Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 06

Prakāśa 6: विभक्त्यर्थादिचतुष्टयप्रकाशः

प्रकाशः 6 • विभक्त्यर्थादिचतुष्टयप्रकाशः

Prakāśa 6 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 595 Verses • Citations: SP 6.1–595 • 4 Lexicon Terms • Page 6 of 20 (Verses 30 shown)
ननु च यथा तक्षा कोशसमाहरणसन्निधापनादौ राजकर्मणि व्याप्रियमाणः स्वव्यापारापरित्यागेन राजकर्मणोऽनुष्ठातुमशक्‍यत्वात् स्वं दारुच्छेदचतुरश्रीकरणादि— व्यापारं जहाति, तथा यद्युपसर्जनमप्यर्थान्तरप्रत्यायनादौ परार्थे व्याप्रियमाणं स्वार्थापरित्यागेन परार्थाभिधानं कर्तुमशक्यमिति पूर्वोपात्तमर्थं विशेषणत्वादि जह्यात्। तदुक्तोदाहरणयोः पुरुषमात्रस्यापत्यमात्रस्य चानयनं प्राप्नोति।
नैष दोषः। यद्यपि स्वार्थोपसर्गेण अर्थान्तरमुपसर्जनपदान्यभिनिविशन्ते, तथाप्याधाय प्राधाने रूपभेदमुपगृहीतार्थातिशयनिबन्धनमुत्तरकालं स्वार्थमुज्झति। अतस्तदाहितरूपभेदानुगतः पुरुषार्थो निवृत्तेऽप्युपसर्जनपदार्थे विशिष्ट एव प्रतीयते। न ह्यतिशयाधायिनिमित्तसन्निधानकालमात्रानुवर्तिनस्तदाहितविशेषाः, अपि तु निमित्त— व्यवायेऽप्यनुवर्तन्ते। तत्र यथा शरदर्करश्‍मिसंतापोद्भूतेनान्तश्शरीरतेजसा ज्वरस्स— मुदीर्यमाणो नातपस्पर्शपरिवर्जनमात्रेण प्रतिक्रियते। यथा वा प्रदीप्‍ततेजस्संयोगप्रति— लब्धजन्मानो रूपरसगन्धस्पर्शविशेषाः दूरोत्सारितेऽपि तेजसि यावदाधारमवतिष्ठन्ते, तथोपसर्जनपदार्थोपहितः प्रधानरूपातिशयः तदर्थास्तमयेऽपि प्रधानस्य विशेषा— वच्छेदनिमित्तं भवति। यदि वोपसर्जनश्रुतिमर्थविशेषाभिधानसामर्थ्यवतीमवधृतवतः तदवसायोपहितसंस्कारवृत्तिलाभप्रापितजन्मा तदर्थपरिच्छेदः परित्यक्तार्थायामपि श्रुतौ रूपसामान्यादपहृतबुद्धेरनवगतार्थपरित्यागस्य प्रवर्तते। ततस्तदुपहितविशेषं प्रधानमवैति।
ननु च यदि तस्या एव श्रुतेः प्रयोगदर्शनाभ्याससामर्थ्यात् तमेवार्थं प्रतिपद्यते, कः स्वार्थपरित्यागः?
न हि श्रुतौ तस्यां भस्त्रायामिवोपकरणविशेषाः कृतसन्निवेशाः पदार्थाः।
किं तर्हि? ते शब्दरूपदर्शनानुमेयाः।
तदिहापि तथैवेति किमवहीयते स्वार्थस्य?
