अथासावुपसृत्य प्रणामानन्तरम् ‘ देव, यथाज्ञापयसि ’ इत्यभिधाय, लेखद्वितयमर्पयांबभूव । युवराजस्तु शिरसि कृत्वा, स्वयमेव च तदुन्मुच्य, क्रमशः पपाठ — ‘ स्वस्ति। उज्जयिनीतः परममाहेश्वरो महाराजाधिराजो देवस्तारापीडः सर्वसंपदामायतनं चन्द्रापीडमुत्तमाङ्गे चुम्बन्नन्दयति । कुशलिन्यः प्रजाः । किन्तु कियानपि कालो भवतो दृष्टस्य गतः । बलवदुत्कण्ठितं नो हृदयम् । देवी च सहान्त:पुरैर्म्लानिमुपनीता । अतो लेखवाचनविरतिरेव प्रयाणकालतां नेतव्या ’ इति । शुकनासप्रेषिते द्वितीयेऽप्यमुमेवार्थं लिखितमवाचयत् । अस्मिन्नेवावसरे समुपसृत्य वैशम्पायनोऽपि लेखद्वितयमपरमात्मीयम् अस्मादभिन्नार्थमेवादर्शयत् ॥
अथ ‘ यथाज्ञापयति तातः ’ इत्युक्त्वा, तथैव च तुरगाधिरूढः प्रयाणपटहमवादयत् । समीपे स्थितं च महताश्वीयेन परिवृतं महाबलाधिकृतं वलाहकपुत्रं मेघनादनामानमादिदेश — “भवता पत्रलेखया सहागन्तव्यम् । नियतं च केयूरकस्तामादायैतावतीं भूमिमागमिष्यति । तन्मुखेन च विज्ञाप्या प्रणम्य देवी कादम्बरी — ‘ नन्वियं सा त्रिभुवननिन्दनीया निरनुरोधा निष्परिचया दुर्ग्रहा प्रकतिर्मर्त्यानाम्, येषामकाण्डविसंवादिन्यः प्रीतयो न गणयन्ति निकारणवत्सलताम् । एवं गच्छता मयात्मनो नीतः स्नेहः कपटकूटजालिकताम् । प्रापिता भक्तिरलीककाकुकरणकुशलताम् । पातितमुपचारमात्रमधुरं धूर्ततायामात्मार्पणम् । प्रकटितं वाङ्मनसयोर्भिन्नार्थत्वम् । आस्तां तावदात्मा । अस्थानाहितप्रसादा दिव्ययोग्या देव्यपि वक्तव्यतां नीता । जनयन्ति हि पश्चाद्वैलक्ष्यमभूमिपातिता व्यर्थाः प्रसादामृतवृष्टयो महताम् । न खलु तथा देवी प्रति प्रबललज्जातिभारमन्थरं मे हृदयम्, यथा महाश्वेतां प्रति । नियतमेनामलीकाध्यारोपणवर्णितास्मद्गणसंभाराम् अस्थानपक्षपातिनीम् असकृदुपालप्स्यते देवी । तत्किं करोमि । गरीयसी गुरोराज्ञा प्रभवति देहमात्रकस्य । हृदयेन तु हेमकूटनिवासव्यसनिना लिखितं जन्मान्तरसहस्रस्य दास्यपत्रं देव्याः । सर्वथा गतोऽस्मि पितुरादेशादुज्जयिनीम् । प्रसङ्गतोऽसज्जनकथाकीर्तनेषु स्मर्तव्यः खलु चन्द्रापीडचण्डालः । मा चैवं मंस्थाः, यथा — जीवन्पुनर्देवीचरणारविन्दवन्दनानन्दमननुभूय स्थास्यति चन्द्रापीडः’ इति । महाश्वेतायाश्च सप्रदक्षिणं शिरसा पादौ वन्दनीयौ । मदलेखायाश्च कथनीयः प्रणामपूर्वमशिथिलः कण्ठग्रहः । गाढमालिङ्गनीया च तमालिका । अस्मद्वचनादशेषः प्रष्टव्यः कुशलं कादम्बरीपरिजनः । रचिताञ्जलिना च भगवानामन्त्रणीयो हेमकूटः ” इति ॥
एवमादिश्य तम्, ‘ सुहृदादिसाधनमक्लेशयता शनैः शनैर्गन्तव्यम् ’ इत्युक्त्वा वैशम्पायनं स्कन्धावारभरे न्ययुङ्क्त । स्वयमपि च तथारूढ एव कान्तकुन्तलतावनवाहिना तरुणतुरगप्रायेणाश्वसैन्येनानुगम्यमानः, तमेव लेखहारकं पर्याणलग्नम् अभिनवकादम्बरीवियोगशून्येनापि हृदयेनोज्जयिनीवार्तां पृच्छन् प्रतस्थे ॥
