Skip to main content
Search
MBh
Mahābhārata • Parva 9 (Śalyaparva) • Adhyāya 1

Śalyaparva Adhyāya 1

शल्यपर्व • अध्यायः 1

Śalyaparva Adhyāya 1 of the classical Mahābhārata with 53 verses.

Total: 53 Verses • Citations: MBh 9.1.1–53 • 250 Lexicon Terms • Page 2 of 2 (Verses 23 shown)
पाञ्चालाश्च नरव्याघ्राश्चेदयश्च निषूदिताः । तव पुत्रा हताः सर्वे द्रौपदेयाश्च भारत । कर्णपुत्रो हतः शूरो वृषसेनो महाबलः ॥
English Translation
Your sons as also the five sons of Draupadi have been killed. The valiant and powerful son of Karna, Vrishasena, has also been killed.
नरा विनिहताः सर्वे गजाश्च विनिपातिताः । रथिनश्च नरव्याघ्र हयाश्च निहता युधि ॥
English Translation
All the men collected have been destroyed as also the elephants. All the car-warriors and horses have been slain in battle.
किंचिच्छेषं च शिबिरं तावकानां कृतं विभो । पाण्डवानां च शूराणां समासाद्य परस्परम् ॥
प्रायः स्त्रीशेषमभवज्जगत्कालेन मोहितम् । सप्त पाण्डवतः शेषा धार्तराष्ट्रास्तथा त्रयः ॥
ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः । कृपश्च कृतवर्मा च द्रौणिश्च जयतां वरः ॥
English Translation
They are the five Pandava brothers and Vasudeva and Satyaki and Kripa and Kritavarman and Drona's son, that foremost of victorious heroes.
तवाप्येते महाराज रथिनो नृपसत्तम । अक्षौहिणीनां सर्वासां समेतानां जनेश्वर । एते शेषा महाराज सर्वेऽन्ये निधनं गताः ॥
English Translation
These three car-warriors, are all that survive, O best of kings, of all the Akshauhinis collected on your side, O ruler of men!
कालेन निहतं सर्वं जगद्वै भरतर्षभ । दुर्योधनं वै पुरतः कृत्वा वैरस्य भारत ॥
English Translation
These are only living O monarch, the rest have died. Making Duryodhana and his hostility towards the Pandavas the cause, the whole world, it seems has been destroyed, O foremost of Bharata's race, by Time!"
एतच्छ्रुत्वा वचः क्रूरं धृतराष्ट्रो जनेश्वरः । निपपात महाराज गतसत्त्वो महीतले ॥
English Translation
Vaishampayana sajd Hearing these cruel words, Dhritarashtra, that ruler of men, fell down, senses, O monarch, on the Earth.
तस्मिन्निपतिते भूमौ विदुरोऽपि महायशाः । निपपात महाराज राजव्यसनकर्शितः ॥
English Translation
As soon as the king fell down, the illustrious Vidura also, O king, afflicted with sorrow for the king's distress, fell down on Earth.
गान्धारी च नृपश्रेष्ठ सर्वाश्च कुरुयोषितः । पतिताः सहसा भूमौ श्रुत्वा क्रूरं वचश्च ताः ॥
English Translation
Gandhari also, O best of kings and all the Kuru ladies, suddenly fell down on the ground, hearing those cruel words.
निःसंज्ञं पतितं भूमौ तदासीद्राजमण्डलम् । प्रलापयुक्ता महती कथा न्यस्ता पटे यथा ॥
English Translation
All those royal persons remained lying on the ground, deprived of their consciousness and crying in delirium, like figures painted on a large piece of canvas.
कृच्छ्रेण तु ततो राजा धृतराष्ट्रो महीपतिः । शनैरलभत प्राणान्पुत्रव्यसनकर्शितः ॥
English Translation
Then king Dhritarashtra, that lord of Earth, afflicted with the misery of the death of his sons, slowly and with difficulty regained his life-breaths.
लब्ध्वा तु स नृपः संज्ञां वेपमानः सुदुःखितः । उदीक्ष्य च दिशः सर्वाः क्षत्तारं वाक्यमब्रवीत् ॥
विद्वन्क्षत्तर्महाप्राज्ञ त्वं गतिर्भरतर्षभ । ममानाथस्य सुभृशं पुत्रैर्हीनस्य सर्वशः । एवमुक्त्वा ततो भूयो विसंज्ञो निपपात ह ॥
तं तथा पतितं दृष्ट्वा बान्धवा येऽस्य केचन । शीतैस्तु सिषिचुस्तोयैर्विव्यजुर्व्यजनैरपि ॥
स तु दीर्घेण कालेन प्रत्याश्वस्तो महीपतिः । तूष्णीं दध्यौ महीपालः पुत्रव्यसनकर्शितः । निःश्वसञ्जिह्मग इव कुम्भक्षिप्तो विशां पते ॥
संजयोऽप्यरुदत्तत्र दृष्ट्वा राजानमातुरम् । तथा सर्वाः स्त्रियश्चैव गान्धारी च यशस्विनी ॥
ततो दीर्घेण कालेन विदुरं वाक्यमब्रवीत् । धृतराष्ट्रो नरव्याघ्रो मुह्यमानो मुहुर्मुहुः ॥
गच्छन्तु योषितः सर्वा गान्धारी च यशस्विनी । तथेमे सुहृदः सर्वे भ्रश्यते मे मनो भृशम् ॥
एवमुक्तस्ततः क्षत्ता ताः स्त्रियो भरतर्षभ । विसर्जयामास शनैर्वेपमानः पुनः पुनः ॥
English Translation
After a long while, O best of men, Dhritarashtra, having repeatedly swooned, said to Vidura. "Let all the ladies retire, even the illustrious Gandhari and all these friends! My mind is greatly unsettled!"-Thus addressed, Vidura, repeatedly trembling, slowly sent away the ladies, O foremost of Bharata's race.
निश्चक्रमुस्ततः सर्वास्ताः स्त्रियो भरतर्षभ । सुहृदश्च ततः सर्वे दृष्ट्वा राजानमातुरम् ॥
ततो नरपतिं तत्र लब्धसंज्ञं परंतप । अवेक्ष्य संजयो दीनो रोदमानं भृशातुरम् ॥
प्राञ्जलिर्निःश्वसन्तं च तं नरेन्द्रं मुहुर्मुहुः । समाश्वासयत क्षत्ता वचसा मधुरेण च ॥
← Previous (Ch. 1219) Full Table of Contents Next (Ch. 1221) →