Skip to main content
Search
Ch. 1 KD 1.242
Full Chapter
KD • Chapter 1: Complete Text

KD 242

Canonical Ref: KD 242
Sanskrit (Devanāgarī)
अथ ‘ यथाज्ञापयति तातः ’ इत्युक्त्वा, तथैव च तुरगाधिरूढः प्रयाणपटहमवादयत् । समीपे स्थितं च महताश्वीयेन परिवृतं महाबलाधिकृतं वलाहकपुत्रं मेघनादनामानमादिदेश — “भवता पत्रलेखया सहागन्तव्यम् । नियतं च केयूरकस्तामादायैतावतीं भूमिमागमिष्यति । तन्मुखेन च विज्ञाप्या प्रणम्य देवी कादम्बरी — ‘ नन्वियं सा त्रिभुवननिन्दनीया निरनुरोधा निष्परिचया दुर्ग्रहा प्रकतिर्मर्त्यानाम्, येषामकाण्डविसंवादिन्यः प्रीतयो न गणयन्ति निकारणवत्सलताम् । एवं गच्छता मयात्मनो नीतः स्नेहः कपटकूटजालिकताम् । प्रापिता भक्तिरलीककाकुकरणकुशलताम् । पातितमुपचारमात्रमधुरं धूर्ततायामात्मार्पणम् । प्रकटितं वाङ्मनसयोर्भिन्नार्थत्वम् । आस्तां तावदात्मा । अस्थानाहितप्रसादा दिव्ययोग्या देव्यपि वक्तव्यतां नीता । जनयन्ति हि पश्चाद्वैलक्ष्यमभूमिपातिता व्यर्थाः प्रसादामृतवृष्टयो महताम् । न खलु तथा देवी प्रति प्रबललज्जातिभारमन्थरं मे हृदयम्, यथा महाश्वेतां प्रति । नियतमेनामलीकाध्यारोपणवर्णितास्मद्गणसंभाराम् अस्थानपक्षपातिनीम् असकृदुपालप्स्यते देवी । तत्किं करोमि । गरीयसी गुरोराज्ञा प्रभवति देहमात्रकस्य । हृदयेन तु हेमकूटनिवासव्यसनिना लिखितं जन्मान्तरसहस्रस्य दास्यपत्रं देव्याः । सर्वथा गतोऽस्मि पितुरादेशादुज्जयिनीम् । प्रसङ्गतोऽसज्जनकथाकीर्तनेषु स्मर्तव्यः खलु चन्द्रापीडचण्डालः । मा चैवं मंस्थाः, यथा — जीवन्पुनर्देवीचरणारविन्दवन्दनानन्दमननुभूय स्थास्यति चन्द्रापीडः’ इति । महाश्वेतायाश्च सप्रदक्षिणं शिरसा पादौ वन्दनीयौ । मदलेखायाश्च कथनीयः प्रणामपूर्वमशिथिलः कण्ठग्रहः । गाढमालिङ्गनीया च तमालिका । अस्मद्वचनादशेषः प्रष्टव्यः कुशलं कादम्बरीपरिजनः । रचिताञ्जलिना च भगवानामन्त्रणीयो हेमकूटः ” इति ॥
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 242. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 241) All Verses in Chapter 1 Next Verse (KD 243) →