किं बहुना—
प्रीतिं निरन्तरां कृत्वा दुर्भेद्यां नख-मांसवत् । मूषको वायसश्चैव गतौ कृत्रिम-मित्रताम् ॥
एवं स मूषकस्तद्-उपकार-रञ्जितस्तथा विश्वस्तो यथा तस्य पक्ष-मध्ये प्रविष्टस्तेन सह सर्वदैव गोष्ठीं करोति । अथान्यस्मिन्नहनि वायसोऽश्रु-पूर्ण-नयनः समभ्येत्य सगद्गदं तमुवाच-भद्र हिरण्यक, विरक्तिः सञ्जाता मे साम्प्रतं देशस्यास्योपरि तदन्यत्र यास्यामि ।
हिरण्यक आह—भद्र किं विरक्तेः कारणम् ।
स आह—भद्र, श्रूयतां । अत्र देशे महत्यानावृष्ट्या दुर्भिक्षं सञ्जातम् । दुर्भिक्षत्वाज्जनो बुभुक्षा-पीडितः कोऽपि बलि-मात्रमपि न प्रयच्छति । अपरं गृहे गृहे बुभुक्षित-जनैर्विहङ्गानां बन्धनाय पाशाः प्रगुणीकृताः सन्ति । अहमप्यायुः-शेषतया पाशेन बद्ध उद्धरितोऽस्मि । एतद्विरक्तेः कारणम् æ । तेनाहं विदेशं चलित इति बाष्प-मोक्षं करोमि ।
हिरण्यक आह—अथ भवान्क्व प्रस्थितः ?
स आह—अस्ति दक्षिणा-पथे वन-गहन-मध्ये महासरः । तत्र त्वत्तोऽधिकः परम-सुहृत्कूर्मो मन्थरको नाम । स च मे मत्स्य-मांस-खण्डानि दास्यति । तद्-भक्षणात्तेन सह सुभाषित-गोष्ठी-सुखमनुभवन्सुखेन कालं नेष्यामि । नाहमत्र विहङ्गानां पाश-बन्धनेन क्षयं द्रष्टुमिच्छामि । उक्तं च—
अनावृष्टि-हते देशे सस्ये च प्रलयं गते । धन्यास्तात न पश्यन्ति देश-भङ्गं कुल-क्षयम् ॥
कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानां कः परः प्रिय-वादिनाम् ॥
विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन । स्व-देशे पूज्यते राजा विद्वान्सर्वत्र पूज्यते ॥
हिरण्यक आह—यद्येवं तदहमपि त्वया सह गमिष्यामि । ममापि महद्दुःखं वर्तते ।
वायस आह—भोः ! तव किं दुःखम् ? तत्कथय ।
हिरण्यक आह—भोः ! बहु वक्तव्यमस्त्यत्र विषये । तत्रैव गत्वा सर्वं सविस्तरं कथयिष्यामि ।
वायस आह—अहं तावदाकाश-गतिः । तत्कथं भवतो मया सह गमनम् ?
स आह—यदि मे प्राणान्रक्षसि तदा स्व-पृष्ठमारोप्य मां तत्र प्रापयिष्यसि । नान्यथा मम गतिरस्ति ।
तच्छ्रुत्वा सानन्दं वायस आह—यद्येवं तद्धन्योऽहं यद्भवतापि सह तत्र कालं नयामि । अहं सम्पातादिकानषावुड्डीन-गति-विशेषान्वेद्मि । तत्समारोह मम पृष्ठं, येन सुखेन त्वां तत्-सरः प्रापयामि ।
हिरण्यक आह—उड्डीनानां नामानि श्रोतुमिच्छामि ।
स आह—
सम्पातं विप्र-पातं च महा-पातं निपातनम् । वक्रं तिर्यक्तथा चोर्ध्वमष्टमं लघु-संज्ञकम् ॥
तच्छ्रुत्वा हिरण्यकस्तत्-क्षणादेव तदुपरि समारूढः । सोऽपि शनैः शनैस्तमादाय सम्पातोड्डीन-प्रस्थितः क्रमेण तत्-सरः प्राप्तः । ततो लघुपतनकं मूषकाधिष्ठितं विलोक्य दूरतोऽपि देश-काल-विद-सामान्य-काकोऽयमिति ज्ञात्वा सत्वरं मन्थरको जले प्रविष्टः । लघुपतनकोऽपि तीरस्थ-तरु-कोटरे हिरण्यकं मुक्त्वा शाखाग्रमारुह्य तार-स्वरेण प्रोवाच-भो मन्थरक !आगच्छागच्छ । तव मित्रमहं लघुपतनको नाम वायसश्चिरात्सोत्कण्ठः समायातः । तदागत्यालिङ्गय माम् । उक्तं च—
किं चन्दनैः स-कर्पूरैस्तुहिनैः किं च शीतलैः । सर्वे ते मित्र-गात्रस्य कलां नार्हन्ति षोडशीम् ॥
तथा च—
केनामृतमिदं सृष्टं मित्रमित्यक्षर-द्वयम् । आपदां च परित्राणं शोक-सन्ताप-भेषजम् ॥
तच्छ्रुत्वा निपुणतरं परिज्ञाय सत्वरं सलिलान्निष्क्रम्य पुलकित-तनुरानन्दाश्रु-पूरित-नयनो मन्थरकः प्रोवाच-एह्येहि मित्र,आलिङ्गय माम् । चिर-कालान्मया त्वं न सम्यक्परिज्ञातः । तेनाहं सलिलान्तः-प्रविष्टः । उक्तं च—
यस्य न ज्ञायते वीर्यं न कुलं न विचेष्टितम् । न तेन सङ्गतिं कुर्यादित्युवाच बृहस्पतिः ॥
एवमुक्ते लघुपतनको वृक्षादवतीर्य तमालिङ्गितवान् । अथवा साध्विदमुक्तम्—
अमृतस्य प्रवाहैः किं काय-क्षालन-सम्भवैः । चिरान्मित्र-परिष्वङ्गो योऽसौ मूल्य-विवर्जितः ॥
एवं द्वावपि तौ विहितालिङ्गितौ परस्परं पुलकित-शरीरी वृक्षादधः समुपविष्टौ प्रोचतुरात्म-चरित्र-वृत्तान्तम् । हिरण्यकोऽपि मन्थरकस्य प्रणामं कृत्वा वायसाभ्याशे समुपविष्टः । अथ तं समालोक्य मन्थरको लघुपतनकमाह-भोः हिरण्यको नाम मूषकोऽयम् । मम सुहृद्-द्वितीयमिव जीवितम् । तत्किं बहुना—
पर्जन्यस्य यथा धारा यथा च दिवि तारकाः । सिकता-रेणवो यद्वत्सङ्ख्यया परिवर्जिता ॥
गुणाः सङ्ख्या-परित्यक्तास्तद्वदस्य महात्मनः । परं निर्वेदमापन्नः सम्प्राप्तोऽयं तवान्तिकम् ॥