क्रमेण च गजपतिपातितपादपपरिहारवक्रीकृतमार्गया, जनजनिततृणपर्णकाष्ठकोटिकूटप्रकटितवीरपुरुषघातस्थानया, महापादपमूलोत्कीर्णकान्तारदुर्गया, अध्वगोत्खातवालुकाकूपकोपलभ्यमानकलुषस्वल्पसलिलाभिः शुष्कगिरिनदिकाभिर्विषमीकृतान्तरालया, कुक्कुटकुलकौलेयकरटितानुमीयमानगुल्मगहनग्रामटिकया शून्यया दिवसमटव्या गत्वा, परिणते रविबिम्बे,बिम्बारुणातपविसरे वासरे,
क्रमेण च गजपतिपातितपादपपरिहारवक्रीकृतमार्गया, जनजनिततृणपर्णकाष्ठकोटिकूटप्रकटितवीरपुरुषघातस्थानया, महापादपमूलोत्कीर्णकान्तारदुर्गया, अध्वगोत्खातवालुकाकूपकोपलभ्यमानकलुषस्वल्पसलिलाभिः शुष्कगिरिनदिकाभिर्विषमीकृतान्तरालया, कुक्कुटकुलकौलेयकरटितानुमीयमानगुल्मगहनग्रामटिकया शून्यया दिवसमटव्या गत्वा, परिणते रविबिम्बे,बिम्बारुणातपविसरे वासरे,
हरितालकपिलपक्कवेणुविटपिदलरचितवृतिभिर्मृगभयकृततृणपुरुषकैर्विपाकपाण्डुभिः फलिनैः प्रियङ्गुप्रायैरटवीक्षेत्रैर्विरलीकृतवनप्रदेशे चिरप्ररूढस्य रक्तचन्दनतरोरुपरि बद्धम्, जिह्वालतालोहिनीभी रक्तपताकाभिः केशकलापकान्तिना च कृष्णचामरावचूलेन प्रत्यग्रविशसितानां जीवानामिवावयवैरुपरचितदण्डमण्डनम्, परिणतवराटकघटितबुद्बुदार्धचन्द्रखण्डखचितम्, दोलायितशृङ्गसङ्गिलोहशृङ्खलावलम्बमानघर्घररवघोरघण्टया च घटितकेसरिसटारुचिरचामरया काञ्चनत्रिशूलिकया लिखितनभःस्थलम्, इतस्ततः पथिकपुरुषोपहारमार्गमिवालोकयन्तम्, महान्तं रक्तध्वजं दूरत एव ददर्श ॥
तदभिमुखश्च किंचिदध्वानं गत्वा, केतकीसूचिखण्डपाण्डुरेण वनद्विरददन्तकपाटेन परिवृताम्, लोहतोरणेन च रक्तचामरालिपरिकरां कालायसदर्पणमण्डलमालां बिभ्राणेन सनाथीकृतद्वारदेशाम्,
तदभिमुखश्च किंचिदध्वानं गत्वा, केतकीसूचिखण्डपाण्डुरेण वनद्विरददन्तकपाटेन परिवृताम्, लोहतोरणेन च रक्तचामरालिपरिकरां कालायसदर्पणमण्डलमालां बिभ्राणेन सनाथीकृतद्वारदेशाम्,
अभिमुखप्रतिष्ठितेन च विनिहितरक्तचन्दनहस्तकतया रुधिरारुणयमकरतलास्फालतेनेव शोणितलवलोभलोलशिवालिह्यमानलोहितलोचनेन लोहमहिषेण अध्यासिताञ्जनशिलावेदिकाम्, क्वचिदङ्कुरितामिव कुटिलहरिणविषाणकोटिकूटैः पल्लवितामिव सरसजिह्वाच्छेदशतैः कुसुमितामिव रक्तनयनसहस्रैः फलितामिव मुण्डमण्डलैरुपहारहिंसां दर्शयन्तीम्, शाखान्तरालनिरन्तरनिलीनरक्तकुक्कुटकुलैश्च भयादकालदर्शितकुसुमस्तबकैरिव रक्ताशोकविटपैर्विभूषिताङ्गणाम्, अवलम्बमानदीपधूमरक्तांशुकेन ग्रथितशिखिगलवलयावलिना पिष्टपिण्डपाण्डुरितघनघण्टामालभारिणा त्रापुषसिंहमुखम् अध्यस्थितस्थूललोहकण्टकदत्तदन्तदण्डार्गलं लसत्पीतनीललोहितदर्पणस्फुरितबुद्बुदमालं