धिमत्राश्नुवते वसूनि । अबिन्धनं वह्निमसौ बिभर्ति प्रह्लादनं ज्योतिरजन्यनेन ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): गर्भमिति॥ अर्कमरीचयोऽस्मादब्धेः। अपादानात्। गर्भमम्मयं दधति। वृष्ट्यर्थमित्यर्थः। अयमर्थो दशमसर्गे `ताभिर्गर्भः-`(58)इत्यत्र स्पष्टीकृतः। अयं लोकोपकारीति भावः। अत्राब्धौ वसूनि धनानि। `धने रत्ने वसु स्मृतम्`इति विश्वः। विवृद्धिमश्नुवते प्राप्नुवन्ति। संपद्वानित्यर्थः। असौ। आप इन्धनं दाह्यं यस्य तद्दाहकं वह्निं बिभर्ति। अपकारेऽप्याश्रितं न त्यजतीति भावः। अनेन प्रह्लादनमाह्लादकं ज्योतिश्चन्द्रोऽजनि जनितम्। जनेर्ण्यन्तात्कर्मणि लुङ्। सौम्य इति भावः ॥
RV 13.5 उपजातिः
तां तामवस्थां प्रतिपद्यमानं स्थितं दश व्याप्य दिशो महिम्ना । विष्णोरिवास्यानवधारणीयमीदृक्तया रूपमियत्तया वा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तां तामिति॥ तां तामनेकाम्। `नित्यवीप्सयोः` (पा.8।1।4) इति वीप्सया द्विरुक्तिः। अवस्थामक्षोभाद्यवस्थाम्। विष्णुपक्षे, -सत्त्वाद्यवस्थाम्। प्रतिपद्यमानं भजमानं महिम्ना दश दिशो व्याप्य स्थितं विष्णोरिवास्य रत्नाकरस्य रूपं स्वरूपमुक्तरीत्या बहुप्रकारत्वाद्व्यापकत्वाञ्चेदृक्तया, इयत्तया वा प्रकारतः परिमाणतश्चानवधारणीयं दुर्निरूपम् ॥
RV 13.6 उपजातिः
नाभिप्ररूढाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा । अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान्पुरुषोऽधिशेते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): नाभीति॥ युगान्ते कल्पान्त उचिता परिचिता योगाः स्वात्मनिष्ठैव निद्रेव निद्रा यस्य स पुरुषो विष्णुर्लोकान्संहृत्य। नाभ्यां प्ररूढं यदम्बुरुहं पद्मं तदासनेन तन्नाभिकमलाश्रयेण प्रथमेन धात्रा दक्षादीनामपि स्रष्ट्रा पितामहेन संस्तूयमानः सन्। अमुमधिशेते। अमुष्मिञ्धेत इत्यर्थः। कल्पान्तेऽप्यस्तीति भावः ॥
RV 13.7 उपजातिः
पक्षच्छिदा गोत्रभिदात्तगन्धाः शरण्यमेनं शतशो महीध्राः । नृपा इवोपप्लविनः परेभ्यो धर्मोत्तरं मध्यममाश्रयन्ते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पक्षेति॥ पक्षच्छिदा गोत्रभिदेन्द्रेण। उभयत्र `सत्सूद्विष-` (पा.3।2।61) इत्यादिना क्विप्। आत्तगन्धा हृदगर्वाः। अभिभूता इत्यर्थः। `गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः`इति विश्वः। `आत्तगन्धोऽभिभूतः स्यात्` इत्यमरः। महीं धारयन्तीति महीध्राः पर्वताः। मूलविभुजादित्वात्कप्रत्ययः। शतं शतं शतशः शरण्यं रक्षणसमर्थमेनं समुद्रम्। परेभ्यः शत्रुभ्य उपप्लविनो भयवन्तो नृपा धर्‌मोत्तरं धर्मप्रधानं मध्यमं मध्यमभूपालमिव। आश्रयन्ते। `अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः` इति कामन्दकः। आर्तबन्धुरिति भावः ॥
