(सखि! साधय/कथय सद्भावेन पृच्छामः किं अशेषमहिलानाम्।
वर्धन्ते करस्थिता एव वलया दयिते प्रोषिते॥)
कनिष्ठाया मुग्धत्वं सम्भोगे यथा—(गास. २.४५)
सहिआहिँ भण्णमाणा थणए लग्गं कुसुंभपुप्फं ति।
मुद्धवहुआ हसिज्जइ पप्फोडंती णहवआइं॥ ९०॥
(सखीभिर्भण्यमाना स्तनयोर्लग्नं कुसुम्भपुष्पमिति।
मुग्धवधूर्हास्यते प्रस्फोटयन्ती नखपदानि॥)
विप्रलम्भे यथा—
अंदोलण—लंघिअ—तट्टिआएँ दिट्ठे तुमम्मि मुद्धाए।
आसंघिज्जइ काउं करपेल्लणणिच्चला दोला॥ ९१॥
(आन्दोलनलङ्घितवृतिकया दृष्टे त्वयि मुग्धया।
आशंस्यते कर्तुं करप्रेरणनिश्चला डोला॥)
बलाबलानुरूपाः सम्पर्कानुगमभक्तय इति। तत्र तुल्यबलयोर्युगपद् उपनिपाते सम्पर्कः। स द्विधा— सजातीययोर्विजातीययोश्च।
तत्र . . . . . प्रकृतकारणता सजातीयत्वं; यथा—(मामा. ६.९)
नैराश्यकातरधियो हरिणेक्षणायाः श्रुत्वा निकामकरुणं च मनोहरं च।
वात्सल्यमोहपरिदेवितमुद्वहामि चिन्ताविषादविपदं च मनोहरं च॥ ९२॥
विरुद्धाप्रकृतकारणता विजातीयत्वं; यथा—(मामा. १०.१०)
किमयमसिपत्रचन्दनरसच्छटाधारयुगपदवपातः ।
अनलस्फुलिङ्गकलिलः किमयमनभ्रः सुधावर्षः॥ ९३॥
अतुल्यबलयोरनुगमः। सोऽपि द्विधा— स्थितानुगमे, आगन्त्वनुगमे च। तयोः
आगन्तोर्बलवतः स्थितानुगमः; यथा—(विक्रमो. ५.१६)
आश्वासितस्य मम नाम सुतोपलब्ध्या सद्यस्त्वया सह कृशोदरि! विप्रयोगः।
व्यावर्तितातपरुजः प्रथमाभ्रवृष्ट्या वृक्षस्य वैद्युत इवाग्निरुपस्थितोऽयम्॥ ९४॥
स्थिते बलवति आगन्त्वनुगमः ; यथा—(मामा. ५.३१)
प्रणयसखीसलीलपरिहासरसाधिगतैः ललितशिरीषपुष्पहननैरपि ताम्यति यत्।
वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः॥ ९५॥
एतेन बहूनामप्युपगमे निपाते सम्पर्कानुगमसंविधिर्व्याख्यातः। तत्र—
सजातीयसम्पर्को यथा—(मामा. ५.२८)
राहोश्चन्द्रकलामिव॥ ९६॥
इत्यादि