Skip to main content
Search
MBh
Mahābhārata • Parva 14 (Aśvamedhikaparva) • Adhyāya 46

Aśvamedhikaparva Adhyāya 46

अश्वमेधिकपर्व • अध्यायः 46

Aśvamedhikaparva Adhyāya 46 of the classical Mahābhārata with 56 verses.

Total: 56 Verses • Citations: MBh 14.46.1–56 • 250 Lexicon Terms • Page 2 of 2 (Verses 26 shown)
असंरोधेन भूतानां वृत्तिं लिप्सेत मोक्षवित् । न चान्यमनुभिक्षेत भिक्षमाणः कथंचन ॥
न संनिकाशयेद्धर्मं विविक्ते विरजाश्चरेत् । शून्यागारमरण्यं वा वृक्षमूलं नदीं तथा । प्रतिश्रयार्थं सेवेत पार्वतीं वा पुनर्गुहाम् ॥
ग्रामैकरात्रिको ग्रीष्मे वर्षास्वेकत्र वा वसेत् । अध्वा सूर्येण निर्दिष्टः कीटवच्च चरेन्महीम् ॥
दयार्थं चैव भूतानां समीक्ष्य पृथिवीं चरेत् । संचयांश्च न कुर्वीत स्नेहवासं च वर्जयेत् ॥
पूतेन चाम्भसा नित्यं कार्यं कुर्वीत मोक्षवित् । उपस्पृशेदुद्धृताभिरद्भिश्च पुरुषः सदा ॥
अहिंसा ब्रह्मचर्यं च सत्यमार्जवमेव च । अक्रोधश्चानसूया च दमो नित्यमपैशुनम् ॥
अष्टास्वेतेषु युक्तः स्याद्व्रतेषु नियतेन्द्रियः । अपापमशठं वृत्तमजिह्मं नित्यमाचरेत् ॥
आशीर्युक्तानि कर्माणि हिंसायुक्तानि यानि च । लोकसंग्रहधर्मं च नैव कुर्यान्न कारयेत् ॥
English Translation
One should not perform, nor cause to perform, any such deed as involves expectation of fruit or destruction of life or the hoarding of riches or articles.
सर्वभावानतिक्रम्य लघुमात्रः परिव्रजेत् । समः सर्वेषु भूतेषु स्थावरेषु चरेषु च ॥
English Translation
Rejecting all objects, content with a very little, one should move about (homeless), pursuing an equal conduct towards all creatures mobile and immobile.
परं नोद्वेजयेत्कंचिन्न च कस्यचिदुद्विजेत् । विश्वास्यः सर्वभूतानामग्र्यो मोक्षविदुच्यते ॥
English Translation
One should never annoy another being; nor should one be annoyed with another. He who is trusted by all crcatures is considered as the foremost of those persons who understand Liberation.
अनागतं च न ध्यायेन्नातीतमनुचिन्तयेत् । वर्तमानमुपेक्षेत कालाकाङ्क्षी समाहितः ॥
English Translation
One should not think of the past nor feel anxious about the future. One should disregard the present, biding time, with fixed mind.
न चक्षुषा न मनसा न वाचा दूषयेत्क्वचित् । न प्रत्यक्षं परोक्षं वा किंचिद्दुष्टं समाचरेत् ॥
English Translation
One should never defile anything by eye, mind, or speech. Nor should one do anything which is wrong, openly or in secret.
इन्द्रियाण्युपसंहृत्य कूर्मोऽङ्गानीव सर्वशः । क्षीणेन्द्रियमनोबुद्धिर्निरीक्षेत निरिन्द्रियः ॥
English Translation
Withdrawing his senses like the tortoise withdrawing its limbs, one should govern his senses and mind, cultivate a thoroughly peaceful understanding, and seek to master every subject.
निर्द्वंद्वो निर्नमस्कारो निःस्वाहाकार एव च । निर्ममो निरहंकारो निर्योगक्षेम एव च ॥
English Translation
Freed from all pairs of opposites, never bending his head in respect, abstaining from the rites requiring the utterance of Svaha, one should be free from mineness, and egoism. with purified soul, one should never seek to acquire what one has not and protect what one has.
निराशीः सर्वभूतेषु निरासङ्गो निराश्रयः । सर्वज्ञः सर्वतो मुक्तो मुच्यते नात्र संशयः ॥
English Translation
Free from expectations shorn of qualities, endued with tranquility, one should be free from all attachments and should depend on one. Attached to one's Own self and understanding all subjects, one becomes, forsooth, liberated.
अपाणिपादपृष्ठं तमशिरस्कमनूदरम् । प्रहीणगुणकर्माणं केवलं विमलं स्थिरम् ॥
अगन्धरसमस्पर्शमरूपाशब्दमेव च । अत्वगस्थ्यथ वामज्जममांसमपि चैव ह ॥
निश्चिन्तमव्ययं नित्यं हृदिस्थमपि नित्यदा । सर्वभूतस्थमात्मानं ये पश्यन्ति न ते मृताः ॥
न तत्र क्रमते बुद्धिर्नेन्द्रियाणि न देवताः । वेदा यज्ञाश्च लोकाश्च न तपो न पराक्रमः । यत्र ज्ञानवतां प्राप्तिरलिङ्गग्रहणा स्मृता ॥
English Translation
There the understanding reaches not nor the senses, nor the celestials, nor the Vedas nor sacrifices, nor the regions (of superior bliss), nor penance nor vows.
तस्मादलिङ्गो धर्मज्ञो धर्मव्रतमनुव्रतः । गूढधर्माश्रितो विद्वानज्ञातचरितं चरेत् ॥
अमूढो मूढरूपेण चरेद्धर्ममदूषयन् । यथैनमवमन्येरन्परे सततमेव हि ॥
तथावृत्तश्चरेद्धर्मं सतां वर्त्माविदूषयन् । यो ह्येवं वृत्तसंपन्नः स मुनिः श्रेष्ठ उच्यते ॥
इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्च च । मनोबुद्धिरथात्मानमव्यक्तं पुरुषं तथा ॥
सर्वमेतत्प्रसंख्याय सम्यक्संत्यज्य निर्मलः । ततः स्वर्गमवाप्नोति विमुक्तः सर्वबन्धनैः ॥
एतदेवान्तवेलायां परिसंख्याय तत्त्ववित् । ध्यायेदेकान्तमास्थाय मुच्यतेऽथ निराश्रयः ॥
निर्मुक्तः सर्वसङ्गेभ्यो वायुराकाशगो यथा । क्षीणकोशो निरातङ्कः प्राप्नोति परमं पदम् ॥
← Previous (Ch. 1880) Full Table of Contents Next (Ch. 1882) →