कपाटपट्टद्वयं दधानेन गर्भगृहद्वारदेशेन दीप्यमानाम्, पतितकृष्णचामरप्रतिबिम्बानां च शिरश्छेदलग्नकेशजालकानामिव परशुपट्टिशप्रभृतीनां जीवविशसनशस्त्राणां प्रभाभिर्वद्धबहलान्धकारतया पातालनिवासिनीमिवोपलक्ष्यमाणाम्, रक्तचन्दनखचितस्फुरत्फलपल्लवकलितैश्च बिल्वपत्रदामभिर्बालकमुण्डप्रालम्बैरिव कृतमण्डनाम्, प्रलम्बकूर्चधरैश्छागैरपि धृतव्रतैरिव कृष्णाजिनप्रावृताङ्गैः कुरङ्गैरपि प्रतिशयितैरिव ज्वलितलोहितमूर्धरत्नरश्मिभिः कृष्णसर्पैरपि शिरोधृतमणिदीपकैरिवाराध्यमानाम् ,
तदभिमुखश्च किंचिदध्वानं गत्वा, केतकीसूचिखण्डपाण्डुरेण वनद्विरददन्तकपाटेन परिवृताम्, लोहतोरणेन च रक्तचामरालिपरिकरां कालायसदर्पणमण्डलमालां बिभ्राणेन सनाथीकृतद्वारदेशाम्,
प्रलम्बकूर्चधरैश्छागैरपि धृतव्रतैरिव कृष्णाजिनप्रावृताङ्गैः कुरङ्गैरपि प्रतिशयितैरिव ज्वलितलोहितमूर्धरत्नरश्मिभिः कृष्णसर्पैरपि शिरोधृतमणिदीपकैरिवाराध्यमानाम् ,
सर्वतः कठोरं वायसगणेन च रटता स्तुतिपरेणेव स्तूयमानाम्, स्थूलस्थूलैः सिराजालकैर्गोधागोलिकाकृकलासकुलैरिव दग्धस्थाण्वाशङ्कया समारूढैर्गवाक्षितेन, अलक्ष्मीसमुत्खातलक्षणस्थानैरिव विस्फोटव्रणबिन्दुभिः कल्माषितसकलशरीरेण, अम्बिकापादपतनश्यामललाटवर्धमानार्बुदेन, कुवादिदत्तसिद्धाञ्जनस्फुटितैकलोचनतया त्रिकालमितरलोचनाञ्जनदानादरश्लक्ष्णीकृतदारुशलाकेन, प्रत्यहं कटुकालाबुस्वेदप्रारब्धदन्तुरताप्रतीकारेण, कथंचिदस्थानदत्तेष्टकाप्रहारतया शुष्कैकभुजोपशान्तमर्दनव्यसनेन, सूचीस्यूतसिरासंकोचितवामकराङ्गुलिना, असम्यक्कृतरसायनानीताकालज्वरेण, जरां गतेनापि दक्षिणापथाधिराज्यवरप्रार्थनाकदर्थितदुर्गेण, दुःशिक्षितश्रमणादिष्टतिलकाबद्धविभवप्रत्याशेन, हरितपत्ररसाङ्गारमषीमलिनशम्बूकवाहिना, पट्टिकालिखितदुर्गास्तोत्रेण, धूमरक्तालक्तकाक्षरतालपत्रकुहकतन्त्रमन्त्रपुस्तिकासङ्ग्राहिणा, जीर्णमहापाशुपतोपदेशलिखितमहाकालमतेन, आविर्भूतनिधिवादव्याधिना, सञ्जातधातुवादवायुना, लग्नासुरविवरप्रवेशपिशाचेन, प्रवृत्तयक्षकन्यकाकामित्वमनोरथव्यामोहेन, वर्धितान्तर्धानमन्त्रसाधनसङ्ग्रहेण, श्रीपर्वताश्चर्यवार्तासहस्राभिज्ञेन, असकृदभिमन्त्रितसिद्धार्थकप्रहतिप्रधावितैः पिशाचगृहीतकैः करतलताडनचिपिटीकृतश्रवणपुटेन,
तदभिमुखश्च किंचिदध्वानं गत्वा,
असकृदभिमन्त्रितसिद्धार्थकप्रहतिप्रधावितैः पिशाचगृहीतकैः करतलताडनचिपिटीकृतश्रवणपुटेन,