नैवम्; निवृत्तेऽपि स्वार्थेऽन्वयाद् अर्थाः प्रतीयन्ते, तद्यथा घृतघटस्तैलघट इति। निषिक्तेऽपि घृते तैले वा अन्वयाद् घृतं तैलं वा घटविशेषणं भवति अयं घृतघटोऽयं तैलघट इति (मभा. २.१.१)।
विषम उपन्यासः; भवति तत्र या च यावती चार्थमात्रा। अङ्गं हि भवानग्नौ निष्टप्य तृणकूर्चेन प्रक्षालयतु, न गम्यते स विशेषः; यथा तर्हि मल्लिकापुटश्‍चम्पकपुट इति; निष्कीर्णास्वपि सुमनस्सु तत्सम्पर्कोपहितगन्धविशेषाद्यनुवृत्तेः प्रतीयते व्यपदेशः अयं मल्लिकापुटोऽयं चम्पकपुट इति, तथेहाप्यन्वयादुपसर्जनार्थः परित्यक्तोऽपि विशेषणं भविष्यति।
अथवा जहदप्यसौ स्वार्थं राजशब्दो नात्यन्ताय जहाति। कश्‍चिदेव भागः स्वार्थस्यापि हीयते।
कथम्? विरोधादेष स्वार्थमवजहाति। ततो यावतास्य प्रधानार्थोपयोग— विरोधस्तावन्तमेवार्थं जह्यात्। तदाह — यः परार्थविरोधी स्वार्थः तं जहाति। न हि प्रधानार्थोपयोगिनः स्वार्थस्य अत्यागे निदर्शनमस्ति? अस्ति, राजकर्मणि प्रवर्तमानः तक्षा राजा तक्षकर्मैव जहाति, न हिक्कितहसितकण्डूयितानि। न चायमर्थः परार्थविरोधि— विशेषणत्वं नाम तस्मान्न हास्यति।
ननु चोपसर्जनपदानि प्रधानार्थावच्छेदव्यापारावेशवन्ति प्रधानोपकारिणं विशेषणभावं न जहतीत्युच्यते। अयमेव चोपसर्जनपदानामर्थो यत् प्रधानमवाप्‍तरूपभेदमवगमयन्ति। तथा हि राज्ञः पुरुष इति स्वामिविशेष— सम्बन्धोपहितभेदः पुरुषार्थोऽवगम्यते राजपुरुष इति। न चापदार्थरूपभेदं प्रधान— स्याधातुं तदनवहीयमानस्वार्थमेवोपसर्जनपदमिति किमुच्यते जहत्स्वार्था वृत्तिरिति?
एवं मन्यते — 'पदस्य स्वातिशयपतिपत्तौ स्वाधीनत्वं, तस्य त्यागात् स्वार्थापहानम्। यदि चोपसर्जनपदं न स्वार्थेन प्रधानस्योपकुर्यात्, स्वरूपमेवास्य हीयेत। यतः परोपकारिताकारणमेवोपसर्जनत्वं, प्रयोगवैयर्थ्यं चोपसर्जनस्य प्रसज्यते। प्रधानस्योत्तरपदेनैव प्रतीतत्वात्। न चानर्थकाणां परेण सम्बन्धो घटते, सामर्थ्यनिबन्धना समाससंज्ञा च नोपपद्यते। तस्मान्न सकलार्थपरित्यागः। किं तर्हि? विशेषणतया स्वपदोपधीयमानरूपातिशयप्रतिपत्तियोग्यतामात्रमस्यापहीयते।
ननु च परित्यक्ताशेषार्थमपि उपसर्जनपदमर्थविशेषाभिधायिनस्समुदायस्य वर्णवदङ्गभावमापत्स्यते (वाप. ३ वृ.)?
नैवम्; एवं हि प्रतीयमानः प्रधानार्थोपयोगी पदार्थः परित्यक्तो भावी। न च परित्यक्तस्वार्थेभ्य उपसर्जनपदेभ्यः प्रधानविशेषो विशेषणविशेष्यावच्छिन्नः समुदायो वा प्रतीयते। न चाप्रतीयमानश्शब्दार्थो न्याय्यः कल्पयितुमिति यत्किंचिदेतत्। यद्यपि चायं समुदायः एवाव्यपदेश्‍यपूर्वापरभागो भागभेदानुयात इवावसीयमानः संबन्धी पदार्थद्वयोपहितभेदं ह्यर्थमभिधत्ते। तथापि तदधिगमोपायः पूर्वोत्तरविभागदर्शनम्। तत्र च वृत्तौ समर्थाधिकारः क्रियते। सामर्थ्यं नाम भेदस्संसर्गो वा (मभा. २.१.१)।
अपर आह — भेदसंसर्गौ वा सामर्थ्यमिति।
कः पुनः भेदस्संसर्गो वा? इह राज्ञ इत्युक्ते सर्वं स्वं प्रसक्तम्। पुरुष इत्युक्ते सर्वः स्वामी प्रसक्तः। इहेदानीं राजपुरुषमानयेत्युक्ते राजा पुरुषं निवर्तयति अन्येभ्यः स्वामिभ्यः। पुरुषोऽपि राजानमन्येभ्यः स्वेभ्यः। एवमेतस्मिन्नुभयतोऽवच्छिन्ने यदि जहाति कामं जहातु। न जातुचित् पुरुषमात्रस्यानयनं भविष्यति।
