Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 14

Prakāśa 14: हर्षादिभावप्रपञ्चपञ्चकप्रकाशः

प्रकाशः 14 • हर्षादिभावप्रपञ्चपञ्चकप्रकाशः

Prakāśa 14 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 841 Verses • Citations: SP 14.1–841 • 4 Lexicon Terms • Page 11 of 29 (Verses 30 shown)
केयूरीकृतकङ्कणावलिरसौ कर्णावतंसीकृत— व्यालोलालकपद्धतिः पथि पुरो बद्धाञ्जलिः पृच्छति।
यावत् किञ्चिदुदन्तमात्मकमितुस्तावत् स एवेत्यथ व्रीडावक्रितकण्ठनालमबला कैः कैर्न भिन्ना रसैः॥ ८६॥
इङ्गिताकारगोपनमवहित्थम्। तस्य
क्‍व वयं क्‍व परोक्षमन्मथो मृगशावैः सममेधितो जनः।
परिहासविजल्पितं सखे! परमार्थेन न गृह्यतां वचः॥ ८७॥
एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी।
लीलाकमलपत्राणि गणयामास पार्वती॥ ८८॥
पाअडिअ—सणेहसब्भाव—विब्भमं तीए जह तुमं दिठ्ठो।
संवरण—वावडाए अण्णो वि जणो तह च्चेअ॥ ८९॥
(प्रकटितस्नेहसद्भावविभ्रमं तया यथा त्वं दृष्टः।
संवरणव्यापृतयाऽन्योऽपि जनस्तथैव॥)
अभिमुखे मयि संहृतमीक्षितं हसितमन्यनिमित्तकृतोदयम्।
विनयवारितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः॥ ९०॥
प्रम्लानोत्पलकोमले सखि! दृशौ नीलाञ्जनेनाञ्चिते कर्पूरच्छुरणाच्च गण्डफलके संवर्धितः पाण्डिमा।
श्वासाः सन्तु च कन्दुकभ्रमिभुवः किं तु प्रभा—वाहिना— मङ्गानां क्रशिमानमुत्कटममुं को नाम नोत्प्रेक्षते॥ ९१॥
मनसोऽस्थैर्यं चपलता। तस्या
जन्म यथा—(रघु. ७.६, कुसं. ७.५७)
आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्‍वेष्टनवान्तमाल्यः।
बन्धुं न सम्भावित एव तावत् करेण रुद्धोऽपि च केशपाशः॥ ९२॥
अनुबन्धो यथा—(रघु. ७.७, कुसं. ७.५८)
प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद् द्रवरागमेव।
उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्कां पदवीं ततान॥ ९३॥
← Previous (Ch. 13) Full Table of Contents Next (Ch. 15) →