Skip to main content
Search
Ch. 13 RV 13.24
Full Chapter
RV • Chapter 13: Canto 13

RV 13.24

Canonical Ref: RV 13.24
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
त्वं रक्षसा भीरु! यतोऽपनीता तं मार्गमेताः कृपया लता मे । अदर्शयन्वक्तुमशक्नुवत्यः शाखाभिरावर्जितपल्लवाभिः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): त्वमिति॥ हे भूरु भयशीले! `ऊङुतः` (पा.4।1।36)इत्यूङ्। ततो नदीत्वात्संबुद्धो ह्रस्वः। त्वं रक्षसा रावणेन यतो येन मार्गेण। सार्वविभक्तिकस्तसिः। अपनीताऽपहृता तं मार्गं वागिन्द्रियाभावाद्वक्तुमशक्नुवत्य एता लता वीरुध आवर्जिता नमिताः पल्लवाः पाणिस्थानीया याभिस्ताभिः शाखाभिः स्वावयवभूताभिः कृपया मेऽदर्शयन्। हस्तचेष्टयाऽसूचयन्नित्यर्थः। `शाखा वृक्षान्तरे भुजे`इति विश्वः। लतादीनामपि ज्ञानमस्त्येव। तदुक्तं मनुना(1।49)-`अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः`इति ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 13.24. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 13.23) All Verses in Chapter 13 Next Verse (RV 13.25) →