ननु च पुरुष इत्युक्ते न स्त्रीत्येतावता संप्रत्ययेन भवितव्यम्।
सत्यमेवैतत्। यदा तु पुरुष आकारविशेषाद् द्रव्यान्तरसम्बन्धाद्‍वा स्वातन्त्र्येण निर्ज्ञात उपलब्धः तं प्रत्येतदुच्यते। राज्ञो हि अनिर्ज्ञातार्थत्वात् परार्थायां प्रवृत्तौ सामान्यसंसर्गविषयः प्रातिपदिकार्थव्यतिरेक उपजायते। पुरुषस्तु निर्ज्ञातार्थात् स्वामिविशेषसंबन्धादवसीयमानः पूर्वमव्यतिरिक्तप्रातिपदिकार्थः प्रथमान्तः स्वामि— विशेषस्थं सम्बन्धमनुभवति। तस्मिन् प्रतिलब्धविभक्तौ य उत्तरो व्यतिरेक उपजायते वाक्‍यार्थः स भवति। इहेदानीं राजा पुरुषं निवर्तयति अन्येभ्यः स्वामिभ्यः। तत्र योऽसौ भेदस्तत्सामर्थ्यं तन्निमित्ता च वृत्तिः; भेदनिमित्तायां च वृत्तौ सत्यां वृत्त्यभिमुखस्य भेदमुपजनस्य स्वार्थो निवर्तते। यस्यापि न निवर्तते पुरुषस्य सोऽपि स्वामिनं भिनत्ति। एवमेतयोर्द्वयोरन्योन्यक्‍लृप्‍तौ सत्यामुभयतो व्यवच्छेदेन निर्ज्ञाते पुरुषविषेशे समुदायार्थे चान्यस्मिन् प्रादुर्भूते यदि राजार्थो निवर्तते कामं निवर्तताम्। प्राक् तु वृत्तेरकृतार्थस्य निवृत्तौ वृत्तिरेव न स्यात्। वृत्तिनिमित्ता च निवृत्तिः। तस्माददोषः।
अपर आह — पुरुष एव हि राजपुरुषो ब्राह्मणादिपुरुषश्‍च। तत्र राजा स्वाम्यन्तरनिवृत्तिमात्रं करोति, न त्वसौ राजार्थमेव निवर्त्तयति। स्वाम्यन्तरनिवृत्तौ तु कृतायां पुरुष एव राजपुरुषार्थमाहेति।
अथान्यन्मतम् — नावस्थितार्थपरित्यागेन शब्दोऽर्थान्तरम् उपादत्ते। न ह्यपौरुषेयसंबन्धोपहितनिवेशमर्थात्मानं रूपदर्शनावसीयमानं शरीरं शब्दाः परित्यक्तुमुत्सहन्ते। यथा हि ते स्वरूपमसमर्थास्त्यक्तुं तथार्थमपि नैव योगक्षेममपहातुं क्षमन्ते। न हि जलमनलसंस्पर्शोपचीयमानस्पर्शातिशयमप्यात्मीयं स्नेह जहाति। निमित्तविशेषसन्निधानो पपादिते पुनरेषामर्थान्तराभिधानसामर्थ्ये कामचारः। तस्मादभ्युच्चय एवार्थान्तरस्य वृत्तावुपसर्जनपदानां प्रधानोपकारातिशयः। प्रधानोपकारस्तु स्वामिविशेषावच्छेदः पुरुषार्थस्य। स चापरित्यागेनैव स्वार्थस्य कर्तुं शक्‍यते। न ह्यत्यन्तमपाकीर्णस्वार्थं शब्दः रूपातिशयमर्थान्तरे निवेशायितुं शक्‍नोति। रूपातिशयनिवेशनायां पदार्थनिबन्धनत्वादनङ्गीकृतस्वार्थानि च यान्युपसर्जनपदानि प्रधानार्थनिवेशीनि तमेवार्थं शब्दान्तरेण प्रतिपादयन्ति। न तैरतिशयः प्रधानस्य प्रतिपादितो भवति। ततश्‍च राजपुरुषमानयेत्युक्ते पुरुषमात्रस्यानयनं प्राप्‍नोति, औपगवमानयेति चापत्यमात्रस्येति। तदवधार्याह — अथवा पुनरस्त्वजहत्स्वार्था वृत्तिः। युक्तं पुनः यदजहत्स्वार्था नाम वृत्तिः स्यात्? बाढं युक्तं; एवं हि दृश्‍यते लोक भिक्षुकोऽयं द्वितीयां भिक्षामासाद्य पूर्वां भिक्षां न जहाति, सञ्चयायैव यतते।
ननु चोक्तमुभयोर्विद्यमानस्वार्थयोः द्वयोर्द्विवचनमिति द्विवचनं प्राप्‍नोति।
कस्याः पुनर्द्विवचनं प्राप्‍नोति ?
