Skip to main content
Search
Ch. 13 RV 13.10
Full Chapter
RV • Chapter 13: Canto 13

RV 13.10

Canonical Ref: RV 13.10
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
ससत्त्वमादाय नदीमुखाम्भः संमीलयन्तो विवृताननत्वात् । अमी शिरोभिस्तिमयः सरन्ध्रैरूर्ध्वं वितन्वन्ति जलप्रवाहान् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): ससत्त्वमिति॥ अमी तिमयो मत्स्यविशेषाः। तदुक्तम्-`अस्ति मत्स्यस्तिमिर्नाम शतयोजनमायतः`इति। विवृताननत्वाद्व्यात्तमुखत्वाद्धेतोः। आननविवृत्येत्यर्थः। ससत्त्वं मत्स्यादिप्राणिसहितं नदीमुखाम्भ आदाय संमीलयन्तश्चञ्चुपुटानि संघट्टयन्तः सन्तः सरन्ध्रैः शिरोभिर्जलप्रवाहानूर्ध्वं वितन्वन्ति। जलयन्त्रक्रीडासमाधिर्व्यज्यते ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 13.10. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 13.9) All Verses in Chapter 13 Next Verse (RV 13.11) →