Skip to main content
Search
RV
Raghuvaṁśam • Chapter 19

Canto 19

एकोनविंशः सर्गः (अग्निवर्णशृङ्गारः)

Canto 19 of Raghuvaṁśam.

Total: 57 Verses • Citations: RV 19.1–57 • 1 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
RV 19.1 रथोद्धता
अग्निवर्णमभिषिच्य राघवः स्वे पदे तनयमग्नितेजसम् । शिश्रिये श्रुतवतामपश्चिमः पश्चिमे वयसि नैमिषं वशी ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अग्निवर्णमिति॥ श्रुतवतां श्रुतसंपन्नानामपश्चिमः प्रथमो वशी जितेन्द्रियो राघवः सुदर्शनः पश्चिमे वयसि वार्द्धके स्वे पदे स्थानेऽग्नितेजसं तनयमग्निवर्णमभिषिच्य नैमिषं नैमिषारण्यं शिश्रिये श्रितवान् ॥
RV 19.2 रथोद्धता
तत्र तीर्थसलिलेन दीर्घिकास्तल्पमन्तरितभूमिभिः कुशैः । सौधवासमुटजेन विस्मृतः संचिकाय फलनिःस्पृहस्तपः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति॥ तत्र नैमिषे तिर्थसलिलेन दीर्घिका विहारवापीरन्तरितभूमिभिः कुशैस्तल्पं शय्यामुटजेन पर्णशालया सौधवासं विस्मृतो विस्मृतवान्सः। कर्तरि क्तः। फले स्वर्गादिफले निःस्पृहस्तपः संचिकाय संचितवान् ॥
RV 19.3 रथोद्धता
लब्धपालनविधौ न तत्सुतः खेदमाप गुरुणा हि मेदिनी । भोक्तुमेव भुजनिर्जितद्विषा न प्रसाधयितुमस्य कल्पिता ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): लब्धेति॥ ततत्सुतः सुदर्शनपुत्रोऽग्निवर्णो लब्धपालनविधौ लब्धस्य राज्यस्य पालनकर्मणि खेदं नाप। अक्लेशेनापालयदित्यर्थः। कुतः? हि यस्मात्। भुजनिर्जितद्विषा गुरुणा पित्रा मेदिन्यस्याग्निवर्णस्य भोक्तुमेव कल्पिता, प्रसाधयितुं न। प्रसाधनं कण्टकशोधनम्। अलंकृतिर्ध्वन्यते। तथा च यथालंकृत्य नीता युवतिः केवलमुपभुज्यते तद्वदिति भावः ॥
RV 19.4 रथोद्धता
सोऽधिकारमभिकः कुलोचितं काश्चन स्वयमवर्तयत्समाः । संनिवेश्य सचिवेष्वतः परं स्त्रीविधेयनवयौवनोऽभवत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ अभिकः कामुकः। `अनुकाभिकाभीकः कमिता` (पा.5।2।74) इति निपातः। `कम्रः कामयिताऽभीकः कमनः कामनोऽभिकः` इत्यमरः। सोऽग्निवर्णः कुलोचितमधिकारं प्रजापालनं काश्चन समाः कतिचिद्वत्सरान् स्वयमवर्तयदकरोत्। अतःपरं सचिवेषु संनिवेश्य निधाय स्त्रीविधेयं स्त्र्यधीनं नवं यौवनं यस्य सोऽभवत्। स्त्र्यासक्तोऽभूदित्यर्थः ॥
RV 19.5 रथोद्धता
