Skip to main content
Search
RV
Raghuvaṁśam • Chapter 18

Canto 18

अष्टादशः सर्गः (वंशानुक्रमः)

Canto 18 of Raghuvaṁśam.

Total: 53 Verses • Citations: RV 18.1–53 • 1 Lexicon Terms • Page 2 of 2 (Verses 23 shown)
RV 18.31 उपजातिः
वंशस्थितिं वंशकरेण तेन संभाव्य भावी स सखा मघोनः । उपस्पृशन्स्पर्शनिवृत्तलौल्यस्त्रिपुष्करेषु त्रिदशत्वमाप ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वंशेति॥ स्पृश्यन्त इति स्पर्शा विषयाः। तेभ्यो निवृत्तलौल्यो निवृत्ततृष्णः। अत एव मघोन इन्द्रस्य सखा मित्रं भावी भविष्यन्। स्वर्गं जिगमिषुरित्यर्थः। स ब्रह्मिष्णो वंशकरेण वंशप्रवर्तकेन तेन पुत्रेण वंशस्थितिं कुलप्रतिष्ठां संभाव्य संपाद्य। त्रिषु पुष्करेषु तीर्थविशेषेषु। `दिक्संख्ये संज्ञायाम्` (पा.2।1।57) इति समासः। उपस्पृशन् स्नानं कुर्वन्। त्रिदशत्वं देवभूयमाप ॥
RV 18.32 इन्द्रवज्रा
तस्य प्रभानिर्जितपुष्परागं पौष्यां तिथौ पुष्यमसूत पत्नी । तस्मिन्नपुष्यन्नुदिते समग्रां पुष्टिं जनाः पुष्य इव द्वितीये ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ तस्य पुत्राख्यस्य पत्नी पौष्यां पुष्यनक्षत्रयुक्तायां पौर्णमास्यां तिथौ। `पुष्ययुक्ता पौर्णमासी पौषी` इत्यमरः। `नक्षत्रेण युक्तः कालः` (पा.4।2।3) इत्यण्प्रत्ययः। `टिड्ढाणञ्-` (पा.4।1।15) इत्यादिना ङीप्। प्रभया निर्जितः पुष्परागो मणिविशेषो येन तं पुष्यं पुष्याख्यमसूत। द्वितीये पुष्ये पुष्यनक्षत्र इव तस्मिन्नुदिते सति जनः समग्रां पुष्टिं वृद्धिमपुष्यन् ॥
RV 18.33 उपजातिः
महीं महेच्छः परिकीर्य सूनौ मनीषिणे जैमिनयेऽर्पितात्मा । तस्मात्सयोगादधिगम्य योगमजन्मनेऽकल्पत जन्मभीरुः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): महीमिति॥ महेच्छो महाशयः। `महेच्छस्तु महाशयः` इत्यमरः (अ.को.3|1|3)। जन्मभीरुः संसारभीरुः स पुत्रः सूनौ महीं परिकीर्य विसृज्य मनीषिणे ब्रह्मविद्याविदुषे जैमिनये मुनयेऽर्पितात्मा। शिष्यभूतः सन्नित्यर्थः। सयोगाद्योगिनस्तस्माज्जैमिनेर्योगं योगविद्यामधिगम्याजन्मने जन्मनिवृत्तये मोक्षायाकल्पत समपद्यत। क्लृपेः संपद्यमाने चतुर्थी वक्तव्या। मुक्तोऽभूदित्यर्थः ॥
RV 18.34 उपजातिः
ततः परं तत्प्रभवः प्रपेदे ध्रुवोपमेयो ध्रुवसंधिरुर्वीम् । यस्मिन्नभूज्ज्यायसि सत्यसंधे संधिर्ध्रुवः संनमतामरीणाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततः परं स पुष्यः प्रभवः कारणं यस्य स तत्प्रभवः। तदात्मज इत्यर्थः। ध्रुवेणौत्तानपादिनोपमेयः। `ध्रुव औत्तानपादिः स्यात्` इत्यमरः (अ.को.1|3|22)। ध्रुवसंधिरुर्वीं प्रपेदे। ज्यायसि श्रेष्ठे सत्यसंधे सत्यप्रतिज्ञे यस्मिन् ध्रुवसंधौ संनमताम्, अनुद्धतानामित्यर्थः। अरीणां संधिर्ध्रुवः स्थिरोऽभूत्। ततः सार्थकनामेत्यर्थः ॥
