Skip to main content
Search
Ch. 18 RV 18.34
Full Chapter
RV • Chapter 18: Canto 18

RV 18.34

Canonical Ref: RV 18.34
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
ततः परं तत्प्रभवः प्रपेदे ध्रुवोपमेयो ध्रुवसंधिरुर्वीम् । यस्मिन्नभूज्ज्यायसि सत्यसंधे संधिर्ध्रुवः संनमतामरीणाम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततः परं स पुष्यः प्रभवः कारणं यस्य स तत्प्रभवः। तदात्मज इत्यर्थः। ध्रुवेणौत्तानपादिनोपमेयः। `ध्रुव औत्तानपादिः स्यात्` इत्यमरः (अ.को.1|3|22)। ध्रुवसंधिरुर्वीं प्रपेदे। ज्यायसि श्रेष्ठे सत्यसंधे सत्यप्रतिज्ञे यस्मिन् ध्रुवसंधौ संनमताम्, अनुद्धतानामित्यर्थः। अरीणां संधिर्ध्रुवः स्थिरोऽभूत्। ततः सार्थकनामेत्यर्थः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 18.34. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 18.33) All Verses in Chapter 18 Next Verse (RV 18.35) →