Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 15

Prakāśa 15: रत्यालम्बनविभावप्रकाशः

प्रकाशः 15 • रत्यालम्बनविभावप्रकाशः

Prakāśa 15 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1849 Verses • Citations: SP 15.1–1849 • 4 Lexicon Terms • Page 22 of 62 (Verses 30 shown)
उत्तमाऽधीरोढा प्रगल्भा यथा—(अमरु. ७५)
कथमपि कृतप्रत्यासक्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतम्।
असहनसखीश्रोत्रप्राप्‍तिप्रमादससंभ्रमं विवलितदृशा शून्ये गेहे समुच्छवसितं ततः॥ १८३॥
उत्तमाऽधीराऽनूढा प्रगल्भा यथा—(शाकु. ३.७)
क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं मध्यः क्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा।
शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी॥ १८४॥
नीलेन्दीवरशङ्कया नयनयोर्बन्धूकबुद्ध‍याऽधरे पाणौ पद्मधिया मधूककुसुमभ्रान्त्या तथा गण्डयोः।
लीयन्ते कबरीषु बान्धवकुलव्यामोहजातस्पृहा दुर्वारा मधुपाः; कियन्ति तरुण ! स्थानानि रक्षिष्यसि ?॥ १८५॥
कपोले पत्रालीकरतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतहृद्योऽधररसः।
मुहुः कण्ठे लग्‍नस्तरलयति बाष्पः स्तनतटीं प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम्॥ १८६॥
पिअ—संभरण—पलोट्टंत—वाह—धार—णिवाअ—भीआए।
दिज्जइ वंकग्गीवाए दीवओ पहिअ—जाआए॥ १८७॥
(प्रियसंस्मरणप्रलुठद्‍बाष्पधारानिपातभीतया।
दीयते वक्रग्रीवया दीपकः पथिकजायया॥)
घरिणीएँ महाणस—कम्म—लग्ग—मसिमलिइ/मइलिएण हत्थेण।
छित्तं मुहं हसिज्जइ, चंदावत्थं गअं पइणा॥ १८८॥
(गृहिण्या महानसकर्मलग्‍नमसीमलिनेतेन/नेन हस्तेन।
स्पृष्टं मुखं हस्यते चन्द्रावस्थं गतं पत्या॥)
कस्स करो बहुपुण्णप्फलेक्कतरुणो तुहं विसम्मिहइ।
थणपरिणाहे वम्महणिहाणकलसे व्व पारोहो॥ १८९॥
(कस्य करो बहुपुण्यफलैकतरोस्तव विश्रमिष्यति।
स्तनपरिणाहे मन्मथनिधानकलश इव प्ररोहः॥)
मध्यमा धीरोढा यथा—(गास. ४. ८४)
पिसअ पिए ! का कुविआ सुअणु ! तुमं परअणम्मि को कोवो।
का हु परो णाह ! तुमं कीस अप्पुण्णाण मे सत्ती॥ १९०॥
← Previous (Ch. 14) Full Table of Contents Next (Ch. 16) →