RV 18.35 उपजातिः
सुते शिशावेव सुदर्शनाख्ये दर्शात्ययेन्दुप्रियदर्शने सः । मृगायताक्षो मृगयाविहारी सिंहादवापद्विपदं नृसिंहः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सुत इति॥ मृगायताक्षो नृसिंहः पुरुषश्रेष्ठः स ध्रुवसंधिर्दर्शात्ययेन्दुप्रियदर्शने प्रतिपञ्चन्द्रनिभे सुदर्शनाख्ये सुते शिशौ सत्येव मृगयाविहारी सन्, सिंहाद्विपदं मरणमवापत्। व्यसनासक्तिरनर्थावहेति भावः ॥
RV 18.36 उपजातिः
स्वर्गामिनस्तस्य तमैकमत्यादमात्यवर्गः कुलतन्तुमेकम् । अनाथदीनाः प्रकृतीरवेक्ष्य साकेतनाथं विधिवञ्चकार ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स्वरिति॥ स्वर्गामिनः स्वर्यातस्य तस्य ध्रुवसंधेरमात्यवर्गः। अनाथा नाथहीना अत एव दीनाः शोच्याः प्रकृतीः प्रजा अवेक्ष्य। कुलतन्तुं कुलावलम्बनमेकमद्वितीयं तं सुदर्शनम्। ऐकमत्याद्विधिवत् साकेतनाथमयोध्याधीश्वरं चकार ॥
RV 18.37 उपजातिः
नवेन्दुना तन्नभसोपमेयं शावैकसिंहेन च काननेन । रघोः कुलं कुड्मलपुष्करेण तोयेन चाप्रौढनरेन्द्रमासीत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): नवेति॥ अप्रौढनरेन्द्रं तद्रघोः कुलं नवेन्दुना बालचन्द्रेण नभसा व्योम्ना। शावः शिशुरेकः सिंहो यस्मिन्। `पृथुकः शावकः शिशुः` इत्यमरः (अ.को.2|5|40)। तेन काननेन च। कुड्मलं कुड्मलावस्थं पुष्करं पङ्कजं यस्मिंस्तेन तोयेन चोपमेयमुपमातुमर्हम्। आसीत्। नवेन्द्वाद्युपमानेन तस्य वर्धिष्णुताशौर्यश्रीमत्त्वानि सूचितानि ॥
RV 18.38 इन्द्रवज्रा
लोकेन भावी पितुरेव तुल्यः संभावितो मौलिपरिग्रहात्सः । दृष्टो हि वृण्वन्कलभप्रमाणोऽप्याशाः पुरोवातमवाप्य मेघः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): लोकेनेति॥ स बालो मौलिपरिग्रहात्किरीटस्वीकाराद्धेतोः पितुस्तुल्यः पितृसरूप एव भावी भविष्यति इति लोकेन जनेन संभावितस्तर्कितः। तथा हि-कलभप्रमाणः कलभमात्रोऽपि मेघः पुरोवातमवाप्य। आशा दिशो वृण्वन्गच्छन् दृष्टो हि ॥
RV 18.39 इन्द्रवज्रा
तं राजवीथ्यामधिहस्ति यान्तमाधोरणालम्बितमग्र्यवेशम् । षड्वर्षदेशीयमपि प्रभुत्वात्प्रैक्षन्त पौराः पितृगौरवेण ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ राजवीथ्यां राजमार्गेऽधिहस्ति हस्तिनि। विभक्त्यर्थेऽव्ययीभावः। यान्तं गच्छन्तम्, हस्तिनमारुह्य गच्छन्तमित्यर्थः। आधोरणालम्बितं शिशुत्वात्सादिना गृहीतमग्र्यवेशमुदारनेपथ्यं षड्वर्षाणि भूतः षड्वर्षः। `तद्धितार्थ-` (पा.2।1।51) इत्यादिना समासः। `तमधीषअटो भृतो भूतो भावी` इत्यधिकारे `चित्तवति नित्यम्` इति तद्धितस्य लुक्। ईषदसमाप्तः षड्वर्षः षड्वर्षदेशीयः। `ईषदसमाप्तौ-` (पा.5।3।67) इत्यादिना देशीयर्प्रत्ययः। तं षड्वर्षदेशीयमपि बालमपि तं सुदर्शनं पौराः प्रभुत्वात्पितृगौरवेण प्रैक्षन्त। पितरि यादृग्गौरवं तादृशे नैव ददृशिरित्यर्थः ॥