कामिनीसहचरस्य कामिनस्तस्य वेश्मसु मृदङ्गनादिषु । ऋद्धिमन्तमधिकर्द्धिरुत्तरः पूर्वमुत्सवमपोहदुत्सवः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कामिनीति॥ कामिनीसहचरस्य कामिनस्तस्य मृदङ्गनादिषु मृदङ्गनादवत्सु वेश्मस्वधिकर्द्धिः पूर्वस्मादधिकसंभारः उत्तर उत्सवः। ऋद्धिमन्तं साधनसंपन्नं पूर्वमुत्सवमपोहदपानुदत्। उत्तरोत्तराधिका तस्योत्सवपरम्परा वृत्तेत्यर्थः ॥
RV 19.6 रथोद्धता
इन्द्रियार्थपरिशून्यमक्षमः सोढुमेकमपि स क्षणान्तरम् । अन्तरेव विहरन्दिवानिशं न व्यपैक्षत समुत्सुकाः प्रजाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इन्द्रियेति॥ इन्द्रियार्थपरिशून्यं शब्दादिविषयरहितमेकमपि क्षणान्तरं क्षणभेदं सोढुमक्षमोऽशक्तः सोऽग्निवर्णो दिवानिशमन्तरेव विहरन् समुत्सुका दर्शनाकाङ्क्षिणीः प्रजा न व्यपैक्षत नापेक्षितवान् ॥
RV 19.7 रथोद्धता
गौरवाद्यदपि जातु मन्त्रिणां दर्शनं प्रकृतिकाङ्क्षितं ददौ । तद्गवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): गोरवादिति॥ जातु कदाचिन्मन्त्रिणां गौरवाद्गुरुत्वाद्धेतोः। मन्त्रिवचनानुरोघादित्यर्थः। प्रकृतिभिः प्रजाभिः काङ्क्षितं यदपि दर्शनं ददौ तदपि गवाक्षविवरावलम्बिना केवलेन चरणेन चरणमात्रेण कल्पितं संपादितम्, न तु मुखावलोकनप्रदानेनेत्यर्थः ॥
RV 19.8 रथोद्धता
तं कृतप्रणतयोऽनुजीविनः कोमलात्मनखरागरूषितम् । भेजिरे नवदिवाकरातपस्पृष्टपङ्कजतुलाधिरोहणम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ कोमलेन मृदुलेनात्मनखानां रागेणारुप्येन रूषितं छुरितम्। अत एव नवदिवाकरातपेन स्पृष्टं व्याप्तं यत्पङ्कजं तस्य तुलां साम्यतामधिरोहति प्राप्नोतीति तुलाधिरोहणम्। तं चरणमनुजीविनः कृतप्रणतयः कृतनमस्काराः सन्तो भेजिरे सिषेविरे ॥
RV 19.9 रथोद्धता
यौवनोन्नतविलासिनीस्तनक्षोभलोलकमलाश्च दीर्घिकाः । गूढमोहनगृहास्तदम्बुभिः स व्यगाहत विगाढमन्मथः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): यौवनेति॥ विगाढमन्मथः प्रौढमदनः सोऽग्निवर्णो यौवनेन हेतुनोन्नतानां विलासिनीस्तनानां क्षोभेणाघातेन लोलानि चञ्चलानि कमलानि वासां ताः। तदम्बुभिस्तासां दीर्घिकाणामम्बुभिर्गृढान्यन्तर्हितानि मोहनगृहाणि सुरतभवनानि यासु ताश्च दीर्घिका व्यगाहृत। स्त्रीभिः सह दीर्घिकासु विजहारेत्यर्थः ॥
RV 19.10 उपजातिः
तत्र सेकहृतलोचनाञ्जनैर्धौतरागपरिपाटलाधरैः । अङ्गनास्तप्तधिकं व्यलोभयन्नार्पितप्रकृतकान्तिभिर्मुखैः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति॥ तत्र दीर्घिकास्वङ्गनाः सेकेन हृतं लोचनाञ्जनं नेत्रकज्जलं येषां तैः। रज्यतेऽनेनेति रागो रागद्रव्यं लाक्षादि। रागस्य परिपाटलोऽङ्गगुणः। `गुणे शुक्लादयः पुंसि` इत्यमरः (अ.को.1|5|18)। धौतो रागपरिपाटलो येषां ते तथोक्ता अधरायेषां तैः। निवृत्तसांक्रमिकरागैरित्यर्थः। अत एवार्पितप्रकृतकान्तिभिः। अभिव्यञ्जितस्वाभाविकरागैरित्यर्थः। एवंभूतैर्मुखे त्तनग्निवर्णमधिकं व्यलोभयन् प्रलोभितवत्यः ॥
