Skip to main content
Search
Full Chapter
RV • Chapter 13: Canto 13

RV 13.4

Canonical Ref: RV 13.4
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
गर्भं दधत्यर्कमरीचयोऽस्माद्विवृद्धिमत्राश्नुवते वसूनि । अबिन्धनं वह्निमसौ बिभर्ति प्रह्लादनं ज्योतिरजन्यनेन ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): गर्भमिति॥ अर्कमरीचयोऽस्मादब्धेः। अपादानात्। गर्भमम्मयं दधति। वृष्ट्यर्थमित्यर्थः। अयमर्थो दशमसर्गे `ताभिर्गर्भः-`(58)इत्यत्र स्पष्टीकृतः। अयं लोकोपकारीति भावः। अत्राब्धौ वसूनि धनानि। `धने रत्ने वसु स्मृतम्`इति विश्वः। विवृद्धिमश्नुवते प्राप्नुवन्ति। संपद्वानित्यर्थः। असौ। आप इन्धनं दाह्यं यस्य तद्दाहकं वह्निं बिभर्ति। अपकारेऽप्याश्रितं न त्यजतीति भावः। अनेन प्रह्लादनमाह्लादकं ज्योतिश्चन्द्रोऽजनि जनितम्। जनेर्ण्यन्तात्कर्मणि लुङ्। सौम्य इति भावः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 13.4. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 13.3) All Verses in Chapter 13 Next Verse (RV 13.5) →