RV 18.40 इन्द्रवज्रा
कामं न सोऽकल्पत पैतृकस्य सिंहासनस्य प्रतिपूरणाय । तेजोमहिम्ना पुनरावृतात्मा तद्व्याप चामीकरपिञ्जरेण ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): काममिति॥ स सुदर्शनः पैतृकस्य सिंहासनस्य कामं सम्यक्प्रतिपूरणाय नाकल्पत। बासत्वाद्व्याप्तुं न पर्याप्त इत्यर्थः। चामीकरषिञ्जरेण कनकगौरेण तेजोमहिम्ना पुनस्तेजः संपदा त्वावृतात्मा विस्तारितदेहः सन्, तत् सिंहासनं व्याप व्याप्तवान् ॥
तस्मादधधः किंचिदिवावतीर्णावसंस्पृशन्तौ तपनीयपीठम् । सालक्तकौ भूपतयः प्रसिद्धैर्ववन्दिरे मौलिभिरस्य पादौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्मादिति॥ तस्मात्सिंहासनादपादानात् अधोऽधोदेशं प्रति किंचिदिवावतीर्णावीषल्लम्बौ तपनीयपीठं काञ्चनपीठमसंस्पृशन्तौ अल्पकत्वादव्याप्तौ सालक्तकौ लाक्षारसावसिक्तावस्य सुदर्शनस्य पादौ भूपतयः प्रसिद्धैरुन्नतैर्मौलिभिर्मुकुटैर्ववन्दिरे प्रणेमुः ॥
RV 18.42 उपजातिः
मणौ महानील इति प्रभावादल्पप्रमाणेऽपि यथा न मिथ्या । शब्दो महाराज इति प्रतीतस्तथैव तस्मिन्युयुजेऽर्भकेऽपि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मणाविति॥ अल्पप्रमाणेऽपि मणाविन्द्रनीले प्रभावात्तेजिष्ठत्वाद्धेतोर्महानील इति शब्दो यथा मिथ्या निरर्थको न तथैवार्भकेऽपि शिशावपि तस्मिन् सुदर्शने प्रतीतः प्रसिद्धो महाराज इति शब्दो न मिथ्या युयुजे ॥
RV 18.43 उपजातिः
पर्यन्तसंचारितचामरस्य कपोललोलोभयकाकपक्षात् । तस्याननादुञ्चरितो विवादश्चस्खाल वेलास्वपि नार्णवानाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पर्यन्तेति॥ पर्यन्तयोः पार्श्वयोः संचारिते यस्य तस्य बालस्य संबन्धिनः कपोलयोर्लोलावुभौ काकपक्षौ यस्य तस्मादाननादुञ्चरितो विवादो वचनमर्णवानां वेलास्वपि न चस्खाल। शिशोरपि तस्याज्ञाभङ्गो नासीवित्यर्थः। चपलसंसर्गेऽपि महान्तो न चलन्तीति ध्वनिः। उभयकाकपक्षादित्यत्र `वृत्तिविषये उभयपुत्र ` इतिवत् `उभ`शब्दस्थाने `उभय`शब्दप्रयोगः` इत्युक्तं प्राक् ॥
RV 18.44 उपजातिः
निर्वृत्तजाम्बूनदपट्टशोभे न्यस्तं ललाटे तिलकं दधानः । तेनैव शून्यान्यरिसुन्दरीणां मुखानि स स्मेरमुखश्चकार ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): निर्वृत्तेति॥ निर्वृत्ता जाम्बूनदपट्टशोभा यस्य तस्मिन्कृतकनकपट्टशोभे ललाटे न्यस्तं तिलकं दधानः स्मेरमुखः स्मितमुखः स राजा। अरिसुन्दरीणां मुखानि तेनैव तिलकेनैव शून्यानि चकार। अखिलमपि शत्रुवर्गमवधीदिति भावः ॥
RV 18.45 उपजातिः
