वस्तुरूपो द्विधा— सत्त्वभूतोऽर्थः, असत्त्वभूतोऽर्थश्च। तयो—
सत्त्वभूतोऽर्थो यथा औपगवः, छान्दसः, लाक्षिकं, यौष्माक इति।
असत्त्वभूतोऽर्थो यथा आस्तिकः, उपत्यका, प्रकटं, तत्रत्यम् इति।
अवस्तुरूपोऽपि पूर्ववदेव द्विधा। तयोः—
सत्त्वभूतोऽर्थो यथा अग्निवत्, पञ्चवत्, पञ्चकृत्वः, सर्वदा, बहुश इति।
असत्त्वभूतोऽर्थो यथा नतरां, प्राहतरां, पचतितरां, पचतिरूपमिति।
क्रियारूपोऽपि द्विधा— संक्षिप्तो, विक्षिप्तश्च। तयोः—
संक्षिप्तो यथा आत्मनः पुत्रमिच्छति पुत्रीयति, श्येन इवाचरति श्येनायते, अभृशो भृशो भवति भृशायते, सेनया अभियाति अभिषेणयतीति।
विक्षिप्तो यथा कंसवधमाचष्टे कंसं घातयति, आरात्रि विवासमाचष्टे रात्रिं विवासयति, पुष्यचन्द्रयोगं जानाति पुष्येण चन्द्रं योजयति, उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमं प्राप्नोति माहिष्मत्यां सूर्यमुद्गमयतीति।
(३. अनेकपदार्थः)
अनेकपदार्थस्त्रिधा—एकपदार्थाश्रयः, उभयपदार्थाश्रयः, अन्यपदार्थाश्रयश्च। तत्र एकपदार्थाश्रयो द्विधा— पूर्वपदार्थाश्रयः, उत्तरपदार्थाश्रयश्च। तयोः—
पूर्वपदार्थाश्रयो यथा उपकुम्भं, पुरुषव्याघ्रः, गोमतल्लिका, पूर्वकायः, राजदन्तः, प्राप्तजीविक इति।
उत्तरपदार्थाश्रयो यथा राजपुरुषः, यूपदारुः, कष्टश्रितः, श्वलेह्यः (काशिका २.१.३३) द्वयह्नजातः अनेक इति।
उभयपदार्थाश्रयो द्विधा— एकाधिकरणो भिन्नाधिकरणश्च। तयोः
एकाधिकरणो यथा नीलोत्पलम्, अग्निस्तोकः (काशिका २.१.६५), पुरुषोत्तमः, सर्वश्वेतः (काशिका २.२.९), सप्तर्षयः, खञ्जकुब्ज इति।
भिन्नाधिकरणो यथा धवखदिरौ, अश्वबडबौ, दधिपयसी, धवखदिरपलाशाः, काकोलूकं, गवाश्वमिति।
अन्यपदार्थाश्रयो द्विधा— सतद्गुणोऽतद्गुणश्च। तयोः
सतद्गुणो यथा उन्मत्तगङ्गं, शस्त्रीश्यामा, सहस्त्राक्षः, शूलपाणिः, द्वित्राः, अर्धतृतीया इति।
अतद्गुणो यथा ऊढरथः, चित्रगुः, दक्षिणपूर्वा, उष्ट्रमुखः गुडप्रियः, प्रियगुड इति (मभा. २.२.३५)।
(वृत्तिः— जहत्स्वार्था अजहत्स्वार्था वा)
अथ ये वृत्तिं वर्तयन्ति किं त आहुः?
परार्थाभिधानं वृत्तिरिति।
कः पुनरस्यार्थः?
किं परार्थस्याभिधानमाहोस्वित्परार्थमभिधानमिति ?
उभयथापि न दोषः।
यदा तावदेतावद्दर्शनमनेकमप्यर्थमेक एव शब्दः प्रत्याययति, तदा वाक्यावस्थायां शब्दान्तराभिधेयतया प्रतीतमर्थात्मानं वृत्तिविषये तदुपसर्जनपदमभिधेयभावेनोपादत्ते। तदेतद्विभक्तपदावस्थायामभिधानशक्तिप्रतिघाताद्वृत्तौ परार्थस्याभिधानं परार्थाभिधान— मुच्यते। यदा पुनरेष पक्षः एकश्शब्दोऽनेकमर्थं न प्रत्याययति तदा पुरोपात्तमेवार्थं वृत्तिविषये तान्युपसर्जनपदानि परार्थमुपाददते। व्यक्तमेवास्मिन्दर्शने परार्थाभिधानम्। तत्र द्वयी गतिः— विहाय वा प्रसिद्धमर्थसम्बन्धमुपसर्जनपदान्यर्थान्तरमुपाददीरन्, अवस्थित एव वा प्रच्येर्थेऽर्थान्तरमभिदधीरन् (वाप. ९४)। द्वयमपि हीदमन्यत्र दृश्यते; तद्यथा दधिकलशे दध्यपनीय क्षीरं निधीयते, जलं तु सिकताकुम्भे सहैवावतिष्ठते सिकतादिभिः। तदाह— तेषां परार्थाभिधानं वृत्तिरिति ब्रुवतां किं जहत्स्वार्था वृत्तिराहोस्विदजहत्स्वार्थेति ? (मभा. २.१.१)
किञ्चातः?
यदि जहत्स्वार्था, राजपुरुष आनीयतामित्युक्ते पुरुषमात्रस्यानयनं प्राप्नोति, औपगवमानयेति चापत्यमात्रस्य।
अथाजहत्स्वार्था? उभयोर्विद्यमानस्वार्थयोर्द्वयोर्द्विवचनमिति द्विवचनं प्राप्नोति। तदेवमुभयत्रापि दोषदर्शनादुभया प्रतिपत्तिः।
तत्रैकेषां दर्शनम्— 'उपात्तार्थपरित्यागेनार्थान्तरनिवेशीन्युपसर्जनपदानि'; यतोऽर्थान्तरपराधीनस्य शब्दस्य प्राच्यमेवार्थमनुविधीयमानस्यार्थान्तराभिधानमशक्यम्। तस्मादर्थान्तरमभिदधता परित्याज्यमनेनोपात्तमर्थवस्तु। तदाह— का पुनर्वृत्तिर्न्याय्या, जहत्स्वार्थेति। युक्तं पुनर्यज्जहत्स्वार्था नाम वृत्तिः स्यात्? बाढं युक्तम्। एवं हि दृश्यते लोके— पुरुषोऽयं परकर्मणि प्रवर्तमानः स्वं कर्म जहाति। तद्यथा तक्षा राजकर्मणि प्रवर्तमानः स्वं कर्म जहाति। एवं युक्तं यद्राजा पुरुषार्थे उपगुश्चापत्यार्थे वर्तमानः स्वमर्थं जह्यात्।