विप्रलम्भे यथा—(गास. १.८८)
जाणइ जाणावेउं अणुणअविद्दविअमाणपरिसेसं।
पवइरिक्कम्मि वि विणआवलंबणं स च्चिअ कुणंती॥ ८३॥
(जानाति ज्ञापयितुमनुनयविद्रावितमानपरिशेषम्।
विजने/व्यतिरिक्तेऽपि विनयावलंबनं सैव सत्यं कुर्वती॥)
प्रगल्भाया उत्तमत्वं सम्भोगे यथा—(अमरु. ७५)
कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतम्।
असहनसखीश्रोत्रप्राप्तिप्रमादससंभ्रमं विवलितदृशा शून्ये गेहे समुच्छ्वसितं पुनः॥ ८४॥
विप्रलम्भे यथा—(रत्ना. २.२१)
भ्रूभेदे सहसोद्गतेऽपि वदनं नीतं परां नम्रताम्॥ ८५॥
इत्यादि।
अथोत्तमामध्याकनिष्ठासु मुग्धत्वम्। तत्र—
उत्तमाया मुग्धत्वं सम्भोगे यथा—(गास. १.१५)
किं किं ते पडिभाअइ सहीहि इअ पुच्छिआए मुद्धाए।
पढमुल्लअदोहलिणिए णवरं दइअं गआ दिट्ठी॥ ८६॥
(किं किं ते प्रतिभासते/भाति सखीभिरिति पृष्टाया मुग्धायाः।
प्रथमार्द्र/प्रथमोद्गतदोहदिन्याः केवलं दयितं गता दृष्टिः॥)
विप्रलम्भे यथा—(वल. ३७९)
कइआ गओ पिओ? अज्ज पुत्ति! अज्जेणव कइ दिण होंति?।
एक्को, एद्दहमेत्तो भणिऊ मोहं गता बाला॥ ८७॥
(कदा गतः प्रियः? अद्य, पुत्रि! अद्येति कति दिनानि भवन्ति?।
एकं; एतावन्मात्रं भणित्वा मोहं गता बाला॥)
मध्यमाया मुग्धत्वं सम्भोगे यथा—(द्र. १५.२८६)
मुद्धत्तणेण बहुआ णंते वक्खारआहि सहिसद्धे।
अणुमग्गपअंत्ता/अट्टा पिअअमेण हसिऊण पडिरुद्धा॥ ८८॥
(मुग्धत्वेन वधूः याति रतिगृहात् सखीसार्धे।
अनुमार्गप्रवृत्ता प्रियतमेन हसित्वा प्रतिरुद्धा॥)
विप्रलम्भे यथा—(गास. ५.५३)
सहि! साहसु सब्भावेण पुच्छिमो किं असेसमहिलाणँ।
वड्ढंति करत्थं/ट्ठिआ च्चिअ वलआ दइए पउत्थम्मि॥ ८९॥