Skip to main content
Search
Ch. 1 KD 1.255
Full Chapter
KD • Chapter 1: Complete Text

KD 255

Canonical Ref: KD 255
Sanskrit (Devanāgarī)
अविमुक्तशैवाभिमानेन, दुर्गृहीतालाबुवीणावादनोद्वेजितपथिकपरिहृतेन, दिवसमेव मशकक्वणितानुकारि किमपि कम्पितोत्तमाङ्गं गायता, स्वदेशभाषानिबद्धभागीरथीभक्तिस्तोत्रनर्तकेन, गृहीततुरगब्रह्मचर्यतयान्यदेशागतोषितासु जरत्प्रव्रजितासु बहुकृत्वः संप्रयुक्तस्त्रीवशीकरणचूर्णेन, अतिरोषणतया कदाचिद्दुर्न्यस्ताष्टपुष्पिकापातोत्पादितक्रोधेन चण्डिकामपि मुखभङ्गिविकारैः भृशमुपहसता, कदाचिन्निवार्यमाणावास-रुषिताध्वगारब्ध-बहुबाहुयुद्ध-पातभग्नपृष्ठकेन, कदाचित् कृतापराध-बालक-पलायनामर्ष-पश्चात्प्रधावित-स्खलिताधोमुख-निपातोपल-स्फुटित-शिरः-कपाल-भुग्न-ग्रीवेण, कदाचिज्जनपदकृतनवागतापरधार्मिकादरमत्सरोद्बद्धात्मना, निःसंस्कारतया यत्किञ्चनकारिणा, खञ्जतया मन्दं मन्दं संचारिणा, बधिरतया संज्ञाव्यवहारिणा, रात्र्यन्धतया दिवाविहारिणा, लम्बोदरतया प्रभूताहारिणा, अनेकशः फलपातनकुपितवानरनखोल्लेखच्छिद्रितनासापुटेन, सहस्रशः शयनीकृतासंस्कृतशून्यदेवकुलकालसर्पदष्टेन, सर्वदा वसन्तक्रीडिना जनेनोत्क्षिप्तखण्डखट्वारोपितवृद्धदासीविवाहप्राप्तविडम्बनेन, अनेकायतनप्रतिशयितनिष्फलोत्थानेन, मूर्खतामपि बहुव्यसनानुगतां प्रसूतानेकापत्यामिव दर्शयता, क्लेशमपि सर्वावयवज्वलितदीपिकादाहव्रणविभावितं बहुमुखमिव प्रकटयता, शुष्कवनलतानिर्मितबृहत्कुसुमकरण्डकेन, वेणुलतारचितपुष्पपातनाङ्कुशिकेन, क्षणमप्यमुक्तकालकम्बलखण्डखोलेन,जरद्द्रविडधार्मिकेणाधिष्ठितां चण्डिकामपश्यत् । तस्यामेव च वासमरचयत् ॥
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 255. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 254) All Verses in Chapter 1 Next Verse (KD 256) →