अथ
शृङ्गारप्रकाशे षष्ठः प्रकाशः
विभक्त्यर्थादिचतुष्टयप्रकाशो नाम
(९. विभक्त्यर्थः)
विभक्त्यर्थस्त्रिधा १. सङ्खया, २. कारकं, ३. शेषश्च। तेषु— (१. सङ्ख्या) कारकसम्बन्धिगतैकत्वद्वित्वबहुत्वानि सङ्ख्या।
सा षोढा— आभिधानिकी, वैवक्षिकी, नैमित्तिकी, पारिभाषिकी, वैभाषिकी पारिशेषिकी च। तासु—
आभिधानिकी यथा— आपः, दाराः, लाजाः, द्वयम्, अनेकं, नियुतमिति। अत्राभिधानतो बहुवचनैकवचने एवेत्याभिधानिकी।
वैवक्षिकी यथा— रोदसी रोदस्यौ, कबरी कबर्यः, स्तनौ स्तनाः, विशाखा विशाखे विशाखाः, दृक् दृशौ दृशः, जगत् जगती जगन्ति। अत्र विवक्षयैकत्वद्वित्वबहुत्वानीति वैवक्षिकी।
नैमित्तिकी यथा— वृक्षः, शोभनः, दम्पती, पितरौ, अक्षाः, गभस्तय इति। अत्र वस्तुनो निमित्तस्य सद्भावान्नैमित्तिकी।
पारिभाषिकी यथा— मार्दङ्गिकपाणविकं पुरुषौ (काशिका २.४.२), खलतिकं वनानि (काशिका १.२.५१), गोदौ ग्रामः (काशिका १.२.५१), तिष्यपुनर्वसू तारकाः (काशिका १.२.६३), पञ्चाला जनपदः (काशिका १.२.५२), स चाहं च पचाव इति। अत्र द्वित्वबहुत्वादिषु एकत्वादिपरिभाषणमिति पारिभाषिकी।
वैभाषिकी यथा— अश्वबडबम् अश्वबडबौ (काशिका २.४.१२), लक्षन्यग्रोधं प्लक्षन्यग्रोधाः (काशिका २.४.१२), पूर्वे फल्गुन्यौ पूर्वाः फल्गुन्य (काशिका १.२.६०) इति। अत्र विभाषयैकत्वद्वित्वबहुत्वानीति वैभाषिकी।
पारिशेषिकी यथा—एकः द्वौ बहवः, उभौ द्वित्राः, अर्धतृतीया इति।
अत्रैकाद्युक्तसङ्ख्यापरिशेषे स्वादय इति पारिशेषिकी। तदुक्तम्—
निमित्तमेकमित्यत्र विभक्तया नाभिधीयते।
तद्वतस्तु यदेकत्वं विभक्तिस्तत्र वर्तते॥ १॥
(वाप. ३.११.२७)
(२. कारकम्)
कारकं षडि्वधमभिहितं पुरस्तात् (पु. २२१–२४५)। तद् द्वितीयादिवाच्यत्वेन पृथक्पृथक् षट्प्रकारं प्रथते। तत्र—
कर्म द्वितीयावाच्यं, कटं करोति; तृतीयावाच्यं, मात्रा सञ्जानीते; चतुर्थीवाच्यं, न त्वा शुने मन्ये; पञ्चमीवाच्यं, परि त्रिगर्तेभ्यो वृष्टो देवः; षष्ठीवाच्यं, मातुः स्मरति; सप्तमीवाच्यम्, अधीती व्याकरणे।
कर्ता द्वितीयावाच्यः, गमयति ग्रामं देवदत्तम्; तृतीयावाच्यः, चैत्रेण कृतम्; चतुर्थीवाच्यः, मूत्राय कल्पते यवागूः; पञ्चमीवाच्यः, उपाध्यायादधीते; षष्ठीवाच्यः, व्यासस्य कृतिः; सप्तमीवाच्यः, ब्राह्मणेषु भुञ्जानेषु वृषला आसते।
करणं द्वितीयावाच्यम्, अक्षान् दीव्यति; तृतीयावाच्यं, दात्रेण लुनाति; चतुर्थीवाच्यं, शताय परिक्रीतः; पञ्चमीवाच्यं, स्तोकान्मुक्तः; षष्ठीवाच्यं, सर्पिषो जानीते; सप्तमीवाच्यम् अक्षेषु दीव्यति।
सम्प्रदानं द्वितीयावाच्यं, देवदत्तमभ्यसूयति; तृतीयावाच्यं, दास्या सम्प्रयच्छते; चतुर्थीवाच्यं, देवाय ददाति; पञ्चमीवाच्यं, गुरोराभ्य(?) गाः प्रयच्छति; षष्ठीवाच्यं, घ्नतः पृष्ठं ददाति; सप्तमीवाच्यं पुष्पेषु स्पृहयति।
अपादानं द्वितीयावाच्यं, अर्जुनं योद्धारः, तृतीयावाच्यं, धनुषा विध्यति; चतुर्थीवाच्यं, श्राद्धाय निगृहणते; पञ्चमीवाच्यं, ग्रामादागच्छति; षष्ठीवाच्यं कृष्णा गवां सम्पन्नक्षीरतमा; सप्तमीवाच्यं, भुक्त ओदनः कंसपात्र्याम्।
अधिकरणं द्वितीयावाच्यं, ग्राममधिवसति; तृतीयावाच्यं, समेन धावति; चतुर्थीवाच्यं, युद्धाय सन्नह्यति; पञ्चमीवाच्यं, क्रोशाद्विध्यति; षष्ठीवाच्यं, गवामीश्वरः; सप्तमीवाच्यं, तीर्थं उपवसतीति।
(३. शेषः) कारकातिरेकी क्रियाकारकपूर्वकः सम्बन्धविशेषः शेषः।
स त्रिधा उक्तादन्यः, कारकेभ्योऽन्यः, कारकाणामविवक्षा च। तेषु— उक्तादन्यत्वे भिन्नसम्बन्ध्यपेक्षः, अभिन्नसम्बन्ध्यपेक्षश्च। तयोराद्यो राज्ञः पुरुष इति यथा— (कुसं. ७.१९)
पत्युश्शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम्।
सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान॥ २॥
द्वितीयो राहोश्शिर इति यथा—
शिखिच्छदच्छत्रपतत्रमण्डलीभरोपरूद्धं मुखमेणचक्षुषः।