अविमुक्तशैवाभिमानेन, दुर्गृहीतालाबुवीणावादनोद्वेजितपथिकपरिहृतेन, दिवसमेव मशकक्वणितानुकारि किमपि कम्पितोत्तमाङ्गं गायता, स्वदेशभाषानिबद्धभागीरथीभक्तिस्तोत्रनर्तकेन, गृहीततुरगब्रह्मचर्यतयान्यदेशागतोषितासु जरत्प्रव्रजितासु बहुकृत्वः संप्रयुक्तस्त्रीवशीकरणचूर्णेन, अतिरोषणतया कदाचिद्दुर्न्यस्ताष्टपुष्पिकापातोत्पादितक्रोधेन चण्डिकामपि मुखभङ्गिविकारैः भृशमुपहसता, कदाचिन्निवार्यमाणावास-रुषिताध्वगारब्ध-बहुबाहुयुद्ध-पातभग्नपृष्ठकेन, कदाचित् कृतापराध-बालक-पलायनामर्ष-पश्चात्प्रधावित-स्खलिताधोमुख-निपातोपल-स्फुटित-शिरः-कपाल-भुग्न-ग्रीवेण, कदाचिज्जनपदकृतनवागतापरधार्मिकादरमत्सरोद्बद्धात्मना, निःसंस्कारतया यत्किञ्चनकारिणा, खञ्जतया मन्दं मन्दं संचारिणा, बधिरतया संज्ञाव्यवहारिणा, रात्र्यन्धतया दिवाविहारिणा, लम्बोदरतया प्रभूताहारिणा, अनेकशः फलपातनकुपितवानरनखोल्लेखच्छिद्रितनासापुटेन, सहस्रशः शयनीकृतासंस्कृतशून्यदेवकुलकालसर्पदष्टेन, सर्वदा वसन्तक्रीडिना जनेनोत्क्षिप्तखण्डखट्वारोपितवृद्धदासीविवाहप्राप्तविडम्बनेन, अनेकायतनप्रतिशयितनिष्फलोत्थानेन, मूर्खतामपि बहुव्यसनानुगतां प्रसूतानेकापत्यामिव दर्शयता, क्लेशमपि सर्वावयवज्वलितदीपिकादाहव्रणविभावितं बहुमुखमिव प्रकटयता, शुष्कवनलतानिर्मितबृहत्कुसुमकरण्डकेन, वेणुलतारचितपुष्पपातनाङ्कुशिकेन, क्षणमप्यमुक्तकालकम्बलखण्डखोलेन,जरद्द्रविडधार्मिकेणाधिष्ठितां चण्डिकामपश्यत् । तस्यामेव च वासमरचयत् ॥
अथावतीर्य तुरगात्, प्रविश्य भक्तिप्रवणेन चेतसा तां प्रणनाम । कृतप्रदक्षिणश्च पुनः प्रणम्य, प्रशान्तोद्देशदर्शनकुतूहलेन परिभमन्, उचैरारटन्तमाक्रोशन्तं च कुपितं द्रविडधार्मिकमेकदेशे ददर्श । दृष्ट्वा च कादम्बरीविरहोत्कण्ठोद्वेगदूयमानोऽपि सुचिरं जहास । न्यवारयच्च तेन सार्धं संरब्धकलहानुपहसतः स्वसैनिकान् । उपसान्त्वनैश्च कथमपि प्रियालापशतानुनयैः प्रशममुपनीय, क्रमेण जन्मभूमि जाति विद्यां च कलत्रमपत्यानि विभवं वयःप्रमाणं प्रव्रज्यायाश्च कारणं स्वयमेव पप्रच्छ । पृष्टश्चासाववर्णयदात्मानम् । अतीतस्वशौर्यरूपविभववर्णनवाचालेन तेन सुतरामरज्यत राजपुत्रः । विरहातुरहृदयस्य तच्चरितं विनोदनतामिवागात् । उपजातपरिचयश्चास्मै ताम्बूलमदापयत् ॥
अस्तमुपगते च भगवति सप्तसतौ, क्षितितललुठनपांसुलसटावधूननानुमितोत्साहेषु पीतोदकेषु स्नानार्द्रपृष्ठतया विगतश्रमेषु पुरोनिखातकुन्तयष्टिषु संयतेषु वाजिषु, चन्द्रापीडः परिजनेनैकदेशे संयतस्येन्द्रायुधस्य पुरः परिकल्पितं प्रतीहारनिवेदितं शयनीयमगात् । निषण्णस्य चास्य तत्क्षणमेव पस्पर्श दुःखासिका हृदयम् । अरतिगृहीतश्च विसर्जयांबभूव राजलोकम् । अतिवल्लभानपि नाललाप पार्श्वस्थान् । निमीलितलोचनो मुहुर्मुहुर्मनसा जगाम किंपुरुषविषयम् । अनन्यचेताः सस्मार हेमकूटस्य । निष्कारणबान्धवताम् अचिन्तयन्महाश्वेताप्रसादानाम् । जीवितफलमभिललाष पुनः पुनः कादम्बरीदर्शनम् । अपगताभिमानपेशलाय नितरामस्पृहयन्मदलेखापरिचयाय । तमालिकां