Skip to main content
Search
Ch. 1 KD 1.243
Full Chapter
KD • Chapter 1: Complete Text

KD 243

Canonical Ref: KD 243
Sanskrit (Devanāgarī)
एवमादिश्य तम्, ‘ सुहृदादिसाधनमक्लेशयता शनैः शनैर्गन्तव्यम् ’ इत्युक्त्वा वैशम्पायनं स्कन्धावारभरे न्ययुङ्क्त । स्वयमपि च तथारूढ एव कान्तकुन्तलतावनवाहिना तरुणतुरगप्रायेणाश्वसैन्येनानुगम्यमानः, तमेव लेखहारकं पर्याणलग्नम् अभिनवकादम्बरीवियोगशून्येनापि हृदयेनोज्जयिनीवार्तां पृच्छन् प्रतस्थे ॥
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 243. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 242) All Verses in Chapter 1 Next Verse (KD 244) →