RV 13.8 उपजातिः
रसातलादादिभवेन पुंसा भुवः प्रयुक्तोद्वहनक्रियायाः । अस्याच्छमम्मः प्रलयप्रवृद्धं मुहूर्तवक्राभरणं बभूव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): रसातलादिति॥ आदिभवेन पुंसाऽऽदिवराहेण रसातलात्प्रयुक्तोद्वहननक्रिययाः कृतोद्धरणक्रियायाः। विवाहक्रिया च व्यज्यते। भुवो भूदेवतायाः प्रलये प्रवृद्धमस्याब्धेरच्छमम्भो मुहूर्तं वक्त्राभरणं लज्जारक्षणार्थं मुखावगुण्ठनं बभूव। तदुक्तम्-`उद्धृतासि वराहेण कृष्णेन शतबाहुना`इति ॥
RV 13.9 उपेन्द्रवज्रा
मुखार्पणेषु प्रकृतिप्रगल्भाः स्वयं तरंगाधरदानदक्षः । अनन्यसामान्यकलत्रवृत्तिः पिबत्यसौ पाययते च सिन्धूः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मुखेति॥ अन्येषां पुंसां सामान्या साधारणा न भवतीत्यनन्यसामान्या कलत्रेषु वृत्तिर्भोगरूपा यस्य स तथोक्तः। इममेवार्थं प्रतिपादयति-तरंग एवाधरस्तस्य दाने समर्पणे दक्षश्चतुरोऽसौ समुद्रो मुखार्पणेषु प्रकृत्या सख्यादिप्रेषणं विना प्रगल्भा धृष्टाः सिन्धूर्नदीः। `सिन्धुः समुद्रे नद्यां च` इति विश्वः। स्वयं पिबति पाययतेच । तरंगाधरमिति शेषः। `न पादम्याङ्यमा-` (पा.1।3।79) इत्यादिना पिबतेर्ण्यन्तान्नित्यं परस्मैपदनिषेधः। `गतिबुद्धिप्रत्यवसानार्थ`- (पा.1।4।52) इत्यादिना सिन्धूनां कर्मत्वम्। दंपत्योर्युगपत्परस्पराधरपानमनन्यसाधारणमिति भावः ॥
RV 13.10 उपजातिः
ससत्त्वमादाय नदीमुखाम्भः संमीलयन्तो विवृताननत्वात् । अमी शिरोभिस्तिमयः सरन्ध्रैरूर्ध्वं वितन्वन्ति जलप्रवाहान् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ससत्त्वमिति॥ अमी तिमयो मत्स्यविशेषाः। तदुक्तम्-`अस्ति मत्स्यस्तिमिर्नाम शतयोजनमायतः`इति। विवृताननत्वाद्व्यात्तमुखत्वाद्धेतोः। आननविवृत्येत्यर्थः। ससत्त्वं मत्स्यादिप्राणिसहितं नदीमुखाम्भ आदाय संमीलयन्तश्चञ्चुपुटानि संघट्टयन्तः सन्तः सरन्ध्रैः शिरोभिर्जलप्रवाहानूर्ध्वं वितन्वन्ति। जलयन्त्रक्रीडासमाधिर्व्यज्यते ॥
RV 13.11 उपेन्द्रवज्रा
मातंगनक्रैः सहसोत्पतद्भिन्नान्द्विधा पश्य समुद्रफेनान् । कपोलसंसर्पितया य एषां व्रजन्ति कर्णक्षणचामरत्वम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मातंगेति॥ सहसोत्पतद्भिर्मातंगनक्रैः मातंगाकारैर्ग्राहैर्द्विधा भिन्नान्समुद्रफेनान् पश्य। ये फेनाः एषां जलमातंगनक्राणां कपोलेषु संसर्पितया संसर्पणेन हेतुना कर्णेषु क्षणं चामरत्वं व्रजन्ति ॥
