Skip to main content
Search
Full Chapter
RV • Chapter 13: Canto 13

RV 13.9

Canonical Ref: RV 13.9
Metrical Form: उपेन्द्रवज्रा
Sanskrit (Devanāgarī)
मुखार्पणेषु प्रकृतिप्रगल्भाः स्वयं तरंगाधरदानदक्षः । अनन्यसामान्यकलत्रवृत्तिः पिबत्यसौ पाययते च सिन्धूः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): मुखेति॥ अन्येषां पुंसां सामान्या साधारणा न भवतीत्यनन्यसामान्या कलत्रेषु वृत्तिर्भोगरूपा यस्य स तथोक्तः। इममेवार्थं प्रतिपादयति-तरंग एवाधरस्तस्य दाने समर्पणे दक्षश्चतुरोऽसौ समुद्रो मुखार्पणेषु प्रकृत्या सख्यादिप्रेषणं विना प्रगल्भा धृष्टाः सिन्धूर्नदीः। `सिन्धुः समुद्रे नद्यां च` इति विश्वः। स्वयं पिबति पाययतेच । तरंगाधरमिति शेषः। `न पादम्याङ्यमा-` (पा.1।3।79) इत्यादिना पिबतेर्ण्यन्तान्नित्यं परस्मैपदनिषेधः। `गतिबुद्धिप्रत्यवसानार्थ`- (पा.1।4।52) इत्यादिना सिन्धूनां कर्मत्वम्। दंपत्योर्युगपत्परस्पराधरपानमनन्यसाधारणमिति भावः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 13.9. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 13.8) All Verses in Chapter 13 Next Verse (RV 13.10) →