द्रष्टुमाचकाङ्क्ष । केयूरकागमनमुत्प्रैक्षत । हिमगृहकमपश्यत् । उष्णमायतं पुनरुक्तं निशश्वास । बबन्ध चाधिकां प्रीति शेषहारे । पश्चात्स्थितां पुण्यभागिनीममन्यत पत्रलेखाम् । एवं चानुपजातनिद्र एव तामनयन्निशाम् । उपसि चोत्थाय, तस्य जरद्द्रविडधार्मिकस्येच्छया निसृष्टैर्धनविसरैः पूरयित्वा मनोरथमभिमतम्, अभिरमणीयेषु प्रदेशेषु निवसन्, अल्पैरेवाहोभिः उज्जयिनीमाजगाम ॥
आकस्मिकागमनप्रहृष्टसंभ्रान्तानां पौराणां नमस्काराञ्जलिसहस्राणि प्रतीच्छन्, अतर्कित एव विवेश नगरीम् । अहमहमिकया च प्रधावितादतिरभसहर्षरसविह्वलात्परिजनात् ‘ द्वारि देव, चन्द्रापीडो वर्तते ’ इत्युपलभ्य, अस्य पिता प्रहर्शनेत्रजलबिन्दुवर्षी, प्रत्यासन्नवर्तिभिः प्रतिपन्नासिवेत्रच्छत्रकेतुचामरैरनुगम्यमानो राजसहस्रैः, चरणाभ्यामेव प्रत्युज्जगाम । दृष्ट्वा च पितरम्, दूरादेवावतीर्य वाजिनः, चूडामणिमरीचिमालिना मौलिना महीमगच्छत् । अथ प्रसारितभुजेन ‘ एह्येहि ’ इत्याहूय पित्रा सुचिरं गाढमुपगूढः, तत्कालसन्निहितानां च माननीयानां कृतनमस्कारः करे गृहीत्वा विलासवतीभवनमनीयत राज्ञा । तयापि तथैव सर्वान्तःपुरपरिवारया प्रत्युद्गम्याभिनन्दितागमनः, कृतागमनमङ्गलाचारः, दिग्विजयसंबद्धाभिरेव कथाभिः कञ्चित्कालं स्थित्वा शुकनासं द्रष्टुम् आययौ । तत्राप्यमुनैव क्रमेण सुचिरं स्थित्वा, निवेद्य वैशम्पायनं स्कन्धावारवर्तिनं कुशलिनम्, आलोक्य च मनोरमाम्, आगत्य विलासवतीभवन एव सर्वाः स्नानादिकाः परवश एव क्रिया निरवर्तयत् । अपराह्णे निजमेव भवनमयासीत् । तत्र च रणरणकखिद्यमानमानसः, कादम्बर्या विना न केवलमात्मानं स्वभवनमवन्तिनगरं सकलमेव महीमण्डलं शून्यम् अमन्यत । ततो गन्धर्वराजपुत्रीवार्ताश्रवणोत्सुकश्च महोत्सवमिवेप्सितवरप्राप्तिकालमिव पत्रलेखागमनं प्रत्यपालयत् ॥
ततः कतिपयदिवसापगमे मेघनादः पत्रलेखामादायागच्छत् । उपानयच्चैनाम् । कृतनमस्कारां च दूरादेव स्मितेन प्रकाशितप्रीतिश्चन्द्रापीडः, प्रकृतिवल्लभामपि कादम्बरीसकाशात् प्रसादलब्धापरसौभाग्यामिव वल्लभतरताम् उपागताम् उत्थायातिशयदर्शितादरम् आलिलिङ्ग पत्रलेखाम् । मेघनादं च प्रणतं पृष्ठे करकिसलयेन पस्पर्श । समुपविष्टश्चाब्रवीत् — ‘ पत्रलेखे, कथय — तत्रभवत्या महाश्वेतायाः संमदलेखाया देव्याः कादम्बर्याश्च कुशलम् ? कुशली वा सकलस्तमालिकाकेयूरकादिः परिजनः?’ इति । साब्रवीत् — ‘ देव, यथाज्ञापयसि, भद्रम् । त्वामर्चयति शेखरीकृताञ्जलिना ससखीजना सपरिजना देवी कादम्बरी ’ इत्येवमुक्तवतीं पत्रलेखामादाय, मन्दिराभ्यन्तरं विसर्जितराजलोको विवेश । तत्र चोत्ताम्यता मनसा धारयितुमपारयन् कुतूहलमतिप्रीत्या, दूरमुत्सारितपरिजनः प्रविश्य, कस्यचित् पत्रमण्डपस्य तले चरणारविन्देन समुत्सार्य सुखप्रसुप्तं हंसमिथुनमुपविश्याप्राक्षीत् — ‘ पत्रलेखे, कथय — कथमसि स्थिता ? कियन्ति वा दिनानि ? कीदृशो वा देवीप्रसादः ? का वा गोष्ठ्यः समभवन् ? कीदृश्यो वा कथाः समजायन्त ? को वातिशयेनास्मान्स्मरति ? कस्य वा गरीयसी प्रीतिः ? ’ इत्येवं पृष्टा च व्यजिज्ञपत् — ‘ देव,दत्तावधानेन श्रूयताम् — ततः खल्वागते देवे, केयूरकेण सह प्रतिनिवृत्याहं तथैव कुसुमशयनीयसमीपे समुपाविशम् । अतिष्ठं च सुखं नवनवाननुभवन्ती देवीप्रसादान् । किं बहुना । प्रायेण मम चक्षुषि चक्षुः, वपुषि वपुः, करे करपल्लवः, नामाक्षरेषु वाणी, प्रीतौ हृदयम्, देव्याः सकलमेव तं दिवसमभवत् । अपराह्णे च मामेवावलम्ब्य, निष्क्रम्य हिमगृहकात्, सञ्चरन्ती यदृच्छया निषिद्धपरिजना वल्लभबालोद्यानं जगाम । तत्र सुधाधवलां मरकतसोपानमालया प्रमदवनवेदिकाम् अध्यारोहत् । तस्यां च मणिस्थूणावष्टम्भा स्थिता । स्थित्वा च मुहूर्तमिव हृदयेन
सह दीर्घकालमवधार्य, किमपि व्याहर्तुमिच्छन्ती, निश्चलधृततारकेण निस्पन्दपक्ष्मणा चक्षुषा मुखं मे सुचिरं व्यलोकयत् ॥
अथ मया विदिताभिप्रायया ‘ आज्ञापय ’ इति विज्ञापिते, निजावयवैरपि वेपथुमद्भिर्निवार्यमाणेव, रहस्यश्रवणलज्जयात्मप्रतिमामपि लिखितमणिकुट्टिमेन चरणाङ्गष्ठेनापक्रमायेवामृशन्ती, वनदेवताश्रवणशङ्कितेव मुहुर्मुहुरितस्ततो विलोकयन्ती, वक्तुकामापि न शक्नोति स्म किञ्चिदपि लज्जाकलितगद्गदा गदितुम् । केवलं दुःखसहस्रगणनाय मुक्ताक्षमालिकामिव कल्पयन्ती गलद्भिरस्पृष्टकपोलस्थलैः शुचिभिरधोमुखी नयनजलबिन्दुभिर्दुर्दिनमदर्शयत् । तदा च तस्याः सकाशादशिक्षतेव लज्जापि लज्जालीलाम्, विनयोऽपि विनयातिशयम्, मुग्धतापि मुग्धताम्, वैदग्ध्यमपि वैदग्ध्यम्, भयमपि भीरुताम्, विलासोऽपि विलासम् । तथाभूता च ‘ देवि, किमिदम् ’ इति विज्ञापिता मया, प्रमृज्य लोहितायमानोदरे लोचने, वेदिकाकुसुमपालिकाग्रथितकुसुममालाम् अवलम्ब्य, समुन्नतैकभ्रूलता मृत्युमार्गमिवालोकयन्ती, दीर्घमुष्णं च निःश्वसितवती । तद्दुःखकारणमुप्रेक्षमाणया च कथनाय पुनः पुनरनुवध्यमाना मया, व्रीडया नखमुखलिखितकेतकीदला लिखित्वेव वक्तव्यमर्पयन्ती, विवक्षास्फुरिताधरा क्षिततलनिहितनिश्चलनयना सुचिरमतिष्ठत् ॥
क्रमेण च भूयो मन्मुखे निधाय दृष्टिम्, कथमपि व्याहाराभिमुखमात्मानमकरोत् । अब्रवीच्च माम् — ‘ पत्रलेखे, वल्लभतया तस्मिन्स्थाने न तातः, नाम्बा, न महाश्वेता, न मदलेखा, न जीवितम्, यत्र मे भवती । दर्शनात्प्रभृति प्रियासि । न जाने, केनापि कारणेनापहस्तितसकलसखीजनं त्वयि विश्वसिति मे हृदयम् । कमपरमुपालभे । कस्य वान्यस्य कथयामि परिभवम् । केन वान्येन सह साधारणीकरोमि