RV 19.11 उपजातिः
घ्राणकान्तमधुगन्धकार्षेणीः पानभूमिरवनाः प्रियासखः । अभ्यपद्यत स वासितासखः पुष्पिताः कमलिनीरिव द्विपः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): घ्राणेति॥ प्रियासखः सोऽग्निवर्णो घ्राणकान्तेन घ्राणतर्पणेन मधुगन्धेन कर्षिणीर्मनोहारिणीः। रच्यन्त इति रचनाः, पानभूपय एव रचनाः, रचिताः पानभूमय इत्यर्थः। वासितासखः करिणीसहचरः। `वासिता स्त्रीकरिण्योश्च` इत्यमरः। द्विपः पुष्पिताः कमलिनीरिव। अभ्यपद्यताभिगतः ॥
RV 19.12 रथोद्धता
सातिरेकमदकारणं रहस्तेन दत्तमभिलेषुरङ्गनाः । ताभिरप्युपहृतं मुखासवं सोऽपिबद्बकुलतुल्यदोहदः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सातिरेकेति॥ अङ्गना रहो रहसि सातिरेकस्य सातिशयस्य मदस्य कारणं तेनाग्निवर्णेन दत्तं मुखासवमभिलेषुः। बकुलेन तुल्यदोहदस्तुल्याभिलाषः। `अथ दोहदम्। इच्छाकाङ्क्षा स्पृहेहा तृट्` इत्यमरः। बकुलद्रुमस्याङ्गनामद्यार्थित्वात्तुल्याभिलाषत्वम्। सोऽपि ताभिरङ्गनाभिरुपहृतं दत्तं मुखासवमपिबत् ॥
RV 19.13 रथोद्धता
अङ्कमङ्कपरिवर्तनोचिते तस्य निन्यतुरशून्यतामुमे । वल्लकी च हृदयंगमस्वना वल्गुवागपि च वोमलोचना ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अङ्कमिति॥ अङ्कपरिवर्तनोचिते उत्सङ्गविहारार्हे उमे तस्याग्निवर्णस्याङ्कमशून्यतां पूर्णतां निन्यतुः। के उभे? हृदयंगमस्वना मनोहरध्वनिर्वल्लकी वीणा च। वल्गुवाङ्मुधुरभाषिणी वामलोचना कामिन्यपि च हृदयं गच्छतीति हृदयंगमः। खच्प्रकरणे गमेः सुप्युपसंख्यानात्खच्प्रत्ययः। अङ्काधिरोपितयोर्वीणा-वामाक्ष्योर्वाद्य-गीताभ्यामरंस्तेत्यर्थः ॥
RV 19.14 रथोद्धता
स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयो हरन्मनः । नर्ककीरभिनयातिलङ्घिनीः पार्श्ववर्तिषु गुरुष्वलज्जयत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ कृती कुशलः स्वयं प्रहतपुष्करो वादितवाद्यमुखो लोलानि माल्यानि वलयानि च यस्य स तथोक्तं मनो हरन्। नर्तकीनामिति शेषः। सोऽग्निवर्णोऽभिनयातिलङ्घिनीः। अभिनयेषु स्खलन्तीरित्यर्थः। नर्तकीर्विलासिनीः। `शिल्पिनि ष्वुन्` (पा.3।1।145) इति ष्वुन्प्रत्ययः। `षिद्गौरादिभ्यश्च` (पा.4।1।41) ङीप्। `नर्तकीलासिके समे` इत्यमरः (अ.को.1|7|9)। गुरुषु नाट्याचार्येषु पार्श्ववर्तिषु समीपस्थेषु सत्स्वेव। अलज्जयत् लज्जामगमयत् ॥