शिरीषपुष्पाधिकसौकुमार्यः खेदं स यायादपि भूषणेन । नितान्तगुर्वीमपि सोऽनुभावाद्धुरं धरित्र्या बिभरांबभूव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): शिरीषेति॥ शिरीषपुषअपाधिकसौकुमार्यः। कोमलाङ्ग इत्यर्थः। अत एव स राजा भूषणेनापि खेदं श्रमं यायाद्गच्छेत्। एवंभूतः स नितान्तगुर्वीमपि धरित्र्या धुरं भुवो भारमनुभावात् सामर्थ्यात्। बिभरांबभूव बभार। `भीह्वीभृहुवां श्लुवञ्च` (पा.3।1।39) इति विकल्पादाम्प्रत्ययः ॥
RV 18.46 उपजातिः
न्यस्ताक्षरामक्षरभूमिकायां कार्त्स्न्येन गृह्णाति लिपिं न यावत् । सर्वाणि तावच्छ्रुतवृद्धयोगात्फलान्युपायुङ्क्त स दण्डनीतेः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): न्यस्तेति॥ अक्षरभूमिकायामक्षरलेखनस्थले न्यस्ताक्षरां रचिताक्षरपङ्क्तिरेखान्यासां लिपिं पञ्चाशद्वर्णात्मिकां कार्त्स्न्येन यावन्न गृह्णाति स सुदर्शनस्तावच्छ्रुतवृद्धयोगाद्विद्यावृद्धसंसर्गात्सर्वाणि दण्डनीतेर्दण्डशास्त्रस्य फलान्युपायुङ्क्तान्वभूत्॥ प्रागेव बद्धफलस्य तस्य पश्चादभ्यस्यामानं शास्त्रं संवादार्थमिवाभवदित्यर्थः ॥
RV 18.47 उपजातिः
उरस्यपर्याप्तनिवेशभागा प्रौढीभविष्यन्तमुदीक्षमाणा । संजातलज्जेव तमातपत्रच्छायाछलेनोपजुगूह लक्ष्मीः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): उरसीति॥ उरस्यपर्याप्तो निवेशभागो निवासावकाशो यस्याः सा। अत एव प्रौढीभविष्यन्तं वर्धिषथ्यमाणमुदीक्षमाणा प्रौढवपुष्मान्भविष्यतीति प्रतीक्षमाणा लक्ष्मीः संजातलज्जेव साक्षादालिङ्गितुं लज्जितेव तं सुदर्शनम्। आतपत्रच्छायाछलेनोपजुगूहालिलिङ्ग। छत्रच्छाया लक्ष्मीरूपेति प्रसिद्धिः। प्रौढाङ्गनायाः प्रौढपुरुषालाभे लज्जा भवतीति ध्वनिः ॥
RV 18.48 उपजातिः
अनश्नुवानेन युगोपमानमबद्धमौर्वीकिणलाञ्छनेन । अस्पृष्टखङ्गत्सरुणापि चासीद्रक्षावती तस्य भुजेन भूमिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अनश्नुवानेनेति॥ युगोपमानं युगसादृश्यमनश्नुवानेनाप्राप्नुवता। अबद्धं मौर्वीकिणो ज्याघातग्रन्थिरेव लाञ्छनं यस्य तेन। अस्पृष्टः खङ्गत्सरुः खङ्गमुष्टिर्येन तेन। `त्सरुः खङ्गादिमुष्टौ स्यात्` इत्यमरः। एवंविधेनापि च तस्य सुदर्शनस्य भुजेन भूमि रक्षावत्यासीत्। शिशोरपि तस्य तेजस्तादृगित्यर्थः ॥
RV 18.49 उपजातिः
न केवलं गच्छति तस्य काले ययुः शरीरावयवा विवृद्धिम् । वंश्या गुणाः खल्वपि लोककान्ताः प्रारम्भसूक्ष्माः प्रथिमानमापुः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): नेति॥ काले गच्छति सति तस्य केवलं शरीरावयवा एव विवृद्धिं प्रसारं न ययुः। किंतु वंशे भवा वंश्या लोककान्ता जनप्रियाः प्रारम्भ आदौ सूक्ष्मास्तस्य गुणाः शौर्यौदार्यादयोऽपि प्रथिमानं पृथुत्वमापुः खलु ॥
RV 18.50 उपजातिः
