Skip to main content
Search
Ch. 1 KD 1.263
Full Chapter
KD • Chapter 1: Complete Text

KD 263

Canonical Ref: KD 263
Sanskrit (Devanāgarī)
अहं तु यत्सत्यमनिदितवृत्तान्ततया ह्रीतेव भीतेव विलक्षेव विसंज्ञेव सविषादं विज्ञापितवती — ‘ देवि, श्रोतुमिच्छामि । आज्ञापय — किं कृतं देवेन चन्द्रापीडेन । को वापराधः समजनि । केन वा खल्वविनयेन खेदितमखेदनीयं देव्याः कुमुदकोमलं मनः । श्रुत्वा प्रथममुत्सृष्टजीवितायां मयि, पश्चात्समुत्स्रक्ष्यसि जीवितम् ’ इत्येवमभिहिता च पुनरवदत् — ‘ आवेदयामि ते । अवहिता शृणु । स्वप्नेषु प्रतिदिवसमागत्यागत्य मे रहस्यसंदेशेषु निपुणधूर्तः पञ्जरशुकशारिका दूतीः करोति । सुप्तायाः श्रवणदन्तपत्रोदरेषु व्यर्थमनोरथमोहितमानसः सङ्केतस्थानानि लिखति । उपवनेष्वेकाकिन्या ग्रहणभयपलायमानायाः पल्लवलग्नांशुकदशाप्रतिहतगमनाया मिथ्याप्रगल्भः पराङ्मुख्याः परिष्वङ्गमाचरति । शीतलैर्मुखमरुद्भिः श्रमजलशीकरतारकितावलीकचाटुकारः कपोलौ वीजयति । भवनाशोकताडनोद्यतान्पादप्रहारान्दुर्बुद्धिविडम्बितः शिरसा प्रतीच्छति । मन्मथमूढमानसश्च कथय, हे पत्रलेखे, केन प्रकारेण निश्चेतनो निषिध्यते। प्रत्याख्यानमपीर्ष्यां संभावयति । आक्रोशमपि परिहासमाकलयति । असंभाषणमपि मानं मन्यते । दोषसंकीर्तनमपि स्मरणोपायमवगच्छति । अवज्ञानमप्यनियन्त्रणप्रणयमुत्प्रेक्षते । लोकापवादमपि यशो गणयति ’ इति ॥
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 263. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 262) All Verses in Chapter 1 Next Verse (KD 264) →