RV 13.12 उपजातिः
वेलानिलाय प्रसृता भुजंगा वहोर्मिविस्फूर्जथुनिर्विशेषाः । सूर्यांशुसंपर्कसमृद्धरागैर्व्यज्यन्त एते मणिभिः फणस्थैः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वेलेति॥ वैलानिलाय। वेलानिलं पातुमित्यर्थः। `क्रियार्थोपपद-` (पा.2।3।14)इत्यादिना चतुर्थी। प्रसृता निर्गता महोर्मीणां विस्फूर्जथुरुद्रेकः। `ट्वितोऽथुच्` (पा.3।3।89) इत्यथुच्प्रत्ययः। तस्मान्निर्विशेषा दुर्ग्रहमेदा एते भुजंगाः सूर्यांशुसंपर्केण समृद्धरागैः प्रवृद्धकान्तिभिः फणस्थैर्मणिभिर्व्यज्यन्त उन्नीयन्ते ॥
RV 13.13 उपजातिः
तवाधरस्पर्धिषु विद्रुमेषु पर्यस्तमेतत्सहसोर्मिवेगात् । ऊर्ध्वाङ्कुरप्रोतमुखं कथंचित्क्लेशादपक्रामति शङ्खयूथम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तवेति॥ तवाधरस्पर्धिषु। अधरसदृशेष्वित्यर्थः। विद्रुमेषु प्रबालेषु सहसोर्मिवेगात्पर्यस्तं प्रोत्क्षिप्तमूर्ध्वाङ्कुरैर्विद्रुमप्ररोहैः प्रोतमुखं स्यूतवदनमेतच्छङ्खानां यूथं वृन्दं कथंचित्क्लेशादपक्रामति। विसम्ब्यापसरतीत्यर्थः ॥
RV 13.14 उपजातिः
प्रवृत्तमात्रेण पयांसि पातुमावर्तवेगाद्भ्रमता घनेन । आभाति भूयिष्ठमयं समुद्रः प्रमध्यमानो गिरिणेव भूयः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रवृत्तेति॥ पयांसि पातुं प्रवृत्त एव प्रवृत्तमात्रो न तु पीतवान्, तेन आवर्तवेगात्। `स्यादावर्तोऽम्भसां भ्रमः` इत्यमरः (अ.को.1|10|6)। भ्रमता घनेनायं समुद्रो भूयः पुनरपि गिरिणा मन्दरेण प्रमथ्यमान इव भूयिष्ठमत्यन्तमाभाति ॥
RV 13.15 उपजातिः
दूरादयश्चक्रनिभस्य तन्वी तमालतालीवनराजिनीला । आभाति वेला लवणाम्बुराशेर्धारानिबद्धेव कलङ्करेखा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): दूरादिति॥ अयश्चक्रनिभस्य लवणाम्बुराशेर्दूरात्तन्व्यणुत्वेनावभासमाना तमालतालीवनराजिभिर्नीला वेला तीरभूमिर्धारानिबद्धा चक्राश्रिता कलङ्करेखामालिन्यरेखेव। आभाति। `मालिन्यरेखां तु कलङ्कमाहुः` इति दण्डी ॥
RV 13.16 इन्द्रवज्रा
वेलानिलः केतकरेणुभिस्ते संभावयत्याननमायताक्षि! । मामक्षमं मण्डनकालहानेर्वेत्तीव बिम्बाधरबद्धतृष्णम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वेलेति॥ हे आयताक्षि!`वेला स्यात्तीरनीरयोः` इति विश्वः। वेलानिलः केतकरेणुभिस्त आननं संभावयति। किमर्थमित्यपेक्षायामुत्प्रेक्ष्यते-बिम्बाधरे बद्दतृष्णं मां मण्डनेनाभरणक्रियया कालहानिर्विलम्बस्तस्या अक्षममसहमानम्। कर्मणि षष्ठी। कालहानिमसहमानं वेत्तीव वेत्ति किम्? नो चेत्कथं संभावयेदित्यर्थः ॥