RV 19.15 रथोद्धता
चारु नृत्यविगमे च तन्मुखं स्वेदभिन्नतिलकं परिश्रमात् । प्रेमदत्तवदनानिलः पिबन्नत्यजीवदमरालकेश्वरौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): चाविति॥ किंच, चारु सुन्दरं नृत्यविगमे लास्यावसाने परिश्रमान्नर्तनऽवासात्स्वेदेन भिन्नतिलकं विशीर्णतिलकं तन्मुखं नर्तकीमुखं प्रेम्णा दत्तवदनानिलः प्रवर्तितमुखमारुतः पिबन्। अमराणामलकायाश्चेश्वराविन्द्रकुबेरौ। अत्यजीवदतिक्रम्याजीवत्। ततोऽप्युत्कृष्टजीवित आसीदित्यर्थः। इन्द्रादेरपि दुर्लभमीदृशं सौभाग्यमिति भावः ॥
RV 19.16 रथोद्धता
तस्य सावरणदृष्टसंधयः काम्यवस्तुषु नवेषु सङ्गिनः । वल्लभाभिरुपसृत्य चक्रिरे सामिभुक्तविषयाः समागमाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ उपसृत्यान्यत्र गत्वा न वेषु नूतनेषु काम्यवस्तुषु शब्दादिष्विन्द्रियार्थेषु सङअगिन आसक्तिमतः सतस्तस्य सावरणाः प्रच्छन्ना दृष्टाः प्रकाशाश्च संधयः साधनानि येषु ते समागमाः संगमा वल्लभाभिः प्रेयसीभिः सामिभुक्तविषया अर्धोपभुक्तेन्द्रियार्थाश्चक्रिरे। यथेष्टं भुक्तश्चेत्तर्ह्ययं निःस्पृहः सन्नस्मत्समीपं नायास्यतीति भावः। अत्र गोनर्दीयः-`संधिद्विविधः-सावरणः, प्रकाशश्च। छावरणो भिक्षुक्यादिना प्रकाशः स्वयमुपेत्य केनापि` इति। `इतः स्वयमुपसृत्य विशेषार्थीं तत्र स्थितोऽनुपजापं स्वयं संधेयः` इति वात्स्यायनः। अन्यत्र गतं कथंचित्संधाय पुनरुपगमायार्धोपभोगेनानिवृत्ततृष्णं चक्रुरित्यर्थः ॥
RV 19.17 रथोद्धता
अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितम् । मेखलाभिरसकृञ्च बन्धनं वञ्चयन्प्रणयिनीरवाप सः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अङ्गुलीति॥ सोऽग्निवर्णः प्रणयिनीः प्रेयसीर्वञ्चयन्नन्यत्र गच्छन्। अङ्गुल्यः किसलयानि तेषामग्राणि तैस्तर्जनं भर्त्सनं भ्रुविभङ्गेन भ्रूमेदेन कुटिलं वक्रं वीक्षितं वीक्षणं चासकृन्मेखलाभिर्बन्धनं चावाप। अपराधिनो दण्ञ्डा इति भावः ॥
RV 19.18 रथोद्धता
तेन दूतिविदितं निषेदुषा पृष्ठतः सुरतवाररात्रिषु । शुश्रुवे प्रियजनस्य कातरं विप्रलम्भपरिशङ्किनो वचः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तेनेति॥ सुरतस्य वारो वासरः, तस्य रात्रिषु दूतीनां विदितं यथा तथआ पृष्ठतः प्रियजनस्य पश्चाद्भागे निषेदुषा तेनाग्निवर्णेन विप्रलम्भपरिशङ्किनो विरहशङ्किनः। प्रियश्चासौ जनश्च प्रियजनः। तस्य कातरं वचः `प्रियानयनेन मां पाहि` इत्येवमादि दीनवचनं शुश्रुवे ॥
RV 19.19 रथोद्धता
