Skip to main content
Search
Ch. 1 KD 1.258
Full Chapter
KD • Chapter 1: Complete Text

KD 258

Canonical Ref: KD 258
Sanskrit (Devanāgarī)
आकस्मिकागमनप्रहृष्टसंभ्रान्तानां पौराणां नमस्काराञ्जलिसहस्राणि प्रतीच्छन्, अतर्कित एव विवेश नगरीम् । अहमहमिकया च प्रधावितादतिरभसहर्षरसविह्वलात्परिजनात् ‘ द्वारि देव, चन्द्रापीडो वर्तते ’ इत्युपलभ्य, अस्य पिता प्रहर्शनेत्रजलबिन्दुवर्षी, प्रत्यासन्नवर्तिभिः प्रतिपन्नासिवेत्रच्छत्रकेतुचामरैरनुगम्यमानो राजसहस्रैः, चरणाभ्यामेव प्रत्युज्जगाम । दृष्ट्वा च पितरम्, दूरादेवावतीर्य वाजिनः, चूडामणिमरीचिमालिना मौलिना महीमगच्छत् । अथ प्रसारितभुजेन ‘ एह्येहि ’ इत्याहूय पित्रा सुचिरं गाढमुपगूढः, तत्कालसन्निहितानां च माननीयानां कृतनमस्कारः करे गृहीत्वा विलासवतीभवनमनीयत राज्ञा । तयापि तथैव सर्वान्तःपुरपरिवारया प्रत्युद्गम्याभिनन्दितागमनः, कृतागमनमङ्गलाचारः, दिग्विजयसंबद्धाभिरेव कथाभिः कञ्चित्कालं स्थित्वा शुकनासं द्रष्टुम् आययौ । तत्राप्यमुनैव क्रमेण सुचिरं स्थित्वा, निवेद्य वैशम्पायनं स्कन्धावारवर्तिनं कुशलिनम्, आलोक्य च मनोरमाम्, आगत्य विलासवतीभवन एव सर्वाः स्नानादिकाः परवश एव क्रिया निरवर्तयत् । अपराह्णे निजमेव भवनमयासीत् । तत्र च रणरणकखिद्यमानमानसः, कादम्बर्या विना न केवलमात्मानं स्वभवनमवन्तिनगरं सकलमेव महीमण्डलं शून्यम् अमन्यत । ततो गन्धर्वराजपुत्रीवार्ताश्रवणोत्सुकश्च महोत्सवमिवेप्सितवरप्राप्तिकालमिव पत्रलेखागमनं प्रत्यपालयत् ॥
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 258. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 257) All Verses in Chapter 1 Next Verse (KD 259) →