RV 13.17 इन्द्रवज्रा
एते वयं सैकतभिन्नशुक्तिपर्यस्तमुक्तापटलं पयोधेः । प्राप्ता मुहूर्तेन विमानवेगात्कूलं फलावर्जितपूगमालम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): एत इति॥ एते वयं सैकतेषु भिन्नाभिः स्फुटिताभिः शुक्तिभिः पर्यस्तानि परितः क्षिप्तानि मुक्तानां पटलानि यस्मिंस्तत्तथोक्तं फलैरावर्जिता आनमिता पूगमाला यस्मिंस्तत् पयोधेः कूलं विमानवेगान्मुहूर्तेन प्राप्ताः॥
RV 13.18 उपजातिः
कुरुष्व तावत्करभोरु! पश्चान्मार्गे मृगप्रेक्षिणि! दृष्टिपातम् । एषा विदूरीभवतः समुद्रात्सकानना निष्पततीव भूमिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कुरुष्वेति॥ `मणिबन्धादाकनिष्ठं करस्य करभो बहिः` इत्यमरः। करभ इवोरूयस्याः सा करभोरूः। `ऊरूत्तरपदादौपम्ये` (पा.4।1।69)इत्यङ्। तस्याः संबुद्धिर्हे करभोरू। मृगवत्प्रेक्षत इति विग्रहः। हे मृगप्रेक्षिणि! तावत्पश्चान्मार्गे लङ्घिताध्वनि दृषअटिपातं कुरुष्व। एषा सकानना भूमिर्विदूरीभवतः समुद्रान्निष्पतति निष्क्रामतीव। `विदूर`शब्दाद्विशेष्यनिघ्नाञ्च्विः ॥
RV 13.19 उपेन्द्रवज्रा
क्वचित्पथा संचरते सुराणां क्वचिद्धनानां पततां क्वचिञ्च । यथाविधो मे मनसोऽभिलाषः प्रवर्तते पश्य तथा विमानम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): क्वचिदिति॥ हे देवि! विमानं पुष्पकं मे मनसोऽभिलाषो यथआविधस्तथा प्रवर्तते पशअय। क्वचित् सुराणां पथा संचरते। क्वचिद्धनानां क्वचित्पततां पक्षिणां च पथा संचरते। `समस्तृतीयायुक्तात्` (पा.1।3।54)इति संपूर्वाञ्चरतेरात्मनेपदम् ॥
RV 13.20 उपजातिः
असौ महेन्द्रद्विपदानगन्धिस्त्रिमार्गगावीचिविमर्दशीतः । आकाशवायुर्दिनयौवनोत्थानाचामति स्वेदलवान्मुखे ते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): असाविति॥ महेन्द्रद्विपदानगन्धिरैरावतमदगन्धिः। त्रिभिमार्गैर्गच्छतीति त्रिमार्गगा गङ्गा। `तद्धितार्थ-` (पा.2।1।51)इत्यादिनोत्तरपदसमासः। तस्या वीचीनां विमर्देन संपर्केण शीतोऽसावाकाशवायुर्दिनयौवनोत्थान्मध्याह्नसंभवांस्ते मुखे स्वेदलवानाचामति हरति। अनेन सुरपथसंचारो दर्शितः ॥
RV 13.21 इन्द्रवज्रा
करेण वातायनलम्बितेन स्पृष्टस्त्वया चण्डि! कुतूहलिन्या । आमुञअचतीवाभरणं द्वितीयमुद्भिन्नविद्युद्वलयो घनस्ते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): करेणेति॥ हे चण्डि कोपने!`चण्डस्त्वत्यन्तकोपनः` इत्यमरः (अ.को.3|1|32)। कुतूहलिन्या विनोदार्थिन्या त्वया कर्त्र्या वातायने गवाक्षे लम्बितेनावस्रंसितेन करेण स्पृषअट उद्भइन्नविद्युद्वलयो घनस्ते द्वितीयमाभरणं वलयमामुञ्चतीवार्पयतीव। `चण्डि`इत्यनेन कोपनशीलत्वाद्भीतः क्षिप्रं त्वां मुञ्चति मेघ इति व्यज्यते ॥