लौल्यमेत्य गृहिणीपरिग्रहान्नर्तकीषअवसुलभासु तद्वपुः । वर्तते स्म स कथंचिदालिखन्नङ्गुलीक्षरणसन्नवर्तिकः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): लौल्यमिति॥ गृहिणीपरिग्रहाद्राज्ञीभिः समागमाद्धेतोर्नर्तकीषु वेश्यास्वसुलभासु दुर्लभासु सतीषु लौल्यमौत्सुक्यमेत्य प्राप्य। अङ्गुल्योः क्षरणेन स्वेदनेन सन्नवार्तिको विगलितशलाकः सोऽग्निवर्णस्तासां नर्तकीनां वपुस्तद्वपुरालिखन् कथंचिद्वर्तते स्मावर्त ॥
RV 19.20 रथोद्धता
प्रेमगर्वितविपक्षमत्सरादायताञ्च मदनान्महीक्षितम् । निन्युरुत्सवविधिञ्छलेन तं देव्य उज्झितरुषः कृतार्थताम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रेमेति॥ प्रेम्णा स्वविषयेण प्रियस्यानुरागेण हेतुना गर्विते विपक्षे सपत्नजने मत्सराद्वैरादायतात्प्रवृद्धान्मदनाञ्च हेतोर्देव्यो राज्ञ्य उज्झितरुषस्त्यक्तरोषाः अत्यस्तं महीक्षितम्। उत्सवविधिच्छलेन महोत्सवकर्मव्याजेन। कृतोऽर्थः प्रयोजनं येन स कृतार्थः, तस्य भावं कृतार्थतां निन्युः। मदनमहोत्सवव्याजानीतेन तेन अमनोरथं कारयामासुरित्यर्थथः ॥
RV 19.21 रथोद्धता
प्रातरेत्य परिभोगशोभिना दर्शनेन कृतखण्डनव्यथाः । प्राञ्जलिः प्रणयिनीः प्रसादयन्सोऽदुनोत्प्रणयमन्थरः पुनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रातरिति॥ सोऽग्निवर्णः प्रातरेत्यागत्य परिभोगशोभिना दर्शनेन हेतुना। दृशेर्ण्यन्ताल्ल्युट्। कृता खण्डनव्यथा यासां तास्तथोक्ताः खण्डिता इत्यर्थः। तदुक्तम्-`ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्याकषायिता` इति। प्रणयिनीः प्राञ्जलिः प्रसादयंस्तथापि प्रणयमन्थरः प्रणयेन नर्तकीगतेन मन्थरोऽलसः। तत्र शिथिलप्रयत्नः सन्नित्यर्थः। पुनरदुनोत् पर्यतापयत् ॥
RV 19.22 रथोद्धता
स्पप्नकीर्तितविपक्षमङ्गनाः प्रत्यभैत्सुरवदन्त्य एव तम् । प्रच्छदान्तगलिताश्रुबिन्दुभिः क्रोधभिन्नवलयैर्विवर्तनैः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स्वप्नेति॥ स्वप्ने कीर्तितो विपक्षः सपत्नजनो येन तं। तमग्निवर्णम्। अवदन्त्य एव। त्वया गोत्रस्खलनं कृतमित्यनुपालम्भमाना एव। प्रच्छदस्यास्तरणपटस्यान्ते अध्ये गलिता अश्रुबिन्दवो येषु तैः क्रोधेन भिन्नानि भग्नानि वलयानि येषु तैर्विवर्तनैः पराग्विलुण्ठनैः प्रत्यभैत्सुः प्रतिचक्रुः। तिरश्चक्रुरित्यर्थः ॥
RV 19.23 रथोद्धता
