Skip to main content
Search
Full Chapter
RV • Chapter 13: Canto 13

RV 13.7

Canonical Ref: RV 13.7
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
पक्षच्छिदा गोत्रभिदात्तगन्धाः शरण्यमेनं शतशो महीध्राः । नृपा इवोपप्लविनः परेभ्यो धर्मोत्तरं मध्यममाश्रयन्ते ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): पक्षेति॥ पक्षच्छिदा गोत्रभिदेन्द्रेण। उभयत्र `सत्सूद्विष-` (पा.3।2।61) इत्यादिना क्विप्। आत्तगन्धा हृदगर्वाः। अभिभूता इत्यर्थः। `गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः`इति विश्वः। `आत्तगन्धोऽभिभूतः स्यात्` इत्यमरः। महीं धारयन्तीति महीध्राः पर्वताः। मूलविभुजादित्वात्कप्रत्ययः। शतं शतं शतशः शरण्यं रक्षणसमर्थमेनं समुद्रम्। परेभ्यः शत्रुभ्य उपप्लविनो भयवन्तो नृपा धर्‌मोत्तरं धर्मप्रधानं मध्यमं मध्यमभूपालमिव। आश्रयन्ते। `अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः` इति कामन्दकः। आर्तबन्धुरिति भावः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 13.7. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 13.6) All Verses in Chapter 13 Next Verse (RV 13.8) →