Skip to main content
Search
MBh
Mahābhārata • Parva 12 (Śāntiparva) • Adhyāya 37

Śāntiparva Adhyāya 37

शान्तिपर्व • अध्यायः 37

Śāntiparva Adhyāya 37 of the classical Mahābhārata with 44 verses.

Total: 44 Verses • Citations: MBh 12.37.1–44 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
एवमुक्तो भगवता धर्मराजो युधिष्ठिरः । चिन्तयित्वा मुहूर्तं तु प्रत्युवाच तपोधनम् ॥
English Translation
Vaishampayana said This accosted by the holy Rishi, king Yudhishthira the just, having thought for a short time, said these words to the sage.
किं भक्ष्यं किमभक्ष्यं च किं च देयं प्रशस्यते । किं च पात्रमपात्रं वा तन्मे ब्रूहि पितामह ॥
English Translation
Yudhishthira said Tell me, O grandfather, what food is clean and what, unclean, what gift is praiseworthy, and who is the deserving, and who, undeserving (recipients of gifts).
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । सिद्धानां चैव संवादं मनोश्चैव प्रजापतेः ॥
English Translation
Vyasa said “Regarding it is cited a old discourse between the ascetics and that lord of creation, viz., Manu.
सिद्धास्तपोव्रतपराः समागम्य पुरा विभुम् । धर्मं पप्रच्छुरासीनमादिकाले प्रजापतिम् ॥
कथमन्नं कथं दानं कथमध्ययनं तपः । कार्याकार्यं च नः सर्वं शंस वै त्वं प्रजापते ॥
तैरेवमुक्तो भगवान्मनुः स्वायंभुवोऽब्रवीत् । शुश्रूषध्वं यथावृत्तं धर्मं व्याससमासतः ॥
अदत्तस्यानुपादानं दानमध्ययनं तपः । अहिंसा सत्यमक्रोधः क्षमेज्या धर्मलक्षणम् ॥
English Translation
Refusal to take what is not given, gift, study of sacred books, penance, abstention from injury, truth, freedom from anger, and adoration of the gods in sacrifices,-these are the marks of virtue.
य एव धर्मः सोऽधर्मोऽदेशेऽकाले प्रतिष्ठितः । आदानमनृतं हिंसा धर्मो व्यावस्थिकः स्मृतः ॥
English Translation
Virtue again, according to time and place, becomes sin. Thus misappropriation of another's property, untruth, and injury and killing, may under special circumstances, become virtue.
द्विविधौ चाप्युभावेतौ धर्माधर्मौ विजानताम् । अप्रवृत्तिः प्रवृत्तिश्च द्वैविध्यं लोकवेदयोः ॥
अप्रवृत्तेरमर्त्यत्वं मर्त्यत्वं कर्मणः फलम् । अशुभस्याशुभं विद्याच्छुभस्य शुभमेव च ॥
एतयोश्चोभयोः स्यातां शुभाशुभतया तथा । दैवं च दैवयुक्तं च प्राणश्च प्रलयश्च ह ॥
अप्रेक्षापूर्वकरणादशुभानां शुभं फलम् । ऊर्ध्वं भवति संदेहादिह दृष्टार्थमेव वा । अप्रेक्षापूर्वकरणात्प्रायश्चित्तं विधीयते ॥
English Translation
Expiation has been laid down, for an act undertaken for the purpose of doing mischief (to some one) in the future, as well as for an act done whose consequence is apparently mischievous.
क्रोधमोहकृते चैव दृष्टान्तागमहेतुभिः । शरीराणामुपक्लेशो मनसश्च प्रियाप्रिये । तदौषधैश्च मन्त्रैश्च प्रायश्चित्तैश्च शाम्यति ॥
English Translation
