अभ्यागत आह—अस्ति किञ्चित्खनित्रकम् ।
स आह—बाढमस्ति । एषा सर्व-लोह-मयी स्व-हस्तिका ।
अभ्यागत आह—तर्हि प्रत्यूषे त्वया मया सह स्थातव्यम् । येन द्वावपि जन-चरण-मलिनायां भूमौ तत्-पदानुसारेण गच्छावः । मयापि तद्-वचनमाकर्ण्य चिन्तितम्-अहो विनष्टोऽस्मि, यतोऽस्य साभिप्राय-वचांसि श्रूयन्ते । नूनं, यथा निधानं ज्ञातं तथा दुर्गमप्यस्माकं ज्ञास्यति । एतदभिप्रायादेव ज्ञायते । उक्तं च—
सकृदपि दृष्ट्वा पुरुषं विबुधा जानन्ति सारतां तस्य । हस्त-तुलयापि निपुणाः पल-प्रमाणा विजानन्ति ॥
वाञ्छैव सूचयति पूर्वतरं भविष्यं पुंसां यदन्य-तनुजं त्वशुभं शुभं वा । विज्ञायते शिशुरजात-कलाप-चिह्नः प्रत्युद्गतैरपसरन्सरलः कलापी ॥
ततोऽहं भय-त्रस्त-मनाः सपरिवारो दुर्ग-मार्गं परित्यज्यान्य-मार्गेण गन्तुं प्रवृत्तः । सपरिजनो यावदग्रतो गच्छामि तावत्सम्मुखो बृहत्कायो मार्जारः समायाति । स च मूषक-वृन्दमवलोक्य तन्-मध्ये सहसोत्पपात । अथ ते मूषका मां कुमार्ग-गामिनमवलोक्य गर्हयन्तो हत-शेषा रुधिर-प्लावित-वसुन्धरास्तमेव दुर्गं प्रविष्टाः । अथवा साध्विदमुच्यते—
छित्त्वा पाशमपास्य कूट-रचनां भङ्क्त्वा बलाद्वागुरां पर्यन्ताग्नि-शिखा-कलाप-जटिलान्निर्गत्य दूरं वनात् । व्याधानां शर-गोचरादपि जवेनोत्पत्य धावन्मृगः कूपान्तः-पतितः करोतु विधुरे किं वा विधौ पौरुषम् ॥
अथाहमेकोऽन्यत्र गतः । शेषा मूढतया तत्रैव दुर्गे प्रविष्टाः । अत्रान्तरे स दुष्ट-परिव्राजको रुधिर-बिन्दु-चर्चितां भूमिमवलोक्य तेनैव दुर्ग-मार्गेणागत्योपस्थितः ।
यदुत्साही सदा मर्त्यः पराभवति यज्जनान् । यदुद्धतं वदेद्वाक्यं तत्सर्वं वित्तजं बलम् ॥
अथाहं तच्छ्रुत्वा कोपाविष्टो भिक्षा-पात्रमुद्दिश्य विशेषादुत्कूर्दितोऽप्राप्त एव भूमौ निपतितः । तच्छ्रूत्वासौ मे शत्रुर्विहस्य ताम्रचूडमुवाच-भोः ! पश्य पश्य कौतूहलम् । आह च—
अर्थेन बलवान्सर्वोऽप्यर्थ-युक्तः स पण्डितः । पश्यैनं मूषकं व्यर्थं सजातेः समतां मतम् ॥
तत्स्वपिहि त्वं गत-शङ्कः । यदस्योत्पतन-कारणं तदावयोर्हस्त-गतं जातम् । अथवा साध्विदमुच्यते—
दंष्ट्रा-विरहितः सर्पो मद-हीनो यथा गजः । तथार्थेन विहीनोऽत्र पुरुषो नाम-धारकः ॥
तच्छ्रुत्वाहं मनसा विचिन्तितवान्-यतोऽङ्गुलि-मात्रमपि कूर्दन-शक्तिर्नास्ति, तद्धिगर्थ-हीनस्य पुरुषस्य जीवितम् । उक्तं च—
अर्थेन च विहीनस्य पुरुषस्याल्प-मेधसः । व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥
यथा काक-यवाः प्रोक्ता यथारण्य-भवास्तिलाः । नाम-मात्रा न सिद्धौ हि धन-हीनास्तथा नराः ॥
सन्तोऽपि न हि राजन्ते दरिद्रस्येतरे गुणाः । आदित्य इव भूतानां श्रीर्गुणानां प्रकाशिनी ॥
न तथा बाध्यते लोके प्रकृत्या निर्धनो जनः । यथा द्रव्याणि सम्प्राप्य तैर्विहीनोऽसुखे स्थितः ॥
शुष्कस्य कीट-खातस्य वह्नि-दग्धस्य सर्वतः । तरोरप्यूषरस्थस्य वरं जन्म न चार्थिनः ॥
शङ्कनीया हि सर्वत्र निष्प्रतापा दरिद्रता । उपकर्तुमपि हि प्राप्तं निःस्वं सन्त्यज्य गच्छति ॥
उन्नम्योन्नम्य तत्रैव दरिद्राणां मनोरथाः । पतन्ति हृदये व्यर्था विधवास्त्रीस्तना इव ॥
व्यक्तेऽपि वासरे नित्यं दौर्गत्य-तमसावृतः । अग्रतोऽपि स्थितो यत्नान्न केनापीह दृश्यते ॥
एवं विलप्याहं भग्नोत्साहस्तन्-निधानं गण्डोपधानीकृतं दृष्ट्वा स्वं दुर्गं प्रभाते गतः । ततश्च मद्-भृत्याः प्रभाते गच्छन्तो मिथो जल्पन्ति-अहो,असमर्थोऽयमुदर-पूरणेऽस्माकम् । केवलमस्य पृष्ठ-लग्नानां विडालादि-विपत्तयः तत्किमनेनाराधितेन ?उक्तं च—
यत्-सकाशान्न लाभाः स्यात्केवलाः स्युर्विपत्तयः । स स्वामी दूरतस्त्याज्यो विशेषादनुजीविभिः ॥
एवं तेषां वचांसि श्रुत्वा स्व-दुर्गं प्रविष्टोऽहम् । यावन्न कश्चिन्मम संमुखेऽभ्येति तावन्मया चिन्तितम्-धिगियं दरिद्रता । अथवा साध्विदमुच्यते—
मृतो दरिद्रः पुरुषो मृतं मैथुनमप्रजम् । मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणम् ॥
व्यथयन्ति परं चेतो मनोरथ-शतैर्जनाः । नानुष्ठानैर्धनैर्हीनाः कुलजाः विधवा इव ॥
दौर्गत्यं देहिनां दुःखमपमान-करं परम् । येन स्वैरपि मन्यन्ते जीवन्तोऽपि मृता इव ॥
दैन्यस्य पात्रतामेति पराभृतेः परं पदम् । विपदामाश्रयः शश्वद्दौर्गत्य-कलुषी-कृतः ॥
लज्जन्ते बान्धवास्तेन सम्बन्धं गोपयन्ति च । मित्राण्यमित्रतां यान्ति यस्य न स्युः कपर्दकाः ॥