विजातीयसम्पर्को यथा—(मवीच. ५.२२)
न्यक्कारो हृदि वज्रकील इव मे तीव्रः परिस्पन्दते घोरान्धे तमसीव मज्जति मनः संमीलितं लज्जया।
शोकस्तार्क्ष्यविपत्तिजो दहति मां नास्त्येव यस्मिन् क्रिया मर्माण्येव पुनश्छिनत्ति करुणा सीतां वराकीं प्रति॥ ९७॥
बह्वनुगमस्थिते बलवति यथा—
क्वाकृत्यं शशलक्ष्मणः॥ ९७॥
इत्यादि।
आगन्तौ बलवति यथा—(रत्ना. ४.२१)
प्राप्तो विक्रमबाहुरात्मसमतां॥ ९८॥
इत्यादि।
संविधानकानुरूपास्तत्संविधय इति।
यत्र संविधानके यावतां प्रथमानुरागादीनामस्तित्वं तावन्तस्तत्र संविधीयन्ते।
क्वचिदेक एव। यथा—प्रवासो मेघदूते।
क्वचिद् . . . . (द्वय) यथा—प्रथमानुराग—(प्रथमानुराग)/?/नन्तरौ उषाहरणे।
क्वचित् त्रयं; यथा— प्रथमानुरागप्रवासकरुणाः कादम्बरी—प्रथमखण्डे।
क्वचित् चत्वारः; यथा— मान—मानानन्तर—प्रवास—प्रवासानन्तराः हरिविजये।
क्वचित् पञ्च; यथा— प्रथमानुराग—प्रथमानुरागानन्तर—करुण—करुणानन्तर— प्रवासा नागानन्दे।
कवचित् षड्; यथा— प्रथमानुराग—प्रथमानुरागानन्तर—करुण—करुणानन्तर— प्रवास—प्रवासानन्तराः मालतीमाधवे।
क्वचित सप्त; यथा— प्रथमानुराग—प्रथमानुरागानन्तर—(मान—मनानन्तर) प्रवास—प्रवासानन्तर—करुणाः कुमारसम्भवे।
क्वचिदष्टौ; यथा— प्रथमानुरागप्रथमानुरागानन्तरमानमानानन्तर(प्रवास— प्रवासानन्तर)—करुण—करुणानन्तराः तापसवत्सराजे।
एवं संविधानकानुरूपाः सर्वत्र विप्रलम्भसम्भोगयोः प्रकारसंविधयो विधातव्याः। ते चैकशो विप्रलम्भानामेव चत्वारः। सम्भोगवर्गस्तु निर्विशेषेणानन्तरव्यपदेशं न लभते। द्वाभ्यां द्वाभ्यां दश। तत्र विप्रलम्भैः सानन्तरैश्चत्वारः प्रथमानुरागस्य। मानप्रवासकरुणैः मानस्य। प्रवासकरुणाभ्यां प्रवासस्य करुणेन सम्प्रयोगे षडिति त्रिभिस्त्रिभिः षोडश। तत्र सानन्तरद्विकानां चतुर्णामितर— विप्रलम्भैस्त्रिभिस्त्रिभिर्व्यस्तैर्योगे द्वादश। समस्तैस्तैरेव चत्वार इति चतुर्भिश्चतुर्भिरेकोनविंशतिः।
तत्र सानन्तरद्विकानां चतुर्णामितरविप्रलम्भेभ्य एकैकहान्या द्वाभ्यां योगे प्राग्वदेव द्वादश। सानन्तरैश्च सानन्तराणां त्रिभिर्द्वाभ्यामेकेनेति योगे प्राग्वदेव षट्। चतुर्भिश्च विप्रलम्भैरेक इति, पञ्चभिः पञ्चभिः षोडश। तत्र सानन्तरद्विकानां त्रिभिस्त्रिभिरितरविप्रलम्भैर्योगे चतुर्णां चत्वारः सोऽसानन्तरद्विकद्वयीनां च षण्णामितरविप्रलम्भयोः पृथक्पृथगेकैकेन योगे द्वादशेति षड्भिः षड्भिर्दश। तत्रैकैः सानन्तरद्विकहान्या सानन्तरैश्चत्वारः। सानन्तरद्विकद्वयीनां च षण्णामितरविप्रलम्भा(नां) x x योगे षडिति सप्तभिः सप्तभिश्चत्वारः। तत्रैकैकमनन्तरं सम्भोगमेव जह्यात्। विप्रलम्भत्यागे सम्भोगस्य तदनन्तरव्यपदेशाभावात् अष्टक इत्येकत्वे(?) भेदा अशीतिः।
तेषां नित्यादिसम्भेदभेदः प्रत्येकमिष्यते।
द्विशती तत्प्रभेदानां पञ्चपञ्चाशदुत्तरम्॥ ९९॥
स्थितानामग्रिमैर्योगेऽनन्तराणामनन्तरैः ।
नित्यादिषु यथायोगं सम्भवे स्यादसंख्यता॥ १००॥
तथाहि, नित्यादयः पृथगवनतेऽनन्तरैर्योगे सप्त षट् पञ्च चत्वारः त्रयो द्वावेक इति द्विका अष्टाविंशतिः। एवं द्विकानामनन्तरैर्योगे चतुष्काः सप्ततिः। चतुष्काणां पञ्चकाः षट्पञ्चाशत्। पञ्चकानां षट्का अष्टविंशतिः। षट्काणां सप्तका अष्टौ। सप्तकानामष्टक एक एव। चतुरादिभ्योऽन्येषामसम्भवात् न प्रस्तारवृद्धिः।
तत्राष्टकयोगो यथा—(विक्रमो. २.१६)
मया नाम जितं यस्य त्वयाऽयं समुदीर्यते।
जयशब्दः सहस्राक्षादागतः पुरुषान्तरम्॥ १०१॥
सप्तकेषु नित्यनैमित्तिकसामान्यविशेषप्रकाशप्रच्छन्नाकृत्रिमाणां योगो यथा— (गास. २.९७. वल. ४७६)