दुःखम् । दुःखभारमिममसह्यं निवेद्य भवत्यास्त्यक्ष्यामि जीवितम् । जीवितेनैव शपामि ते । स्वहृदयेनापि विदितवृत्तान्तेनामुना जिह्रेमि, किमुतापरहृदयेन । कथमिव मादृशी रजनिकरकिरणावदातं कौलीनेन कुलं कलङ्कयिष्यति । कुलक्रमागतां च लज्जांं परित्यक्ष्यति । अकन्यकोचिते वा चापले चेतः प्रवर्तयिष्यति । साहं न सङ्कल्पिता पित्रा । न दत्ता मात्रा । नानुमोदिता गुरुभिः । न किञ्चित् सन्दिशामि । न किंचित्प्रेषयामि । नाकारं दर्शयामि । कातरेवानाथेव बलादवलिप्तेन गुरुगर्हणीयतां नीता कुमारेण चन्द्रापीडेन । कथय, महतां किमयमाचारः ? किं परिचयस्येदं फलम् ? यदेवम् अभिनवबिसकिसलयतन्तुसुकुमारं मे मनः परिभूयते । अपरिभवनीयो हि कुमारिकाजनो यूनाम् । प्रायेण प्रथमं मदनानलो लज्जां दहति, ततो हृदयम् । आदौ विनयादिकं कुसुमेषुशराः खण्डयन्ति, पश्चान्मर्माणि। तदामन्त्रये भवतीं पुनर्जन्मान्तरसमागमाय । न हि मे त्वत्तोऽन्या प्रियतरा । प्राणपरित्यागप्रायश्चित्ताचरणेन प्रक्षालयाम्यात्मनः कलङ्कम् ’ इत्यभिधाय तूष्णीमभूत् ॥
अहं तु यत्सत्यमनिदितवृत्तान्ततया ह्रीतेव भीतेव विलक्षेव विसंज्ञेव सविषादं विज्ञापितवती — ‘ देवि, श्रोतुमिच्छामि । आज्ञापय — किं कृतं देवेन चन्द्रापीडेन । को वापराधः समजनि । केन वा खल्वविनयेन खेदितमखेदनीयं देव्याः कुमुदकोमलं मनः । श्रुत्वा प्रथममुत्सृष्टजीवितायां मयि, पश्चात्समुत्स्रक्ष्यसि जीवितम् ’ इत्येवमभिहिता च पुनरवदत् — ‘ आवेदयामि ते । अवहिता शृणु । स्वप्नेषु प्रतिदिवसमागत्यागत्य मे रहस्यसंदेशेषु निपुणधूर्तः पञ्जरशुकशारिका दूतीः करोति । सुप्तायाः श्रवणदन्तपत्रोदरेषु व्यर्थमनोरथमोहितमानसः सङ्केतस्थानानि लिखति । उपवनेष्वेकाकिन्या ग्रहणभयपलायमानायाः पल्लवलग्नांशुकदशाप्रतिहतगमनाया मिथ्याप्रगल्भः पराङ्मुख्याः परिष्वङ्गमाचरति । शीतलैर्मुखमरुद्भिः श्रमजलशीकरतारकितावलीकचाटुकारः कपोलौ वीजयति । भवनाशोकताडनोद्यतान्पादप्रहारान्दुर्बुद्धिविडम्बितः शिरसा प्रतीच्छति । मन्मथमूढमानसश्च कथय, हे पत्रलेखे, केन प्रकारेण निश्चेतनो निषिध्यते। प्रत्याख्यानमपीर्ष्यां संभावयति । आक्रोशमपि परिहासमाकलयति । असंभाषणमपि मानं मन्यते । दोषसंकीर्तनमपि स्मरणोपायमवगच्छति । अवज्ञानमप्यनियन्त्रणप्रणयमुत्प्रेक्षते । लोकापवादमपि यशो गणयति ’ इति ॥
