Skip to main content
Search
Ch. 18 RV 18.32
Full Chapter
RV • Chapter 18: Canto 18

RV 18.32

Canonical Ref: RV 18.32
Metrical Form: इन्द्रवज्रा
Sanskrit (Devanāgarī)
तस्य प्रभानिर्जितपुष्परागं पौष्यां तिथौ पुष्यमसूत पत्नी । तस्मिन्नपुष्यन्नुदिते समग्रां पुष्टिं जनाः पुष्य इव द्वितीये ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ तस्य पुत्राख्यस्य पत्नी पौष्यां पुष्यनक्षत्रयुक्तायां पौर्णमास्यां तिथौ। `पुष्ययुक्ता पौर्णमासी पौषी` इत्यमरः। `नक्षत्रेण युक्तः कालः` (पा.4।2।3) इत्यण्प्रत्ययः। `टिड्ढाणञ्-` (पा.4।1।15) इत्यादिना ङीप्। प्रभया निर्जितः पुष्परागो मणिविशेषो येन तं पुष्यं पुष्याख्यमसूत। द्वितीये पुष्ये पुष्यनक्षत्र इव तस्मिन्नुदिते सति जनः समग्रां पुष्टिं वृद्धिमपुष्यन् ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 18.32. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 18.31) All Verses in Chapter 18 Next Verse (RV 18.33) →