Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 14

Prakāśa 14: हर्षादिभावप्रपञ्चपञ्चकप्रकाशः

प्रकाशः 14 • हर्षादिभावप्रपञ्चपञ्चकप्रकाशः

Prakāśa 14 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 841 Verses • Citations: SP 14.1–841 • 4 Lexicon Terms • Page 1 of 29 (Verses 30 shown)
श्रृङ्गारप्रकाशे चतुर्दशः प्रकाशः
हर्षादिभावप्रपञ्चपञ्चकप्रकाशः
मनोरथावाप्‍तौ मनः प्रसादो हर्षः। स जन्मनि यथा—(मवीच १.१३)
रक्षोघ्‍नानि च मङ्गलानि सुदिने कल्प्यानि दारक्रिया वैदेह्याश्च रघूद्‌वहस्य च कुले दीक्षाप्रवेशश्च नः।
आस्थाप्यानि च तानि तानि जगतां क्षेमाय रामात्मनो दैत्यारेश्चरिताद्भुतान्यथ खलु व्यग्राः प्रमोदामहे॥ १॥
जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसम्मिताक्षरम्।
अदेयमासीद् द्वयमेव भूपतेः शशिप्रभं छत्त्रमुभे च चामरे॥ २॥
जातस्य ते पितुरपीन्द्रजितो निहन्तु— र्वत्सस्य वत्स! कति नाम दिनान्यमूनि।
तस्याप्यपत्यमनुतिष्ठति वीरधर्मं दिष्ट्या गतं दशरथस्य कुलं प्रतिष्ठाम्॥ ३॥
संपृक्ते यथा—(विक्रमो. ५.१६)
आश्वासितस्य मम नाम सुतोपलब्ध्या सद्यस्त्वया सह कृशोदरि! विप्रयोगः।
व्यावर्तितातपरुजः प्रथमाब्भ्रवृष्ट्या वृक्षस्य वैद्युत इवाग्‍निरुपस्थितोऽयम्॥ ४॥
अनुवृत्तौ यथा—(रत्‍ना. ४.१३)
विवृद्धिं कम्पस्य प्रथयतितरां साध्वसवशा— दविस्पष्टां दृष्टिं तिरयति मुहुर्बाष्पसलिलैः।
*६१४ पृष्ठगतमुद्‌देशक्रममनुसृत्य भावा अत्र नोपस्थाप्यन्ते मुद्रितेषु संस्करणेषु व्युत्क्रमेणोपस्थापितत्वात्। स्खलद्वर्णां वाणीं जडयतितरां गद्गदितया
जरायाः साहाय्यं मम हि परितोषोऽद्य कुरुते॥ ५॥
आत्मनो विक्षोभजन्मा अन्तश्शरीरोच्छ्‌वासो रोमाञ्चः। तस्य जन्मनि यथा—(शाकु. ३.१२)
उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः।
कण्टकितेन प्रथयति मय्यनुरागं कपोलेन॥ ६॥
सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्‍तुम्।
रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रमदरालकेश्‍याः॥ ७॥
विवृण्वती शैलसुताऽपि भावमङ्गैः क्‍वचित्/स्फुरद्‌बालकदम्बकल्पैः।
साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन॥
← Previous (Ch. 13) Full Table of Contents Next (Ch. 15) →