तामेवंवादिनीमाकर्ण्य, प्रहर्षरसनिर्भरा विहस्याब्रवम् — ‘ देवि, यद्येवम्, उत्सृज कोपम् । प्रसीद । नार्हसि कामापराधैर्देवं दूषयितुम् । एतानि खलु कुसुमचापस्य चापलानि शठस्य न देवस्य ’ इत्येवमुक्तवती मां पुनः सकुतूहला सा प्रत्यभाषत — ‘ योऽयं काम:, कोऽपि वा, कथय, कानि कान्यस्य रूपाणि ’ इति । तामहं व्यजिज्ञपम् — ‘ देवि, कुतोऽस्य रूपम्। अतनुरेष हुताशनः । तथा हि — अप्रकाशयन् ज्वालावली: संतापं जनयति। अप्रकटयन् धूमपटलमश्रु पातयति । न च तद्भतमेतावति त्रिभुवने, अस्य शरशरव्यां यन्न यातं याति यास्यति वा । को वास्य भ्रश्यति । गृहीतकुसुमकार्मुको बाणैर्बलवन्तमपि विध्यति । अपि चानेनाधिष्ठितानां कामिनीनां पश्यन्तीनां चिन्तया प्रियमुखचन्द्रसहस्राणि, सङ्कटमम्बरतलम् ; लिखन्तीनां दयिताकारान् ,अविस्तीर्णं महीमण्डलम् ; गणयन्तीनां वल्लभगुणान्, अल्पीयसी संख्या ; शृण्वतीनां प्रियकथाम्, अबहुभाषिणी सरस्वती ; ध्यायन्तीनां प्राणसमसमागमशतानि, ह्रसीयान् कालो हृदयस्यापतति ’ इति ॥
एतदाकर्ण्य च, क्षणं विचिन्त्य, प्रत्यवादीत् — ‘ पत्रलेखे, यथा कथयसि, तथा जनोऽयं कारितः कुमारे पक्षपातं पञ्चेषुणा । यान्यस्यैतानि रूपाणि, समधिकानि वा, तानि मयि वर्तन्ते । हृदयादव्यतिरिक्तासि । इदानी भवतीमेव पृच्छामि । उपदिश त्वम्, यदत्र मे साम्प्रतम् । एवंविधानां वृत्तान्तानामनभिज्ञास्मि । अपि च, मे गुरुजनवक्तव्यतां नीताया नितरां लज्जिताया जीवितान्मरणमेव श्रेयः पश्यति हृदयम् ’ इति ॥
एवंवादिनीं भूयस्तामहमेवमोचम् — ‘ अलमलमिदानीं देवि, किमनेन अकारणमरणानुबन्धेन । अनाराधितप्रसन्नकुसुमशरेण भगवता ते वरो दत्तः । का चात्र गुरुजनवक्तव्यता ? यदा खलु कन्यकां गुरुरिव पञ्चशरः सङ्कल्पयति, मातेवानुमोदते, पितेव ददाति, सखीवोत्कण्ठां जनयति, धात्रीव तरुणतायां रत्युपचारं शिक्षयति । कति वा कथयामि ते, याः स्वयं वृतवत्यः पतीन् । यदि च नैवम्, अनर्थक एव तर्हि धर्मशास्त्रोपदिष्टः स्वयंवरविधिः । तत्प्रसीद । देवि, अलममुना मरणानुबन्धेन । शपे ते पादपङ्कजस्पर्शन । सन्दिश, प्रेषय माम् । यामि, आनयामि देवि, ते हृदयदयितम् ’ इति ॥
एवमुक्ते मया प्रीतिद्रवार्द्रया दृष्ट्या पिबन्तीव मां प्रहर्षविह्वलान्तःकरणापि कन्यकाजनसहजां लज्जामिवावलम्ब्य शनैरवदत् — ‘ जानामि ते गरीयसी प्रीतिम् । केवलमकठोरशिरीषपुष्पमृदुप्रकृतेः कुतः प्रागल्भ्यमेतावन्नारीजनस्य, विशेषतो बालभावभाजः कुमारीलोकस्य । मन्ये साहसकारिण्यस्ताः, याः स्वयं सन्दिशन्ति समुपसर्पन्ति वा । स्वयं साहसं सन्दिशन्ती बाला जिह्रेमि । किं वा सन्दिशामि ? अतिप्रियोऽसीति, पौनरुक्त्यम् । तवाहं प्रियात्मेति, जडप्रश्नः । त्वयि गरीयाननुराग इति, वेश्यालापः । त्वया विना न जीवामीति, अनुभवविरोधः । अवश्यमागन्तव्यमिति, सौभाग्यगर्वः । स्वयमागच्छामीति, स्त्रीचापलम् । अनन्यरक्तोऽयं परिजन इति, स्वभक्तिनिवेदनलाघवम् । प्रत्याख्यानशङ्कया न संदिशामीति अप्रबुद्धबोधनम् । ज्ञास्यसि मरणेन प्रीतिमिति, असंभाव्यमेव ॥
॥ इति कादम्बरीसंग्रहे पूर्वभागः समाप्तः ॥