RV 13.22 उपजातिः
अमी जनस्थानमपोढविघ्नं मत्वा समारब्धनवोटजानि । अध्यासते चीरभृतो यथास्वं चिरोज्झितान्याश्रममण्डलानि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अमी इति॥ अमी चीरभृतस्तापसा जनस्थानमपोढविघ्नमपास्तविघ्नं मत्वा ज्ञात्वा समारब्धा नवा उटजाः पर्णशाला येषु तानि। `पर्णशालोटजोऽस्त्रियाम्` इत्यमरः (अ.को.2|2|6)। चिरोैज्झितानि। राक्षसभयादित्यर्थः। आश्रममण्डलान्याश्रमविभागान्। यथास्वं स्वमनतिक्रम्य। अध्यासतेऽधितिष्ठन्ति॥
RV 13.23 उपजातिः
सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टां मया नूपुरमेकमुर्व्याम् । अदृश्यत त्वञ्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सैषेति॥ सा पूर्वानुभूता स्थल्येषा। दृशअयत इत्यर्थः। यत्र स्थल्यां त्वां विचिन्वताऽन्विष्यता मया। त्वञअचरणारविन्देन यो विश्लेषो वियोगस्तेन यद्दुःखं तस्मादिव बद्धमौनं निःशब्दम्। उर्व्यां भ्रष्टमेकं नूपुरं मञ्जीरः। `मञ्जरो नूपुरोऽस्त्रियाम्` इत्यमरः। अदृश्यत दृष्टम्। हेतूत्प्रेक्षा॥
RV 13.24 उपजातिः
त्वं रक्षसा भीरु! यतोऽपनीता तं मार्गमेताः कृपया लता मे । अदर्शयन्वक्तुमशक्नुवत्यः शाखाभिरावर्जितपल्लवाभिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): त्वमिति॥ हे भूरु भयशीले! `ऊङुतः` (पा.4।1।36)इत्यूङ्। ततो नदीत्वात्संबुद्धो ह्रस्वः। त्वं रक्षसा रावणेन यतो येन मार्गेण। सार्वविभक्तिकस्तसिः। अपनीताऽपहृता तं मार्गं वागिन्द्रियाभावाद्वक्तुमशक्नुवत्य एता लता वीरुध आवर्जिता नमिताः पल्लवाः पाणिस्थानीया याभिस्ताभिः शाखाभिः स्वावयवभूताभिः कृपया मेऽदर्शयन्। हस्तचेष्टयाऽसूचयन्नित्यर्थः। `शाखा वृक्षान्तरे भुजे`इति विश्वः। लतादीनामपि ज्ञानमस्त्येव। तदुक्तं मनुना(1।49)-`अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः`इति ॥
RV 13.25 उपजातिः
मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्माम् । व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मृग्यश्चेति॥ दर्भाङ्कुरेषु भक्ष्येषु निर्व्यपेक्षा निःस्पृहा मृग्यो मृग्ङ्गानाश्चोत्पक्ष्मराजिनि विलोचनानि दक्षिणस्यां दिशि व्यापारयन्त्यः प्रवर्तयन्त्यः सत्यस्तवागतिज्ञं गत्यनभिज्ञं मां समबोधयन्। दृष्टिचेष्टया त्वद्गतिमबोधयन्नित्यर्थः ॥
