Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 06

Prakāśa 6: विभक्त्यर्थादिचतुष्टयप्रकाशः

प्रकाशः 6 • विभक्त्यर्थादिचतुष्टयप्रकाशः

Prakāśa 6 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 595 Verses • Citations: SP 6.1–595 • 4 Lexicon Terms • Page 17 of 20 (Verses 30 shown)
(श्‍लोवा. प्रत्य. १४०, ४१इति)
स्वावच्छेदेन विशिष्टज्ञानजनकता विशेषणत्वम्। तत् त्रिधा भेदकमनु— रञ्जकमुपलक्षकं च। यथा विश्वजिता यजेत, श्वेतं छागमालभेत, लोहितोष्णीषा ऋत्विजः प्रचरन्तीति। न च गोत्वादयः कदाचिदपि शब्दानुवेधवन्ध्यबोधविषयतां प्रतिपद्यन्ते। तथा हि— 'आयं गौः पृश्निरक्रमीत्' (तै. सं. १.५.३.१) इत्यादौ यथा जातिगुणक्रियावच्छिन्नविषयावभासिनि सविकल्पके, तथा निर्विकल्पके विज्ञाने शब्दविशिष्ट एवार्थः परिस्फुरति। तदाह— (वाप. १.१२३)
न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते।
अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते॥ ८६॥
न चैतद्‌वाच्यम्—(श्‍लोकवा. प्रत्य. ११२)
अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम्।
बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम्॥ ८७॥
यतो बालादयो जन्मान्तरानुभवोपजनितनानासंस्कारजातयो जात्याद्युल्लेखेनैव तं तमर्थं प्रतियन्ति। तथा हि— 'तदहर्जातस्यापि बालकस्य पुरतो विदग्धवनिताः प्रदीपं न प्रस्थापयन्ति कर्कटो X X X न्मा भविष्यतीति।
अथ तथात्वातथात्वयोः मध्यस्थता प्रतीतिहेतुत्वात् प्रत्यायकत्वं, कथं पुनरतथाभूतमर्थं शब्दस्तथा प्रत्यययति ?
शब्दशक्तिमाहात्म्यात्। शब्दशक्‍त्युपजनिता हि बुद्धयः स्वबीजपरिपाक— वशादाकारविशेषवत्य उपजायमानाः सत्यपि वस्तुनोऽभेदे भेदमुपदर्शयन्ति। तद्यथा राहोः शिरः, शिलापुत्रकस्य शरीरमिति। तदुक्तम्—
मायेन्द्रजालप्रख्योऽयं प्रविभागः प्रकल्‍प्यते।
शब्दशक्तिमहिम्नैव निर्विभागेऽपि वस्तुनि॥ ८८॥
न वस्तुनोऽधिकं रूपं न शब्दस्याधिकार्थता।
शब्दः शब्दान्तरोपाधेरधिकार्थः प्रतीयते॥ ८९॥
तद्यथा पुरुष इति पुरुषमात्रं, राज्ञ इति शब्दान्तरसन्निधेस्तु स विशिष्टः प्रतीयते पुरुषविशेषोऽयं राजपुरुष इति। एवं भवतिपचतीत्यादावपि पचतीति क्रियामात्रप्रतीतिः, भवतीति तु पदोपाधिः कर्तृशक्तिप्रयुक्ता प्रतीयते।
अपरे तु मन्यन्ते सकलविकल्पोल्लेखविरहितेऽपि वस्तुनि शब्दाः स्वमहिम्नैव नानाविधबुद्धयुत्पत्तिकारणीभूताः शक्तीः सन्निवेशयन्ति, यद्वशादभिन्नरूपमपि वस्त्वन्यथा चावभासत इति। तथा हि कथकः कंसं घातयतीत्युक्ते कंसवधमाचष्ट इति प्रतीयते। यदा त्विन्द्रः कंसं घातयतीति प्रयोगस्तदा 'कंसघ्नं तमुपेन्द्रम् इन्द्रः प्रयुङ्क्त' इति।
अन्ये तु कथकः कंसं घातयतीत्यत्रापि प्रयोजकं व्यापारं ब्रुवते। यतः—
शब्दोपहितरूपांस्तान् बुद्धेर्विषयतां गतान्।
प्रत्यक्षमिव कंसादीन् साधनत्वेन मन्यते॥ ९०॥
तेषां चोत्पत्तेः प्रभृत्याविनाशात् स वृद्धीराचक्षाणः परानपि तथैव प्रत्याययति। तथा वक्तारो भवन्ति 'गच्छ हन्यते कंसः, किं गतेन, हतः कंस' (मभा.३.१.२६) इति।
विकल्पयोनयः शब्दा विकल्पाश्शसब्दयोनयः।
तेषामन्योन्यसम्बन्धो नार्थं शब्दाः स्पृशन्त्यमी॥ ९१॥
गुणानुरागमिश्रेण यशसा तव सर्पता।
दिग्वधूनां मुखे जातमकस्मादर्धकुङ्कुमम्॥ ९२॥
अत्रार्धकुङ्कुमेत्युक्ते सौरभादिगुणान्विता।
← Previous (Ch. 5) Full Table of Contents Next (Ch. 7) →