क्लृप्तपुष्पशयनाँल्लतागृहानेत्य दूतिकृतमार्गदर्शनः । अन्वभूत्परिजनाङ्गनारतं सोऽवरोधभयवेपथूत्तरम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): क्लृप्तेति॥ सोऽग्निवर्णो दूतिभिः कृतमार्गदर्शनः सन्। क्लृप्तपुष्पशयनाँल्लतागृहानेत्य। अवरोधादन्तःपुरजनाद्भयेन यो वेपथुः कम्पस्तदुत्तरं तप्रधानं यथा तथा परिजनाङ्गनारतं दासीरतमन्वभूत्। परिजनश्चासावङ्गना चेति विग्रहः। अत्र छीबन्तस्यापि `दूती` शब्दस्य छन्दोभङ्गभयाद्ध्रस्वत्वं कृतम्। `अपि माषं मषं कुर्याच्छन्दोभङ्गं त्यजेद्गिराम्` इत्युपदेशात् ॥
RV 19.24 रथोद्धता
नाम वल्लभजनस्य ते मया प्राप्य भाग्यमपि तस्य काङ्क्ष्यते । लोलुपं ननु मनो ममेति तं गोत्रविस्खलितमूचुरङ्गनाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): नामेति॥ मया ते वल्लभजनस्य प्रियजनस्य नाम प्राप्य तन्नाम्नाह्वानं लब्ध्वा तस्य त्वद्वल्लभजनस्य यद्भाग्यम्। तत्परिहासकारणमिति शेषः। तदपि काङ्क्ष्यते। ननु बत मम मनो लोलुपं गृध्रु। इत्यनेन प्रकारेण गोत्रे नाम्नि विस्खलितं स्खलितवन्तं तमग्निवर्णमूचुः। `गोत्रं नाम्नि कुलेऽचले` इति यादवः। तन्नामलाभे सति तद्भाग्यमपि काङ्क्ष्यते मनः। अहो तृष्णेति सोल्लुण्ठमुपालम्भन्तेत्यर्थः ॥
RV 19.25 रथोद्धता
चूर्णबभ्रु लुलितस्नगाकुलं छिन्नमेखलमलक्तकाङ्कितम् । उत्थितस्य शयनं विलासिनस्तस्य विभ्रमरतान्यपावृणोत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): चूर्णेति॥ चूर्णैर्बभ्रु चूर्णैर्व्यानतकरणैरधोमुखव्स्थितायाः स्त्रियाशअचिकुरगलितैः कुङ्कुमादिभिर्बभ्रु पिङ्गलम्। `बभ्रु स्यात्पिङ्गले त्रिषु` इत्यमरः। लुलितस्नगाकुलं वरिपदाख्यबन्धे स्त्रिया भूमिगतमस्तकतया पतिताभिर्लुलितस्रग्भिराकुलम्। छिन्नमेखलं हरिविक्रमकरणैः स्त्रिया उच्छ्रितैकचरणत्वाच्छिन्नमेखलम्, गलितमेखलमित्यर्थः। अलक्तकाङ्कितं धेनुकबन्धे भूतलनिहितकान्ताचरणत्वाल्लक्षारागखषितं शयनं कर्तृ। उत्थितस्य । शयनादिति भावः। विलासिनस्तस्याग्निवर्णस्य विभ्रमरतानि लीलारतानि। सुरतबन्धविशेषानित्यर्थः। अपावृणोत् स्फुटीचकार। व्यानतादीनां लक्षणं रतिरहस्ये-`व्यानतं रतमिदं प्रिया यदि स्यादधोमुखचतुष्पदाकृतिः। तत्कटिं समधिरुह्य वल्लभः स्याद्वृषादिपशुसंस्थितस्थितिः। भूगतस्तनभुजास्यमस्तकामुन्नतस्फिञ्चमधोमुखीं स्त्रियम्। क्रामति स्वकरकृष्टमेहने वल्लभे वरिपदं तदुच्यते। योषिदेकचरणे समुत्विते जायते हि हरिविक्रमाह्वयः। न्यस्तद्दस्तयुगला निजे पदे योषिदेति कटिरूढवल्लभा। अग्रतो यदि शनैरधोमुखी धैनुकं वृषवदुन्नते प्रिये ॥` इति ॥
RV 19.26 रथोद्धता