RV 13.26 उपजातिः
एतद्गिरेर्माल्यवतः पुरस्तादाविर्भवत्यम्बरलेखि श्रृङ्गम् । नवं पयो यत्र घनैर्मया च त्वद्विप्रयोगाश्रु समं विसृष्टम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): एतदिति॥ माल्यवतो नाम गिरेरम्बरलेख्यभ्रंकषं श्रृङ्गमेतत्पुरस्तादग्र आविर्भवति। यत्र शृङ्गे धनैर्मेघैर्नवं पयो मया त्वद्विप्रयोगेण यदश्रु तञ्च समं युगपद्विसृष्टम्। मेघदर्शनाद्वर्षतुल्यमश्रु विमुक्तमिति भावः ॥
RV 13.27 इन्द्रवज्रा
गन्धश्च धाराहतपल्वलानां कादम्बमर्धोद्गतकेसरं च । स्निग्धाशअच केकाः शिखिनां बभूवुर्यस्मिन्नसह्यानि विनात्वया मे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): गन्धश्चेति॥ यस्मिन् शृङ्गे धाराभिर्वर्षधाराभिराहतानां पल्वलानां गन्धश्च। अर्धोद्गतकेसरं कादम्बं नीपकुसुमं च। स्निग्धामधुराः। शिखइनां बर्हिणाम्। `शिखिनौ वह्निबर्हिणौ` इत्यमरः (अ.को.3|3|114)। केकाशअच। त्वया विना मेऽसह्यानि बुभूवुः। `नपुंसकमनपुंसकेन-` (पा.1।2।69) इति नपुंसकैकशेषः॥
RV 13.28 उपजातिः
पूर्वानुभूतं स्मरता च यत्र कम्पोत्तरं भीरु! तवोपगूढम् । गुहाविसारीण्यतिवाहितानि मया कथंचिद्धनगर्जितानि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पूर्वेति॥ किंच, हे भीरु! यत्र शृङ्गे पूर्वानुभूतं कम्पोत्तरं कम्पप्रधानं तवोपगूढमुपगूहनं स्मरता मया गुहाविसारीणि घनगर्जितानि कथँचिदतिवाहितानि। स्मारकत्वेनोद्दीपकत्वात्ल्केशेन गमितानीत्यर्थः ॥
RV 13.29 उपजातिः
आसारसिक्तक्षितिबाष्पयोगान्मामक्षिणोद्यत्र विभिन्नकोशैः । विडम्ब्यमाना नवकन्दलैस्ते विवाहधूमारुणलोचनश्रीः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): आसारेति॥ यत्र श्रृङ्गे विभिन्नकोशैर्विकसितकुङ्भलैर्नवकन्दलैः कन्दलीपुष्पैररुणवर्णैरासारेण धारासंपातेन। `धारासंपात आसारः` इत्यमरः। सिक्तायाः क्षितेर्बाष्पस्य धूमवर्णस्य योगाद्धेतोविडम्ब्यमानाऽनुक्रियमाणा ते विवाहधूमेनारुणा लोचनश्रीः। सादृश्यात्स्मर्यमाणेति शेषः। मामक्षिणोदपीडयत्॥
RV 13.30 उपजातिः
उपान्तवानीरवनोपगूढान्यालक्ष्यपारिप्लवसारसानि । दूरावतीर्णा पिबतीव खेदादमूनि पम्पासलिलानि दृष्टिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): उपान्तेति॥ उपान्तवानीरवनोपगूढानि पार्शअववञ्जलवनच्छन्नान्यालक्ष्या ईषद्दृश्याः पारिप्लवाश्चञ्चलाः सारसा येषुतान्यमूनि पम्पासलिलानि पम्पासरोजलानि दूरादवतीर्णा मे दृष्टिरत एव खेदात्पिबतीव। न विहातुमुत्सहत इत्यर्थथः ॥
← Previous (Ch. 12) Full Table of Contents Next (Ch. 14) →