Skip to main content
Search
Ch. 18 RV 18.53
Full Chapter
RV • Chapter 18: Canto 18

RV 18.53

Canonical Ref: RV 18.53
Metrical Form: मालिनी
Sanskrit (Devanāgarī)
प्रतिकृतिरचनाभ्यो दूतिसंदर्शिताभ्यः समधिकतररूपाः शुद्धसंतानकामैः । अधिविविदुरमात्यैराहृतास्तस्य यूनः प्रथमपरिगृहीते श्रीभुवौ राजकन्याः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): प्रतिकृतीति॥ दूतिभिः कन्यापरीक्षणार्थं प्रेषिताभिः संदर्शिताभ्यो दूतिसंदर्शिताभ्यः प्रतिकृतीनां तूलिकादिलिखितकन्याप्रतिमानां रचनाभ्यो विन्यासेभ्यः। `पञ्चमी विभक्ते` (पा.2।3।42) इति पञ्चमी। समधिकतररूपाः। चित्रनिर्माणादपि रमणीयनिर्माणा इत्यर्थः। शुद्धसंतानकामैरमात्यैराहृता आनीता राजकन्या यूनस्तस्य सुदर्शनस्य संबन्धिन्यौ प्रथमपरिगृहीते श्रीभुवौ श्रीश्च भूश्च ते अधिविविदुरधिविन्ने चक्रुः। आत्मना सपत्नीभावं चक्रुरित्यर्थः। `कृतसापत्निकाध्यूढाधिविन्ना` इत्यमरः (अ.को.2|6|7) ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 18.53. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 18.52) All Verses in Chapter 18 Next Verse (RV 19.1) →