स स्वयं चरणरागमादधे योषितां न च तथा समाहितः । लोभ्यमाननयनः श्लथांशुकैर्मेखलागुणपदैर्नितम्बिभिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ सोऽग्निवर्णः स्वयमेव योषितां चरणयो रागं लाक्षारसमादधेऽर्पयामास। किं च, श्लथांशुकैः। प्रियाङ्गस्पर्शादिति भावः। नितम्बिभिर्नितम्बवद्भिर्मेखलागुणपदैर्जघनैः। `पश्चान्नितम्बः स्त्रीकठ्याः क्लीबे तु जघनं पुरः` इत्यमरः। लोभ्यमाननयन आकृष्यमाणदृष्टिः सन्। तथा समाहितोऽवहितो नादधे यथासम्यग्रागरचना स्यदिति भावः ॥
RV 19.27 रथोद्धता
चुम्बने विपरिवर्तिताधरं हस्तरोधि रशनाविघट्टने । विघ्नितेच्छमपि तस्य सर्वतो मन्मथेन्धनमभूद्वधूरतम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): चुम्बन इति॥ चुम्बने प्रवृत्ते सति विपरिवर्तिताधरं परिहृतोष्ठम्। रशनाया विघट्टने ग्रन्थिविस्रंसने प्रसक्ते सति हस्तं रुणद्धिवारयतीति हस्तरोधि। इत्थं सर्वतः सर्वत्र विघ्नितेच्छं प्रतिहतमनोरथमपि वधूनां रतं सुरतं तस्याग्निवर्णस्य मन्मथेन्धनं कामोद्दीपनमभूत् ॥
RV 19.28 रथोद्धता
दर्पणेषु परिभोगदर्शिनीर्नर्मपूर्वमनुपृष्ठसंस्थितः । छायया स्मितमनोज्ञया वधूर्ह्नीनिमीलितमुखीश्चकार सः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): दर्पणेष्विति॥ सोऽग्निवर्णो दर्पणेषु परिभोगदर्शिनीः संभोगचिह्नानि पश्यन्तीर्वधूर्नर्मपूर्व परिहासपूर्वम्। अनुपृष्ठं तासां पृष्ठभागे संस्थितः सन्। स्मितेन मनोज्ञया छायया दर्पणगतेन स्वप्रतिबिम्बेन ह्नीनिमीलितमुखीर्लज्जावनतमुखीश्चकार। तमागतं दृष्ट्वा लज्जिता इत्यर्थः ॥
RV 19.29 रथोद्धता
कण्ठसक्तमृदुबाहुबन्धनं न्यस्तपादतलमग्नपादयोः । प्रार्थयन्त शयनोत्थितं प्रियास्तं निशात्ययविसर्गचुम्बनम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कण्ठेति॥ प्रियाः शयनादुत्थितं तमग्निवर्णं कण्ठसक्तं कण्ठार्पितं मृदुबाहुबन्धनं यस्मिंस्तत्। अग्रपादयोः स्वकीययोर्न्यस्ते पादतले यस्मिंस्तत्। निशात्यये विसर्गो विसृज्य गमनं तत्र यञ्चुम्बनं तत्प्रार्थयन्त। `दुह्याच्-` इत्यादिना द्विकर्मकत्वम्। अत्र गोनर्दीयः-`रतावसाने यदि चुम्बनादि प्रयुज्य यायान्मदनोऽस्य वासः` इति ॥
RV 19.30 रथोद्धता
प्रेक्ष्य दर्पणतलस्थमात्मनो राजवेषमतिशक्रशोभिनम् । पिप्रिये न स तथा यथा युवा व्यक्तलक्ष्म परिभोगमण्डनम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रेक्ष्येति॥ युवा सोग्निवर्णोऽतिशक्रं यथा तथा शोभमानमतिशक्रशोभिनं तर्पणतलस्थं दर्पणसंक्रान्तम्। आत्मनो राजवेषं प्रेक्ष्य तथा न पिप्रिये न तुतोष यथा व्यक्तलक्ष्म प्रकटचिह्नं परिभोगमण्डनं प्रेक्ष्य पिप्रिये ॥
← Previous (Ch. 18) Full Table of Contents