Skip to main content
Search
Full Chapter
RV • Chapter 13: Canto 13

RV 13.3

Canonical Ref: RV 13.3
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
गुरोर्यियक्षोः कपिलेन मेध्ये रसातलं संक्रमिते तुरंगे । तदर्थमुर्वीमवदारयद्भिः पूर्वैः किलायं परिवर्धितो नः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): गुरोरिति॥ यियक्षोर्यष्टुमिच्छोः। यजेः सन्नन्तादुप्रत्ययः। गुरोः सगरस्य मेध्येऽश्वमेधार्हे तुरंगे ह्रये कपिलेन मुनिना रसातलं पातालं संक्रमित्ते सति। तदर्थमुर्वीमवदारयद्भिः खनद्भिर्नोऽस्माकं पूर्वैर्वृद्धैः सगरसुतैरयं समुद्रः परिवर्धितः किल। `किल`इत्यैतिह्ये। अतो न पूज्य इति भावः। यद्यपि तुरंगहारी शतक्रतुस्तथापि तस्य कपिलसमीपे दर्शनात्स एवेति भ्रान्तिः तन्मत्वैव कविना कपिलेनेति निर्दिष्टम् ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 13.3. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 13.2) All Verses in Chapter 13 Next Verse (RV 13.4) →