When an act is performed from wrath or misjudgment, then expiation should be performed by paining the body, guided by example by scriptures, and by reason. when any action, is performed for pleasing or displeasing the mind, the sin originating thereform may be cleansed by pure food and recitation of Mantras.
जातिश्रेण्यधिवासानां कुलधर्मांश्च सर्वतः । वर्जयेन्न हि तं धर्मं येषां धर्मो न विद्यते ॥
English Translation
There is no expiation for them who do not observe duties and practices of their order and caste, country, and family, and who forsake their own creed.
दश वा वेदशास्त्रज्ञास्त्रयो वा धर्मपाठकाः । यद्ब्रूयुः कार्य उत्पन्ने स धर्मो धर्मसंशये ॥
English Translation
When any doubt arises regarding what should be done, it should be settled by the injunction of the scriptures which ten persons versed in Vedic scriptures or three of those who frequently recite them may declare.
अरुणा मृत्तिका चैव तथा चैव पिपीलकाः । श्लेष्मातकस्तथा विप्रैरभक्ष्यं विषमेव च ॥
English Translation
The bull, earth, little ants, worms born in dirt, and poison, should not be eaten by Brahmanas.
अभक्ष्या ब्राह्मणैर्मत्स्याः शकलैर्ये विवर्जिताः । चतुष्पात्कच्छपादन्यो मण्डूका जलजाश्च ये ॥
English Translation
They should also abstain from eating fishes that have scales, and four-legged aquatic animals like frogs and others, except the tortoise.
भासा हंसाः सुपर्णाश्च चक्रवाका बकाः प्लवाः । कङ्को मद्गुश्च गृध्राश्च काकोलूकं तथैव च ॥
क्रव्यादाः पक्षिणः सर्वे चतुष्पादाश्च दंष्ट्रिणः । येषां चोभयतो दन्ताश्चतुर्दंष्ट्राश्च सर्वशः ॥
एडकाश्वखरोष्ट्रीणां सूतिकानां गवामपि । मानुषीणां मृगीणां च न पिबेद्ब्राह्मणः पयः ॥
प्रेतान्नं सूतिकान्नं च यच्च किंचिदनिर्दशम् । अभोज्यं चाप्यपेयं च धेन्वा दुग्धमनिर्दशम् ॥
English Translation
Besides this the good that has been offered to the departed manes, that which has been usurer cooked by a woman who has recently given birth to a child, and food cooked by a unknown person, should not be taken. The milk also of a cow that has recently calved should not be drunk.
तक्ष्णश्चर्मावकर्तुश्च पुंश्चल्या रजकस्य च । चिकित्सकस्य यच्चान्नमभोज्यं रक्षिणस्तथा ॥
गणग्रामाभिशस्तानां रङ्गस्त्रीजीविनश्च ये । परिवित्तिनपुंषां च बन्दिद्यूतविदां तथा ॥
वार्यमाणाहृतं चान्नं शुक्तं पर्युषितं च यत् । सुरानुगतमुच्छिष्टमभोज्यं शेषितं च यत् ॥
पिष्टमांसेक्षुशाकानां विकाराः पयसस्तथा । सक्तुधानाकरम्भाश्च नोपभोज्याश्चिरस्थिताः ॥
पायसं कृसरं मांसमपूपाश्च वृथा कृताः । अभोज्याश्चाप्यभक्ष्याश्च ब्राह्मणैर्गृहमेधिभिः ॥
देवान्पितॄन्मनुष्यांश्च मुनीन्गृह्याश्च देवताः । पूजयित्वा ततः पश्चाद्गृहस्थो भोक्तुमर्हति ॥
यथा प्रव्रजितो भिक्षुर्गृहस्थः स्वगृहे वसेत् । एवंवृत्तः प्रियैर्दारैः संवसन्धर्ममाप्नुयात् ॥
न दद्याद्यशसे दानं न भयान्नोपकारिणे । न नृत्तगीतशीलेषु हासकेषु च धार्मिकः ॥
← Previous (Ch. 1364) Full Table of Contents Next (Ch. 1366) →