प्रथमायाः। न प्रथमासमर्थो राजा। षष्ठ्यास्तर्हि प्राप्‍नोति। न षष्ठीसमर्थः पुरुषः। प्रथमाया एव तर्हि प्राप्‍नोति।
ननु चोक्तं न प्रथमासमर्थो राजाभिहितः, सोऽर्थोऽन्तर्भूतः प्रातिपदि— कार्थस्संपन्नः। तत्र प्रातिपदिकार्थे प्रथमेति प्रथमाया एव द्विवचनं प्राप्‍नोति। तत्र यथा धवखदिराविति पदार्थान्तरोपचये सङ्ख्याभेदोपजनकानेकवचनं प्रवर्तते तद्वदिहापि राजपुरुषः, इति पुरुषशब्दाद् द्विवचनं प्राप्‍नोति।
नैवम्; धवखदिरावित्यवयवार्थ समवेतस्सङ्ख्याविशेषः, ततोऽवयवात् परस्या विभक्तेः कारणम्। इह तु एक एव पुरुषार्थः तदेकवचनमेव पुरुषशब्दे न्याय्यः। न हि राजशब्देनासम्बध्यमाना विभक्तिस्तदर्थसमवेतां सङ्ख्यामभिधेयत्वेन अपेक्षते। द्वन्द्वपदानां तु प्रत्यवयवमनेकार्थाभिधानसामर्थ्यादनेकवचनं न विरुध्यते। अनुत्तर— पदेष्वपि तर्हि तत् प्राप्‍नोति?
प्राप्‍नोतु। 'सुपो धातुप्रातिपदिकयोः' (२.४.७१) इति लोपो भविष्यति।
अथायमभिप्रायः — समुदायात् परा विभक्तिः, अतस्समुदायार्थसमवायिनीं सङ्ख्यामभिधत्ते। समुदायस्स चावयवात्मकत्वादवयवभेदनिबन्धनस्सङ्ख्याभेदः निमित्तमनेकवचनस्येति। तदेतत् क्‍व युज्यते?
यत्र पदसमुदायेनार्थसमुदायः प्रत्याय्यते, यथा द्वन्द्वपदे। यत्र तु विशेषणविशेष्यभावावच्छिन्नमर्थान्तरमेवाभिधेयमवयवैः समुदायेनोपादीयते, यथा बहुव्रीहिपदे 'लोहितवसनः', 'चित्रवेष्टन' इति, तत्रावयवार्थाहितभेदस्य पदार्थस्य समुदायेनाभिधीयमानत्वात् ततः परा विभक्तिस्समुदायार्थनिवेशिनीं सङ्ख्यामुपादत्ते। तदाह 'सङ्घातस्यैकार्थ्यान्नावयवसङ्ख्यातस्सुबुत्पत्तिः' (२.१.२. वा. ३)। अत्र हि समुदायाद् राजपुरुष इत्येतस्माद् विभक्‍त्योत्पत्तव्यम्। तेन समुदायेनैवैकार्थ— पिण्डोऽवयवार्थशक्‍त्यनुगृहीतः पृथगव्यपदेश्‍योऽवयवशक्तिरभिधीयते। तस्मिंश्‍च सङ्घातार्थे स्वामिविशेषपरिच्छिन्ने निवृत्तस्वाम्यन्तरसंबन्धे एकत्वं समवेतं, तेन विद्यमानायामप्यवयवसङ्ख्यायां तदाश्रया सुबुत्पत्तिर्न भविष्यति। तदेवमजहत्स्वार्थायां वृत्तौ तदुपसर्जनपदं स्वार्थातिशयावच्छिन्नं प्रधानार्थमभिदधाति। ततो विशेषणविशेष्यभूतार्थद्वयाभिधानमुपसर्जनस्य वृत्तौ भवति। यत्तु प्रधानार्थसम्भवविशेषणं पाटलिपुत्रकादि, तदस्य निवर्तते, अतो वृत्तिविषये राजार्थः तैर्विशेषणैर्नावच्छिद्यते। यदा तु वाक्‍यावस्थायामुपसर्जनं पदार्थः प्रधानसंस्पर्शविभक्तः केवल एव भवति, तदा युक्तमेव यद्‍‌विशेषणभावमनुभवति, यथा राज्ञः पाटलिपुत्रकस्य पुरुष इति; यदि वा—
उपायमात्रान्नानात्वं समूहस्त्वेक एव सः।
विकल्पाभ्युच्चयाभ्यां तु भेदसंसर्गकल्पना॥ १२॥
← Previous (Ch. 5) Full Table of Contents Next (Ch. 7) →