स पूर्वजन्मान्तरदृष्टपाराः स्मरन्निवाक्लेशकरो गुरूणाम् । तिस्रस्त्रिवर्गाधिगमस्य मूलं जग्राह विद्याः प्रकृतीश्च पित्र्याः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स सुदर्शनः पूर्वस्मिञ्जन्मान्तरे जन्मविशेषे दृष्टपाराः स्मरन्निव गुरूणामक्लेशकरः सन्। त्रयाणां धर्मार्थकामानां वर्गस्त्रिवर्गः। तस्याधिगमस्य प्राप्तेर्मूलं तिस्रो विद्यास्त्रयी-वार्ता-दण्डनीतिः पित्र्याः पितृसंबन्धिनीः प्रकृतीः प्रजाश्च जग्राह स्वायत्तीचकार। अत्र कौटिल्यः-`धर्माधर्मौ त्रय्यामर्थानर्थौ वार्तायां नयानयौ दण्डनीत्याम्` इति। अत्र दण्डनीतिर्नयद्वारा काममूलमिति द्रष्टव्यम्। आन्वीक्षिक्या अनुपादानं त्रय्यन्तर्भावपक्षमाश्रित्य। यथाह कामन्दकः- `त्रयी वार्ता दण्डनीतिस्तिस्रो विद्या मनोर्मताः। त्रय्या एव विभागोऽयं येन सान्वीक्षिकी मता ॥` इति ॥
RV 18.51 उपजातिः
व्यूह्य स्थितः किंचिदिवोत्तरार्धमुन्नद्धचूडोऽञ्चितसव्यजानुः । आकर्णमाकृष्टसबाणधन्वा व्यरोचतास्त्रे स विनीयमानः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): व्यूह्येति॥ सः। अस्त्रे धनुर्विद्यायां विनीयमानः शिक्ष्यमाणोऽत एव, उत्तरार्धं पूर्वकाय किंचिदिव व्यूह्य विस्तार्य स्थितः। उन्नद्धचूड ऊर्ध्वमुत्कृष्य बद्धकेशः। अ ञअचतमाकुञ्चितं सव्यं जानु यस्य स आकर्णमाकृष्टं सबाणं धनुर्धन्व वा येन स तथोक्तः सन्। व्यरोचताशोभत ॥
RV 18.52 मालिनी
अथ मधु वनितानां नेत्रनिर्वेशनीय- मनसिजतरुपुष्पं रागबन्धप्रवालम् । अकृतकविधि सर्वाङ्गीणमाकल्पजातं विलसितपदमाद्यं यौवनं स प्रपेदे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ स सुदर्शनो वनितानां नेत्रैर्निर्वेशनीयं भोग्यम्। नेत्रपेयमित्यर्थः। `निवशो भृतिभोगयोः` इत्यमरः। मधु क्षौद्रम्। रागबन्धोऽनुरागसंतान एव प्रवालः पल्लवो यस्य तत्। मनसिज एव तरुस्तस्य पुष्पं पुष्पभूतम्। अकृतक्तविध्यकृत्रिमसंपादनम्। सर्वाङ्गं व्याप्नोतीति सर्वाङ्गीणम्। `तत्सर्वादेः-` (पा.5।9।7) इत्यादिना खप्रत्ययः। आकल्पजातमाभरणसमूहभूतम्। आद्यं विलसितपदं विलासस्थानं यौवनं प्रपेदे। विशिष्टमधुपुष्पाकल्पजातविलासपदत्वेन यौवनस्य चतुर्धाकरणात्सविशेषणमालारूपकमेतत् ॥
RV 18.53 मालिनी
प्रतिकृतिरचनाभ्यो दूतिसंदर्शिताभ्यः समधिकतररूपाः शुद्धसंतानकामैः । अधिविविदुरमात्यैराहृतास्तस्य यूनः प्रथमपरिगृहीते श्रीभुवौ राजकन्याः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रतिकृतीति॥ दूतिभिः कन्यापरीक्षणार्थं प्रेषिताभिः संदर्शिताभ्यो दूतिसंदर्शिताभ्यः प्रतिकृतीनां तूलिकादिलिखितकन्याप्रतिमानां रचनाभ्यो विन्यासेभ्यः। `पञ्चमी विभक्ते` (पा.2।3।42) इति पञ्चमी। समधिकतररूपाः। चित्रनिर्माणादपि रमणीयनिर्माणा इत्यर्थः। शुद्धसंतानकामैरमात्यैराहृता आनीता राजकन्या यूनस्तस्य सुदर्शनस्य संबन्धिन्यौ प्रथमपरिगृहीते श्रीभुवौ श्रीश्च भूश्च ते अधिविविदुरधिविन्ने चक्रुः। आत्मना सपत्नीभावं चक्रुरित्यर्थः। `कृतसापत्निकाध्यूढाधिविन्ना` इत्यमरः (अ.को.2|6|7) ॥
← Previous (Ch. 17) Full Table of Contents Next (Ch. 19) →